संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
अथग्रहणनिर्णयः

धर्मसिंधु - अथग्रहणनिर्णयः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

चन्द्रसूर्यग्रहणंयावच्चाक्षुषदर्शनयोग्यं तावान् पुण्यकालः अतोग्रस्तास्तस्थलेऽस्तोत्तरंद्वीपान्तरेग्रहणसत्त्वेपिदर्शनयोग्यत्वाभावान्न

पुण्यकालः एवं ग्रस्तोदयेउदयात्पूर्वंनपुण्यकालः मेघादिप्रतिबन्धेनचाक्षुषदर्शनासंभवेशास्त्रादिना

स्पर्शमोक्षकालौज्ञात्वास्नानदानाद्याचरेत् रविवारे सूर्यग्रहश्चन्द्रवारेचन्द्रग्रहश्चूडामणिसंज्ञस्तत्रदानादिकमनन्तफलम्

ग्रहस्पर्शकालेस्नानं मध्येहोमःसुरार्चनंश्राद्धच मुच्यमानेदानंमुक्तेस्नानमितिक्रमः तत्रस्नानजलेषुतारतम्यम् ।

शीतमुष्णोदकात्पुण्यमपारक्यंपरोदकात् । भूमिष्ठमुद्धृतात्पुण्यंततः प्रस्त्रवणोदकम् ॥१॥

ततोपिसारसंपुन्यंततः पुण्यंनदीजलम् । ततस्तीर्थनदीगङ्गापुण्यापुण्यस्ततोम्बुधिः ॥२॥

इति ग्रहणेस्नानंचसचैलंकार्यम् पचैलत्वंमुक्तिस्नानपरमितिकेचित् मुक्तिस्नानाभावे

सूतकित्वानपगमःग्रहणेस्नानममन्त्रकंसुवासिनीभिःस्त्रीभिरशिरःस्नानं कार्यम् शिष्टस्त्रियस्तुग्रहणेषुशिरःस्नानंकुर्वन्ति

जाताशौचेमृताशौचेचग्रहणनिमित्तंस्नानदानश्राद्धादिकंकार्यमेव

स्नानेनैमित्तिजाताशौचेमृताशौचेचग्रहणनिमित्तंस्नानदानश्राद्धादिकांकार्यमेव

स्नानेनैमित्तिकेप्राप्तेनारीयदिरजस्वला । पात्रान्तरिततोयेनस्नानंकृत्वाव्रतंचरेत् ॥१॥

नवस्त्रपीडनंकुर्यान्नान्यद्वासश्चधारयेत् । त्रिरात्रमेकरात्रंवासमुपोष्यग्रहणेस्नानदानाद्यनुष्ठानेमहाफलम्

एकरात्रपक्षेग्रहणदिनात्पूर्वदिनेउपवासइतिकेचित् ग्रहणसंबद्धाहेरात्र उपवासइत्यपरे पुत्रवद्‌गृहिणोग्रहणसंक्रान्त्यादौनोपवासः

पुत्रवत्पदेनकन्यावानपिग्राह्य इतिकेचित् ग्रहणेदेवपितृतर्पणंकार्यमितिकेचित् सर्वेषामेव वर्णानांसूतकंराहुदर्शने ।

तेनग्रहणकालेस्पृष्टवस्त्रादेःक्षालनादिनाशुद्धिःकार्या अत्रागोभूहिरण्यधान्यादिदानंमहाफलम्

पोविदोभययुक्तमुख्य दानपात्रम् सत्पात्रेदानात्पुण्यातिशयः । सर्वगङ्गासमंतोयंसर्वेव्याससमाद्विजाः ।

सर्वभूमि समंदानंग्रहणे चन्द्रसूर्ययोः १ इत्युक्तिः पुण्यसामान्याभिप्राया अतएव सममब्राह्मणेदानं द्विगुणंब्राह्मणब्रुवे ।

श्रोत्रियेशतसाहस्त्रंपात्रेत्वानन्त्यमश्नुते ॥१॥

इतितारतम्यमुक्तम् अब्राह्मणेसंस्कारादिरहितेजातिमात्रेब्राह्मणेदानं यथोक्त फलम्

गर्भाधानादिसंस्कारयुतोवेदाध्ययनाध्यापनरहितोब्राह्मणब्रुवस्तत्रदानमुक्तद्विगुणफलम् वेदाध्ययनादियुतेश्रोत्रियेसहस्त्रफलम्

विद्यासदाचरणादियुते पात्रेऽनन्तफलमित्येतद्वाक्यार्थः ग्रहणेश्राद्धमामेनहेम्नावाकार्यम् संपन्नश्चेत्पक्वान्नेनकुर्यात्

सूर्यग्रहणेतीर्थयात्राङ्गश्राद्धद्धवत्घृतप्रधानान्नेनश्राद्धंकार्यम् ग्रहणेश्राद्धभोक्तुर्महादोषः ग्रहणेतुलादानादिकंसंपन्नेनकार्यम् ।

चन्द्रसूर्यग्रहेतीर्थेमहापर्वादिकेतथा । मन्त्रदीक्षांप्रकुर्वाणोमासर्क्षादीन्नशोधयेत् १ मन्त्रदीक्षा प्रकारस्तन्त्रेद्रष्टव्यः

दीक्षाग्रहणमुपदेशस्याप्युपलक्षणम् । युगेयुगेतुदीक्षासीदुपदेशःकलौयुगे । चन्द्रसूर्यग्रहेतीर्थेसिद्धक्षेत्रेशिवालये १

मन्त्रमात्रप्रकथनमुपदेशः सउच्यते मन्त्रग्रहणेसूर्यग्रहणमेवमुख्यम् चन्द्रग्रहणेदारिद्र्यादिदोषोक्तेरितिकेचित् ।

चन्द्रसूर्योपरागेचस्नात्वापूर्वमुपोषितः । स्पर्शादिमोक्षपर्यन्तं जपेन्मन्त्रंसमाहितः १ जपाद्दशांशतोहोमस्तथाहोमाच्चतर्पणम् ।

होमाशक्तौजपंकुर्याद्धोमसंख्याचतुर्गुणम् । मूलमन्त्रमुच्चार्यतदन्तेद्वितीयान्तंमन्त्रदेवतानामोच्चार्य

अमुकांदेवतामहंतपर्ययामिनमइतियवादियुक्तजलाञ्जलिभिस्तर्पणंहोमदशांशेनकार्यम्

एवंनमोन्तंमूलमन्त्रमुक्त्वाअमुकांदेवतामहमभिषिञ्चाम्यनेनेत्युच्चार्य जलेनस्वमूर्ध्निअभिषिञ्चोदितिमार्जनंतर्पणदशांशेनकार्यम्

मार्जनदशांशेनब्राह्मणभोजनम् एवंजपहोमतर्पणमार्जनविप्रभोजनात्मकपञ्चप्रकारंपुरश्चरणम्

तर्पणाद्यसंभवेतत्तत्संख्याचतुर्गुणोजपएवकार्यः

अयंचग्रहणेपुरश्चरणप्रकारोग्रस्तोदयेग्रस्तास्तेचनसंभवति पुरश्चरणाङ्गोपवासः पुत्रवद्‍गृहिणापि कार्यः

पुरश्चरणकर्तुःस्नानदानादिनैमित्तिककर्मलोपेप्रत्यवायप्रसङ्गानैमित्तिकं स्नानदानादिकंभार्यापुत्रादिप्रतिनिधिद्वाराकार्यम् ।

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP