संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
अथ क्षयमासोदाहरणम्

धर्मसिंधु - अथ क्षयमासोदाहरणम्

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


भाद्रपदकृष्णामावास्यायांकन्यासंक्रान्तिः तताआश्विनोऽधिमासः शुद्धाश्विनप्रतिपदितुलासंक्रान्तिः कार्तिकशुक्लप्रतिपदिवृश्चिकसंक्रान्तिः

ततोमार्गशीर्षशुद्धप्रतिपदिधनुःसंक्रान्तिः तस्मिन्नेवमासेऽमावास्यायांमकरसंक्रान्तिरितिधनुर्मकरसंक्रान्तिद्वययुक्तएकोमासः

क्षयमाससंज्ञकः सचमार्गशीर्षपौषाख्यमासद्वयात्मकएकोमासोज्ञेयः तस्यप्रतिपदादितिथीनांपूर्वार्धेमार्गशीर्ष

उत्तरार्धेपौषैत्येवंसर्वतिथीनांमासद्वयात्मकत्वात् अत्र तिथिपूर्वार्धेमृतस्यमार्गशीर्षेप्रत्यब्दश्राद्धमुत्तरार्धंमृतस्यतुपौषे

एवंजननेवर्धापनादिविधिरपि ततऊर्ध्वंमाघामावास्यायां कुंम्भसंक्रान्तिः ततःफाल्गुनोऽधिमासः शुद्धफाल्गुनशुक्लप्रतिपदिमीनसंक्रान्तिः

एवंपूर्वापराधिमासद्वययुक्तः क्षयमासोयस्मिन्वर्षे तत्रत्रयोदशमासात्मकंकिचिदूननवत्यधिकशतत्रयदिनैर्वर्षम् तत्रक्षयमासात्पूर्वोऽधिमासः

संसर्पसंज्ञः सर्वकर्मार्हःशुभकर्मणिनत्याज्यः अंहस्पतिसंज्ञः क्षयमासस्तदुत्तरभाव्यधिकमासश्चसर्वकर्मसुवर्ज्यः

एवंत्रिवत्सरांतरस्थः केवलोधिकसोपिवर्ज्यः

N/A

References : N/A
Last Updated : April 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP