संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
अत्रेत्थमितिकर्तव्यता

धर्मसिंधु - अत्रेत्थमितिकर्तव्यता

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

स्पर्शकालात्पूर्वस्नात्वा अमुकगोत्रोऽमूकशर्माहंराहुग्रस्तेदिवाकरेनिशाकरेवा

अमुकदेवतायाअमुकमन्त्रसिद्धिकामोग्रासादिमुक्तिपर्यन्तममुकमन्त्रस्यजपरूपंपुरश्चरणंकरिष्ये

इतिसंकल्पं च कृत्वाऽऽसनबन्धन्यासादिकं च स्पर्शात्पूर्वमेवविधायस्पर्शादिमोक्षपर्यन्तंमूलमन्त्रजपंकुर्यात् तथ

परदिनेस्नानादिनित्यंकृतंविधाय

अमुकम्नत्रस्यकृतैतद्‌ग्रहणकालिकामुकसंख्याकपुरश्चरणजपसाङ्गतार्थंतद्दशांशहोमतद्दशांशतर्पणतद्दशअंशमार्जनतद्दशांशब्राह्मणभोजनानिकरिष्ये

इतिसंकल्प्य होमादिकंतत्तच्चतुर्गुणद्विगुणान्यतरजपंबाकुर्यात्

ग्रहणकालेचतत्प्रेरितःपुत्रादिरमुकशर्मणोऽमुकगोत्रस्यामुकग्रहणस्पर्शस्नानजनितश्रेयः

प्राप्त्यर्थं स्पर्शस्नानंकरिष्येइत्यादिसंकल्पपूर्वकंतदीयस्नानदानादिककुर्यात् पुरश्चरणमकुर्वद्भिरपिगुरूपदिष्टः

स्वस्वेष्टदेवतामन्त्रजपोगायत्रीजपश्चावश्यंग्रहणेकार्योऽन्यामन्त्रमालिन्यम् ग्रहणकालेशयनेकृते रोगो मूत्रेदारिद्यं

पुरोषेकृमिर्मैथुनेग्रामसूकरोऽभ्यङ्गेकुष्ठीभोजनेनरकइति पूर्वपक्वमन्नंग्रहणात्तरंत्याज्यम्

एवंग्रहणकालस्थितजलपानेपादकृच्छ्राभिधानाज्जलमपित्याज्यम् काञ्जिकंतक्रंघृततैलपाचितमन्नंक्षीरंचपूर्वसिद्धंग्रहणोत्तरं

ग्राह्यम् घृतेसंधिते गोरसेषुग्रहणकालेकुशान्तरायंकुर्यात् ॥

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP