संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
अथसंक्रान्तिनिर्णयउच्यते

धर्मसिंधु - अथसंक्रान्तिनिर्णयउच्यते

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


मेषेसूर्यसंक्रान्तौप्रागूर्ध्वचपंचदशपंचदशघटिकाः पुण्यकालः ।

दशदशेत्येके वृषेपूर्वाः षोडश मिथुनेपराः षोडश कर्केपूर्वास्त्रिंशत् सिंहेपूर्वाः षोडश कन्यायांपराः षोडश तुलायां

प्रागूर्ध्वचपंचदशपंचदश दशदशेत्येके वृश्चिकेपूर्वाः षोडश धनुषिपराः षोडश मकरेपराश्चत्वारिंशत् कुम्भेपुर्वाः ।

षोडश मीनेपराः षोडश घटिकाद्वयाद्यल्पदिनशेषे मिथुनकन्याधनुर्मीनष्वपिमकरेऽपिपूर्वाएवपुण्याः ।

प्रभातेघटिकाद्वयाद्यल्पकाले वृषसिंहवृश्चिककुम्भेष्वपिकर्केपिपराएवपुण्याः । प्रभातेकर्कसंक्रान्तौपूर्वदिनेपुण्यमित्येके ।

रात्रौसंक्रमेमध्यरात्रादर्वाक्‌संक्रान्तौपूर्वदिनोत्तरार्धंपुण्यम् । मध्यरात्रात्परतः ।

संक्रान्तौ परदिनस्यपूर्वार्धपुण्यम् निशीथमध्यएवसंक्रान्तौदिनद्वयेपिपूर्वदिनोत्तरार्धंपरदिनपूर्वार्धचपुण्यम् ।

इदंमकरकर्कातिरिक्तेसर्वत्ररात्रिसंक्रमेज्ञेयम् । अयनेतुमकरेरात्रिसंक्रमे सर्वत्रपरदिनमेवपुण्यम् ।

रात्रौकर्कसंक्रान्तौपूर्वदिनमेवपुण्यम् । सूर्यास्तोत्तरंघटिकात्रयसायंसंध्या । तत्रमकरसंक्रमेपूर्वदिनंपुण्यम् ।

सूर्योदयात्प्राक्‌घटिकात्रये प्रातः । संध्यातत्रकर्कसंक्रान्तौपरदिनंपुण्यमिति । संध्याकालेविशेषोज्योतिःशास्त्रेप्रसिद्धः ।

N/A

References : N/A
Last Updated : April 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP