संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
अथसंक्षेपतोव्रतदिननिर्णयः ।

धर्मसिंधु - अथसंक्षेपतोव्रतदिननिर्णयः ।

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

जयन्तीव्रतवन्नित्यं काम्यंचैकादशीव्रतम् । अरुणोदयवेधोऽत्रवेधःसूर्योदयेतथा ॥१॥

उक्तौद्वीदशमीवेधोवैष्नव स्मार्तयोःक्रमात् । विद्धात्याज्यवैष्णवेन शुद्धाप्याधिक्यसंभवे ॥२॥

एकादशी द्वादशीवाऽधिकाचेत्यज्यतादिनं । पूर्वग्राह्यतूत्तरं स्यादिति वैष्णवनिर्णयः ॥३॥

अस्यार्थः । जयन्तीव्रतवत् अकरणेप्रत्यवायश्रवनान्नित्यं संपत्त्यादिफलश्रवणात्काम्यंचैकादशीव्रतं तत्रैकादश्यांद्वौदशमीवेधौ

अरुणोदयेदशमीवेधः सूर्योदयेदशमीवेधश्च क्रमाद्वैष्णवस्मार्तयोः वैष्णवानामरुणोदयेदशमीवेधः स्मार्तानां सूर्योदयेदशमीवेध इत्यर्थः

षट्‌पञ्चाशद्धटीमिते अरुणोदयः सूर्योदयश्चस्पष्टः अत्रस्वपारंपर्यप्रसिद्धमेव वैष्णवत्वं स्मार्तत्वंचवृद्धामन्यन्ते इतितदेवग्राह्यम् ।

विष्णवेनविद्वैकादशी अरुणोदयेवेधवतीएकादशी त्याज्या द्वादश्युपोष्या आधिक्यसंभवेएकादशिद्वादश्योरुभयोराधिक्ये

सूर्योदयोत्तरंसत्त्वे शुद्धापि त्याज्या परैवैकादशी उपोष्या तथा एकादश्याएवाधिक्ये शुद्धमपिपूर्वदिनं त्याज्यं परंग्राह्यं तथैव

द्वादश्या एवाधिक्योपिपूर्वदिनं त्याज्यं परदिनं ग्राह्यमित्यर्थः इति वैष्णवनिर्णयः ॥ अथ स्मार्तानांनिर्णयउच्यते ।

एकादशीद्वादशीचेत्युभयंवर्धते यदा । तदा पूर्वदिनंत्याज्यं स्मार्तैर्ग्राह्यंपरंदिनम् ॥१॥

एकादशी मात्रवृद्धौ गृहियत्योर्व्यवस्थितिः । उपोष्यागृहिभिःपूर्वा यतिभिश्चोत्तरातिथिः ॥२॥

द्वादशीमात्रवृद्धौतु शुद्धाविद्धे व्यवस्थिते । शुद्धापूर्वोत्तराविद्धा स्मार्तनिर्णयईदृशः ॥३॥

अस्यार्थः । एकादशीद्वादश्योर्यवृद्धिः सूर्योदयोत्तरं विद्यमानत्वं तदापूर्वैकादशीशुद्धापिस्मार्तैस्त्याज्या परैवोपोष्या ।

एकादश्या एववृद्धौतु गृहिभिः स्मार्तैः पूर्वोपोष्या यत्यादिभिरुत्तरा । द्वादश्याएववृद्धौतु शुद्धाविद्धयोर्व्यवस्था एकादशी शुद्धा

चेत्साउपोष्या एकादशीविद्धांचेद्‍ द्वादश्येवोपोष्या एवंचोभयाधिक्ये द्वादशीमात्राधिक्येच स्मार्तानां विद्धैकादशीत्यागो नान्यत्रेत्यर्थः ।

इति स्मार्तनिर्णयः ॥

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP