संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
अथैकादशीनिर्णयः

धर्मसिंधु - अथैकादशीनिर्णयः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

तत्रैकादश्युपवासोद्वेधा भोजननिषेधपरिपालनात्मकोव्रतात्मकश्च आद्येपुत्रवद‌गृहस्थादीनांकृष्णपक्षेप्यधिकारः

व्रतात्मकोपवासस्तुअपत्ययुक्तैर्गृहस्थैश्चकृष्णपक्षेनकार्यः किंतुसमन्त्रकंव्रतसंकल्पमकृत्वायथाशक्तिनियमयुतंभोजनवर्जनमेवकार्यम

एवंतिथिक्षयेशुक्लैकादश्यामपिज्ञेयम शयनीबोधिनीमध्यवर्तिकृष्णैकादशीषुसापत्यगृहस्थादीनांसर्वेषामधिकारः

विष्णुसायुज्यकामैरायुःपुत्रकामैश्चकाम्यव्रतंपक्षद्वयेपिकार्यम तत्रनकोपिनिषेधः वैष्णवगृहिणांकृष्णैकादश्यपिनित्योपोश्या

इदमेकादशीव्रतंशैववैष्णवसौरादीनांसर्वेशांनित्यम अकरणेप्रत्यवायश्रवणात संपत्त्यादिफलश्रवनात्काम्यंचभवति

केचिन्मुहूरादिमितदशमीसत्वेदशम्यामेवभोजनंकर्तव्यम

सूर्योदयात्पूर्वमेवप्रवृत्तायांशुद्धाधिकाधिकद्वादशिकायांतुनैरन्तर्येणोपवासद्वय्म्कार्यमितितिथिपालनमपिवदनति

तन्नयुक्तम अष्टमवर्षादूर्ध्वमशीतितमवर्षपर्यन्तमेकादशीव्रताधिकारः शक्तस्यतुअशीतेरूर्ध्वमप्यधिकारः

सभर्तृकाणांस्त्रीणाभर्त्रनुज्ञांपित्राद्यनुज्ञांआविनोपवासव्रताद्याचरणेव्रतवैफल्यंभर्त्रायुःक्षयोनरकश्च अशक्तानांतु

नक्तंहविष्यान्नमनोदनंवाफल्म्तिलाःक्षीरमथाम्बुचाज्यम् । यत्पञ्चगव्य्म्यदिचापिवायुःप्रशस्तमत्रोत्तरमुत्तरंच १

इतिपक्षेषुशक्तितारतम्येनैकपक्षाश्रयणंनत्वेकादशीत्यागः प्रमादादिनैकादश्यामुपोषणाद्यकरणेद्वादश्यामापिव्रतंकार्यम्

द्वादश्यामप्यकरणेयवमध्यचान्द्रायणंप्रायश्चित्तम नास्तिकाद्याकरणेपिपीलिकामध्यचान्द्रायणम्

अशक्तपतिपित्राद्युद्देशेनस्त्रीपुत्रभगिनीभ्रात्रादिभिरेकादशीव्रताचरणेऋतुशतजंपुण्यम् ।

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP