संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
कालभेदाः

धर्मसिंधु - कालभेदाः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


तत्र कालः षड्‌विधः वत्सरः अयनं ऋतुः मासः पक्षो दिवस इति । वत्सरः पञ्चधा ।

चान्द्रः सौरः सावनो नाक्षत्रो बार्हस्पत्यइति ।

शुक्लप्रतिपदादिदर्शान्तैश्चैत्रादिसंज्ञैर्द्वादशभिर्मासैश्चतुः पञ्चाशदधिकशतत्रयदिनैः सतिमलमासेत्रयो दशभिर्मासैश्चान्द्रोवत्सरः ।

चान्द्रस्यैवप्रभवोविभवः शुक्ल इत्यादयःषष्टिसंज्ञाः ।

मेषादिषुद्वादशराशिपुरविभुक्तेषुपञ्चषष्ठ्यधिकशतत्रयदिनैःसौरोवत्सरः संपद्यते षष्ठयुत्तरशतत्रयदिनैःसावनः ।

वक्ष्यमाणैर्द्वादशभिर्नाक्षत्रमासैर्नाक्षत्रोवत्सरःसचचतुर्विंशत्यधिकशतत्रयदिनैः स्यात् मेषाद्यन्यतमराशौ बृहस्पतिनाभुक्तेबार्हस्पत्यः ।

सच एकषष्ठ्यधिकशतत्रयसङ्‌ख्यदिनैर्भवति कर्मादौसंकल्पे चान्द्रवत्सर एवस्मर्तव्योनान्यः अयनं द्विविधं दक्षिणमुत्तरंच सूर्यस्य

कर्कसंक्रान्तिमारभ्यषड्‌राशिभोगेनदक्षिणम् । मकरसंक्रान्तिमारभ्यराशिषट्‌कभोगेनोत्तरायणम् । ऋतुर्द्विविधःसौरश्चान्द्रश्च ।

मीनारम्भोमेषारम्भो वा सूर्यस्यराशिद्वयभोगात्मकोवसन्तादिषट्‌संज्ञकः सौरऋतु । चैत्रमारभ्यमासद्वयद्वयात्मको ।

वसन्तादिषट्‌संज्ञकश्चान्द्रः । मलमासेतुकिंचिदूननवतिसङ्खयैर्दिनैश्चान्द्रऋतुः । श्रौतस्मार्तादौचान्द्रर्तुस्मरणंप्रशस्तम् । मासश्चतुर्धा ।

चान्द्रः सौरः सावनो नाक्षत्र इति । शुक्लप्रतिपदादिरमान्तः । कृष्णप्रतिपदादिः पूर्णिमान्तोवा चान्द्रोमासः ।

तत्रापि शुक्लादिर्मुख्यः ।

कृष्णादिर्विन्ध्योत्तरएवग्राह्यः । अयमेवचैत्रादिसंज्ञकः कर्मादौस्मर्तव्यः । केचिन्मीनराशिमारभ्यसौराणां चैत्रादिसंज्ञामाहुः ।

अर्कसंक्रान्तिमारभ्योत्तरसंक्रान्त्यवधिः सौतेमासः । त्रिंशद्दिनैः सावनः । चन्द्रस्याश्विन्यादिसप्तविंशतिनक्षत्रभोगेन नाक्षत्रोमासः ।

प्रतिपदादिपौर्णिमान्तः शुक्लपक्षः । प्रतिपदादिदर्शान्तःकृष्णपक्षः । दिवसःषष्टिघटिकात्मकः ।

इति श्रीधर्मसिन्धुसारे प्रथमोद्देशः ॥१॥

N/A

References : N/A
Last Updated : April 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP