TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
अन्नपूर्णोपनिषत्

अन्नपूर्णोपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.

Upanishad are highly philosophical and metaphysical part of Vedas.


अन्नपूर्णोपनिषत्

॥अन्नपूर्णोपनिषत् ॥ अथर्व वेद,शाक्त उपनिषद्

सर्वापह्नवसंसिद्धब्रह्ममात्रतयोज्ज्वलम् । त्रैपदं श्रीरामतत्त्वं स्वमात्रमिति भावये ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥भद्रं पश्येमाक्षभिर्यजत्राः ॥स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ॥

व्यशेम देवहितं यदायुः ॥स्वस्ति न इन्द्रो वृद्धश्रवाः ॥स्वस्ति नः पूषा विश्ववेदाः ॥

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥स्वस्ति नो बृहस्पतिर्दधातु ॥ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ निदाघो नाम योगीन्द्र ऋभुं ब्रह्मविदां वरम् । प्रणम्य दण्डवद्भूमावुत्थाय स पुनर्मुनिः ॥१॥

आत्मतत्त्वमनुब्रूहीत्येवं पप्रच्छ सादरम् । कयोपासनया ब्रह्मन्नीदृशं प्राप्तवानसि ॥२॥

तां मे ब्रूहि महाविद्यां मोक्षसाम्राज्यदायिनीम् । निदाघ त्वं कृतार्थोऽसि शृणु विद्यां सनातनीम् ॥३॥

यस्या विज्ञानमात्रेण जीवन्मुक्तो भविष्यसि । मूलशृङ्गाटमध्यस्था बिन्दुनादकलाश्रया ॥४॥

नित्यानन्दा निराधारा विख्याता विलसत्कचा । विष्टपेशी महालक्ष्मीः कामस्तारो नतिस्तथा ॥५॥

भगवत्यन्नपूर्णेति ममाभिलषितं ततः । अन्नं देहि ततः स्वाहा मन्त्रसारेति विश्रुता ॥६॥

सप्तविंशति वर्णात्मा योगिनीगणसेविता ॥७॥

ऐं ह्रीं सौं श्रीं क्लीमोन्नमो भगवत्यन्नपूर्णे ममाभिलषितमन्नं देहि स्वाहा ।

इति पित्रोपदिष्टोऽस्मि तदादिनियमः स्थितः । कृतवान्स्वाश्रमाचारो मन्त्रानुष्ठानमन्वहम् ॥८॥

एवं गते बहुदिने प्रादुरासीन्ममाग्रतः । अन्नपूर्णा विशालाक्षी स्मयमानमुखाम्बुजा ॥९॥

तां दृष्ट्वा दण्डवद्भूमौ नत्वा प्राञ्जलिरास्थितः । अहो वत्स कृतार्थोऽसि वरं वरय मा चिरम् ॥१०॥

एवमुक्तो विशालाक्ष्या मयोक्तं मुनिपुङ्गव । आत्मतत्त्वं मनसि मे प्रादुर्भवतु पार्वति ॥११॥

तथैवास्थिति मामुक्त्वा तत्रैवान्तरधीयत । तदा मे मतिरुत्पन्ना जगद्वैचित्र्यदर्शनात् ॥१२॥

भ्रमः पञ्चविधो भाति तदेवेह समुच्यते । जीवेश्वरौ भिन्नरूपाविति प्राथमिको भ्रमः ॥१२॥

आत्मनिष्ठं कर्तृगुणं वास्तवं वा द्वितीयकः । शरीरत्रयसंयुक्तजीवः सङ्गी तृतीयकः ॥१३॥

जगत्कारणरूपस्य विकारित्वं चतुर्थकः । कारणाद्भिन्नजगतः सत्यत्वं पञ्चमो भ्रमः ।

पञ्चभ्रमनिवृत्तिश्च तदा स्फुरति चेतसि ॥१५॥बिम्बप्रतिबिम्बदर्शनेन भेदभ्रमो निवृत्तः ।

स्फटिकलोहितदर्शनेन पारमार्थिककर्तृत्वभ्रमो निवृत्तः । घटमठाकाशदर्शनेन सङ्गीतिभ्रमो निवृत्तः ।

रज्जुसर्पदर्शनेन कारणाद्भिन्नजगतः सत्यत्वभ्रमो निवृत्तः । कनकरुचकदर्शनेन विकारित्वभ्रमो निवृत्तः ।

तदाप्रभृति मच्चित्तं ब्रह्माकारमभूत्स्वयम् । निदाघ त्वमपीत्थं हि तत्त्वज्ञानमवाप्नुहि ॥१६॥

निदाघः प्रणतो भूत्वा ऋभुं पप्रच्छ सादरम् । ब्रूहि मे श्रद्दधानाय ब्रह्मविद्यामनुत्तमाम् ॥१७॥

तथेत्याह ऋभुः प्रीतस्तत्त्वज्ञां वदामि ते । महाकर्ता महाभोक्ता महात्यागी भवानघ ।

स्वस्वरूपानुसन्धानमेवं कृत्वा सुखी भव ॥१८॥

नित्योदितं विमलमाद्यमनतरूपं ब्रह्मास्मि नेतरकलाकलनं हि किंचित् ।

इत्येव भावय निरञ्जनतामुपेतो निर्वाणमेहि सकलामलशान्तवृत्तिः ॥१९॥

यदिदं दृश्यते किंचित्तत्तन्नास्तीति भावय । यथा गन्धर्वनगरं यथा वारि मरुस्थले ॥२०॥

यत्तु नो दृश्यते किंचिद्यन्नु किंचिदिव स्थितम् । मनःषष्ठेन्द्रियातीतं तन्मयो भव वै मुने ॥२१॥

अविनाशि चिदाकाशं सर्वात्मकमखण्डितम् । नीरन्ध्रं भूरिवाशेषं तदस्मीति विभावय ॥२२॥

यदा संक्षीयते चित्तमभावात्यन्तभावनात् । चित्सामान्यस्वरूपस्य सत्तासामान्यता तदा ॥२३॥

नूनं चैत्यांशरहिता चिद्यदात्मनि लीयते । असद्रूपवदत्यच्छा सत्तासामान्यता तदा ॥२४॥

दृष्टिरेषा हि परमा सदेहादेहयोः समा । मुक्तयोः संभवत्येव तुर्यातीतपदाभिधा ॥२५॥

व्युत्थितस्य भवत्येषा समाधिस्थस्य चानघ । ज्ञस्य केवलमज्ञस्य न भवत्येव बोधजा । अनानन्दसमानन्दमुग्धमुग्धमुखद्युतिः ॥२६॥

चिरकालपरिक्षीणमननादिपरिभ्रमः । पदमासाद्यते पुण्यं प्रज्ञयैवैकया तथा ॥२७॥

इमं गुणसमाहारमनात्मत्वेन पश्यतः । अन्तःशीतलया यासौ समाधिरिति कथ्यते ॥२८॥

अवासनं स्थिरं प्रोक्तं मनोध्यानं तदेव च । तदेव केवलीभानं शान्ततैव च तत्सदा ॥२९॥

तनुवासनमत्युच्चैः पदायोद्यतमुच्यते । अवासगं मनोऽकर्तृपदं तस्मादवाप्यते ॥३०॥

घनवासनमेतत्तु चेतःकर्तृत्वभावनम् । सर्वदुःखप्रदं तस्माद्वासनां तनुतां नयेत् ॥३१॥

चेतसा संपरित्यज्य सर्वभावात्मभावनाम् । सर्वमाकाशतामेति नित्यमन्तर्मुखस्थितेः ॥३२॥

यथा विपणगा लोका विहरन्तोऽप्यसत्समाः । असंबन्धात्तथा ज्ञस्य ग्रामोऽपि विपिनोपमः ॥३३॥

अन्तर्मुखतया नित्यं सुप्तो बुद्धो व्रजन्पठन् । पुरं जनपदं ग्राममरण्यमिव पश्यति ॥३४॥

अन्तःशीतलतायां तु लब्धायां शीतलं जगत् । अन्तस्तृष्णोपतप्तानां दावदाहमयं जगत् ॥३५॥

भवत्यखिलजन्तूनां यदन्तस्तद्बहिः स्थितम् ॥३६॥

यस्त्वात्मरतिरेवान्तः कुर्वन्कर्मेन्द्रियैः क्रियाः । न वशो हर्षशोकाभ्यां स समाहित उच्यते ॥३७॥

आत्मवत्सर्वभूतानि परद्रव्याणि लोष्ठवत् । स्वभावादेव न भयाद्यः पश्यति स पश्यति ॥३८॥

अद्यैव मृतिरायातु कल्पान्तनिचयेन वा । नासौ कलङ्कमाप्नोति हेम पङ्कगतं यथा ॥३९॥

कोऽहं कथमिदं किं वा कथं मरणजन्मनी । विचारयान्तरे वेत्थं महत्तत्फलमेष्यसि ॥४०॥

विचारेण परिज्ञातस्वभावस्य सतस्तव । मनः स्वरूपमुत्सृज्य शममेष्यति विज्वरम् ॥४१॥

विज्वरत्वं गतं चेतस्तव संसारवृत्तिषु । न निमज्जति तद्ब्रह्मन्गोष्पदेष्विव वारणः ॥४२॥

कृपणं तु मनो ब्रह्मन्गोष्पदेऽपि निमज्जति । कार्ये गोष्पदतोयेऽपि विशीर्णो मशको यथा ॥४३॥

यावद्यावन्मुनिश्रेष्ठ स्वयं संतज्यतेऽखिलम् । तावत्तावत्परालोकः परमात्मैव शिष्यते ॥४४॥

यावत्सर्वं न संत्यक्तं तावदात्मा न लभ्यते । सर्ववस्तुपरित्यागे शेष आत्मेति कथ्यते ॥४५॥

आत्मावलोकनार्थं तु तस्मात्सर्वं परित्यजेत् । सर्वं संत्यज्य दूरेण यच्छिष्टं तन्मयो भव ॥४६॥

सर्वं किंचिदिदं दृश्यं दृश्यते यज्जगद्गतम् । चिन्निष्पन्दांशमात्रं तन्नान्यत्किंचन शाश्वतम् ॥४७॥

समाहिता नित्यतृप्ता यथाभूतार्थदर्शिनी । ब्रह्मन्समाधिशब्देन परा प्रज्ञोच्यते बुधैः ॥४८॥

अक्षुब्धा निरहंकारा द्वन्द्वेष्वननुपातिनी । प्रोक्ता समाधिशब्देन मेरोः स्थिरतरा स्थितिः ॥४९॥

निश्चिता विगताभीष्टा हेयोपदेयवर्जिता । ब्रह्मन्समाधिशब्देन परिपूर्णा मनोगतिः ॥५०॥

केवलं चित्प्रकाशांशकल्पिता स्थिरतां गता । तुर्या सा प्राप्यते दृष्टिर्महद्भिर्वेदवित्तमैः ॥५१॥

अदूरगतसादृश्या सुषुप्तस्योपलक्ष्यते । मनोहंकारविलये सर्वभावान्तरस्थिता ॥५२॥

समुदेति परानन्दा या तनुः पारमेश्वरी । मनसैव मनश्छित्त्वा सा स्वयं लभ्यते गतिः ॥५३॥

तदनु विषयवासनाविनाश-तदनु च समतावशात्स्वरूपे परिणमनं महतामचिन्त्यरूपम् ॥५४॥

अखिलमिदमनन्तमनन्तमात्मतत्त्वं दृढपरिणामिनि चेतसि स्थितोऽन्तः ।

बहिरुपशमिते चराचरात्मा स्वयमनुभूयत एव देवदेवः ॥५५॥

असक्तं निर्मलं चित्तं युक्तं संसार्यविस्फुटम् । सक्तं तु दीर्घतपसा मुक्तमप्यतिबद्धवत् ॥५६॥

अन्तःसंसक्तिनिर्मुक्तो जीवो मधुरवृत्तिमान् । बहिः कुर्वन्नकुर्वन्वा कर्ता भोक्ता न हि क्वचित् ॥५७॥

इति प्रथमोऽध्यायः ॥१॥निदाघ उवाच ॥सङ्गः कीदृश इत्युक्तः कश्च बन्धाय देहिनाम् ।

कश्च मोक्षाय कथितः कथं त्वेष चिकित्स्यते ॥१॥

देहदेहिविभागैकपरित्यागेन भावना । देहमात्रे हि विश्वासः सङ्गो बन्धाय कथ्यते ॥२॥

सर्वमात्मेदमत्राहं किं वाञ्छामि त्यजामि किम् । इत्यसङ्गस्थितिं विद्धि जीवन्मुक्ततनुस्थिताम् ॥३॥

नाहमस्मि न चान्योस्ति न चायं न च नेतरः । सोऽसङ्ग इति संप्रोक्तो ब्रह्मास्मीत्येव सर्वदा ॥४॥

नाभिनन्दति नैष्कर्म्यं न कर्मस्वनुषज्जते । सुसमो यः परित्यागी सोऽसंसक्त इति स्मृतः ॥५॥

सर्वकर्मफलादीनां मनसैव न कर्मणा । निपुणो यः परित्यागी सोऽसंसक्त इति स्मृतः ॥६॥

असंकल्पेन सकलाश्चेष्टा नाना विजृंभिताः । चिकित्सिता भवन्तीह श्रेयः संपादयन्ति हि ॥७॥

न सक्तमिह चेष्टासु न चिन्तासु न वस्तुषु । न गमागमचेष्टासु न कालकलनासु च ॥८॥

केवलं चिति विश्रम्य किंचिच्चैत्यावलंब्यपि । सर्वत्र नीरसमिह तिष्ठत्यात्मरसं मनः ॥९॥

व्यवहारमिदं सर्वं मा करोतु करोतु वा । अकुर्वन्वापि कुर्वन्वा जीवः स्वात्मरतिक्रियः ॥१०॥

अथवा तमपि त्यक्त्वा चैत्यांशं शान्तचिद्घनः । जीवस्तिष्ठति संशान्तो ज्वलन्मणिरिवात्मनि ॥११॥

चित्ते चैत्यदशाहीने या स्थितिः क्षीणचेतसाम् । सोच्यते शान्तकलना जाग्रत्येव सुषुप्तता ॥१२॥

एषा निदाघ सौषुप्तस्थितिरभ्यासयोगतः । प्रौढा सती तुरीयेति कथिता तत्त्वकोविदैः ॥१३॥

अस्यां तुरीयावस्थायां स्थितिं प्राप्याविनाशिनीम् । आनन्दैकान्तशीलत्वादनानन्दपदं गतः ॥१४॥

अनानन्दमहानन्दकालातीतस्ततोऽपि हि । मुक्त इत्युच्यते योगी तुर्यातीतपदं गतः ॥१५॥

परिगलितसमस्तजन्मपाशः सकलविलीनतमोमयाभिमानः ।

परमरसमयीं परात्मसत्तां जलगतसैन्धवखण्डवन्महात्मा ॥१६॥

जडाजडदृशोर्मध्ये यत्तत्त्वं पारमार्थिकम् । अनुभूतिमयं तस्मात्सारं ब्रह्मेति कथ्यते ॥१७॥

दृश्यसंवलितो बन्धस्तन्मुक्तौ मुक्तिरुच्यते । द्रव्यदर्शनसंबन्धे यानुभूतिरनामया ॥१८॥

तामवष्टभ्य तिष्ठ त्वं सौषुप्तीं भजते स्थितिम् । सैव तुर्यत्वमाप्नोति तस्यां दृष्टिं स्थिरां कुरु ॥१९॥

आत्मा स्थूलो न चैवाणुर्न प्रत्यक्षो न चेतरः । न चेतनो न च जडो न चैवासन्न सन्मयः ॥२०॥

नाहं नान्यो न चैवैको न चानेकोऽद्वयोऽव्ययः । यदीदं दृश्यतां प्राप्तं मनः सर्वेन्द्रियास्पदम् ॥२१॥

दृश्यदर्शनसंबन्धे यत्सुखं पारमार्थिकम् । तदतीतं पदं यस्मात्तन्न किंचिदिवैव तत् ॥२२॥

न मोक्षो नभसः पृष्ठे न पाताले न भूतले । सर्वाशासंक्षये चेतःक्षयो मोक्ष इतीष्यते ॥२३॥

मोक्षो मेऽस्त्विति चिन्तान्तर्जाता चेदुत्थितं मनः । मननोत्थे मनस्यैष बन्धः सांसारिको दृढः ॥२४॥

आत्मन्यतीते सर्वस्मात्सर्वरूपेऽथ वा तते । को बन्धः कश्च वा मोक्षो निर्मूलं मननं कुरु ॥२५॥

अध्यात्मरतिराशान्तः पूर्णपावनमानसः । प्राप्तानुत्तमविश्रान्तिर्न किंचिदिह वाञ्छति ॥२६॥

सर्वाधिष्ठानसन्मात्रे निर्विकल्पे चिदात्मनि । यो जीवति गतस्नेहः स जीवन्मुक्त उच्यते ॥२७॥

नापेक्षते भविष्यच्च वर्तमाने न तिष्ठति । न संस्मरत्यतीतं च सर्वमेव करोति च ॥२८॥

अनुबन्धपरे जन्तावसंसर्गमनाः सदा । भक्ते भक्तसमाचरः शठे शठ इव स्थितः ॥२९॥

बालो बालेषु वृद्धेषु वृद्धो धीरेषु धैर्यवान् । युवा यौवनवृत्तेषु दुःखितेषु सुदुःखधीः ॥३०॥

धीरधीरुदितानन्दः पेशलः पुण्यकीर्तनः । प्राज्ञः प्रसन्नमधुरो दैन्यादपगताशयः ॥३१॥

अभ्यासेन परिस्पन्दे प्राणानां क्षयमागते । मनः प्रशममायाति निर्वाणमवशिष्यते ॥३२॥

यतो वाचो निवर्तन्ते विकल्पकलनान्विताः । विकल्पसंक्षयाज्जन्तोः पदं तदवशिष्यते ॥३३॥

अनाद्यन्तावभासात्मा परमात्मैव विद्यते । इत्येतन्निश्चयं स्फारं सम्यग्ज्ञानं विदुर्बुधाः ॥३४॥

यथाभूतार्थदर्शित्वमेतावद्भुवनत्रये । यदात्मैव जगत्सर्वमिति निश्चित्य पूर्णता ॥३५॥

सर्वमात्मैव कौ दृष्टौ भावाभावौ क्व वा स्थितौ । क्व बन्धमोक्षकलने ब्रह्मैवेदं विजृम्भते ॥३६॥

सर्वमेकं परं व्योम को मोक्षः कस्य बन्धता । ब्रह्मेदं बृंहिताकारं बृहद्बृहदवस्थितम् ॥३७॥

दूरादस्तमितद्वित्वं भवात्मैव त्वमात्मना । सम्यगालोकिते रूपे काष्ठपाषाणवाससाम् ॥३८॥

मनागपि न भेदोऽस्ति क्वासि संकल्पनोन्मुखः । आदावन्ते च संशान्तस्वरूपमविनाशि यत् ॥३९॥

वस्तूनामात्मनश्चैतत्तन्मयो भव सर्वदा । द्वैताद्वैतसमुद्भेदैर्जरामरणविभ्रमैः ॥४०॥

स्फुरत्यात्मभिरात्मैव चित्तैरब्धीव वीचिभिः । आपत्करञ्जपरशुं पराया निर्वृतेः पदम् ॥४१॥

शुद्धमात्मानमालिङ्ग्य नित्यमन्तस्थया धिया । यः स्थितस्तं क आत्मेह भोगो बाधयितुं क्षमः ॥४२॥

कृतस्फारविचारस्य मनोभोगादयोऽरयः । मनागपि न भिन्दन्ति शैलं मन्दानिला इव ॥४३॥

नानात्वमस्ति कलनासु न वस्तुतोऽन्त-र्नानाविधासु सरसीव जलादिवान्यत् ।

इत्येकनिश्चयमयः पुरुषो विमुक्त इत्युच्यते समवलोकितसम्यगर्थः ॥४४॥

इति द्वितीयोऽध्यायः ॥२॥

विदेहमुक्तेः किं रूपं तद्वान्को वा महामुनिः । कं योगं समुपस्थाय प्राप्तवान्परमं पदम् ॥१॥

सुमेरोर्वसुधापीठे माण्डव्यो नाम वै मुनिः । कौण्डिन्यात्तत्त्वमास्थाय जीवन्मुक्तो भवत्यसौ ॥२॥

जीवन्मुक्तिदशां प्राप्य कदाचिद्ब्रह्मवित्तमः । सर्वेन्द्रियाणि संहर्तुं मनश्चक्रे महामुनिः ॥३॥

बद्धपद्मासनस्तिष्ठन्नर्धोन्मीलितलोचनः । बाह्यानाभ्यान्तरांश्चैव स्पर्शान्परिहरञ्छनैः ॥४॥

ततः स्वमनसः स्थैर्यं मनसा विगतैनसा । अहो नु चञ्चलमिदं प्रत्याहृतमपि स्फुटम् ॥५॥

पटाद्घटमुपायाति घटाच्छकटमुत्कटम् । चित्तमर्थेषु चरति पादपेष्विव मर्कटः ॥६॥

पञ्च द्वाराणि मनसा चक्षुरादीन्यमून्यलम् । बुद्धीन्द्रियाभिधानानि तान्येवालोकयाम्यहम् ॥७॥

हन्तेन्द्रियगणा यूयं त्यजताकुलतां शनैः । चिदात्मा भगवान्सर्वसाक्षित्वेन स्थितोऽस्म्यहम् ॥८॥

तेनात्मना बहुज्ञेन निर्ज्ञाताश्चक्षुरादयः । परिनिर्वामि शान्तोऽस्मि दिष्ट्यास्मि विगतज्वरः ॥९॥

स्वात्मन्येवावतिष्ठेऽहं तुर्यरूपपदेऽनिशम् । अन्तरेव शशामास्य क्रमेण प्राणसन्ततिः ॥१०॥

ज्वालाजालपरिस्पन्दो दग्धेन्धन इवानलः । तदितोऽस्तं गत इव ह्यस्तं गत इवोदितः ॥११॥

समः समरसाभासस्तिष्ठामि स्वच्छतां गतः । प्रबुद्धोऽपि सुषुप्तिस्थः सुषुप्तिस्थः प्रबुद्धवान् ॥१२॥

तुर्यमालम्ब्य कायान्तस्तिष्ठामि स्तम्भितस्थितिः । सबाह्याभ्यन्तरान्भावान्स्थूलान्सूक्ष्मतरानपि ॥१३॥

त्रैलोक्यसंभवांस्त्यक्त्वा संकल्पैकविनिर्मितान् । सह प्रणवपर्यन्तदीर्घनिःस्वनतन्तुना ॥१४॥

जहाविन्द्रियतन्मात्रजालं खग इवानलः । ततोऽङ्गसंविदं स्वच्छां प्रतिभासमुपागताम् ॥१५॥

सद्योजातशिशुज्ञानं प्राप्तवान्मुनिपुङ्गवः । जहौ चित्तं चैत्यदशां स्पन्दशक्तिमिवानिलः ॥१६॥

चित्सामान्यमथासाद्य सत्तामात्रात्मकं ततः । सुषुप्तपदमालम्ब्य तस्थौ गिरिरिवाचलः ॥१७॥

सुषुप्तस्थैर्यमासाद्य तुर्यरूपमुपाययौ । निरानन्दोऽपि सानन्दः सच्चासच्च बभूव सः ॥१८॥

ततस्तु संबभूवासौ यद्गिरामप्यगोचरः । यच्छून्यवादिनां शून्यं ब्रह्म ब्रह्मविदां च यत् ॥१९॥

विज्ञानमात्रं विज्ञानविदां यदमलात्मकम् । पुरुषः सांख्यदृष्टीनामीश्वरो योगवादिनाम् ॥२०॥

शिवः शैवागमस्थानां कालः कालैकवादिनाम् । यत्सर्वशास्त्रसिद्धान्तं यत्सर्वहृदयानुगम् ॥२१॥

यत्सर्वं सर्वगं वस्तु यत्तत्त्वं तदसौ स्थितः । यदनुक्तमनिष्पन्दं दीपकं तेजसामपि ॥२२॥

स्वानुभूत्यैकमानं च यत्तत्त्वं तदसौ स्थितः । यदेकं चाप्यनेकं च साञ्जनं च निरञ्जनम् ।

यत्सर्वं चाप्यसर्वं च यत्तत्त्वं तदसु स्थितः ॥२३॥

अजममरमनाद्यमाद्यमेकं पदममलं सकलं च निष्कलं च ।

स्थित इति स तदा नभःस्वरूपा-दपिविमलस्थितिरीश्वरः क्षणेन ॥२४॥

इति तृतीयोऽध्यायः ॥३॥

जीवन्मुक्तस्य किं लक्ष्म ह्याकाशगमनादिकम् । तथा चेन्मुनिशार्दूल तत्र नैव प्रलक्ष्यते ॥१॥

अनात्मविदमुक्तोऽपि नभोविहरणादिकम् । द्रव्यमन्त्रक्रियाकालशक्त्याप्नोत्येव स द्विजः ॥२॥

नात्मज्ञस्यैष विषय आत्मज्ञो ह्यात्ममात्रदृक् । आत्मनात्मनि संतृप्तो नाविद्यामनुधावति ॥३॥

ये ये भावाः स्थिता लोके तानविद्यामयान्विदुः । त्यक्ताविद्यो महायोगी कथं तेषु निमज्जति ॥४॥

यस्तु मूढोऽल्पबुद्धिर्वा सिद्धिजालानि वाञ्छति । सिद्धिसाधनैर्योगैस्तानि साधयति क्रमात् ॥५॥

द्रव्यमन्त्रक्रियाकालयुक्तयः साधुसिद्धिदाः । परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन ॥६॥

यस्येच्छा विद्यते काचित्सा सिद्धिं साधयत्यहो । निरिच्छोः परिपूर्णस्य नेच्छा संभवति क्वचित् ॥७॥

सर्वेच्छाजालसंज्ञान्तावात्मलाभो भवेन्मुने । स कथं सिद्धिजालानि नूनं वाञ्छन्त्यचित्तकः ॥८॥

अपि शीतरुचावर्के सुतीक्ष्णेऽपीन्दुमण्डले । अप्यधः प्रसरत्यग्नौ जीवन्मुक्तो न विस्मयी ॥९॥

अधिष्ठाने परे तत्त्वे कल्पिता रज्जुसर्पवत् । कल्पिताश्चर्यजालेषु नाभ्युदेति कुतूहलम् ॥१०॥

ये हि विज्ञातविज्ञेया वीतरागा महाधियः । विच्छिन्नग्रन्थयः सर्वे ते स्वतन्त्रास्तनौ स्थितः ॥११॥

सुखदुःखदशाधीरं साम्यान्न प्रोद्धरन्ति यम् । निश्वासा इव शैलेन्द्रं चित्तं तस्य मृतं विदुः ॥१२॥

आपत्कार्पण्यमुत्साहो मदो मान्द्यं महोत्सवः । यं नयन्ति न वैरूप्यं तस्य नष्टं मनो विदुः ॥१३॥

द्विविधचित्तनाशोऽस्ति सरूपोऽरूप एव च । जीवन्मुक्तौ सरूपः स्यादरूपो देहमुक्तिगः ॥१४॥

चित्तसत्तेह दुःखाय चित्तनाशः सुखाय च । चित्तसत्तं क्षयं नीत्वा चित्तं नाशमुपानयेत् ॥१५॥

मनस्तां मूढतां विद्धि यदा नश्यति सानघ । चित्तनाशाभिधानं हि तत्स्वरूपमितीरितम् ॥१६॥

मैत्र्यादिभिर्गुणैर्युक्तं भवत्युत्तमवासनम् । भूयो जन्मविनिर्मुक्तं जीवन्मुक्तस्य तन्मनः ॥१७॥

सरूपोऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते । निदाघाऽरूपनाशस्तु वर्तते देहमुक्तिके ॥१८॥

विदेहमुक्त एवासौ विद्यते निष्कलात्मकः । समग्राग्र्यगुणाधारमपि सत्त्वं प्रलीयते ॥१९॥

विदेहमुक्तौ विमले पदे परमपावने । विदेहमुक्तिविषये तस्मिन्सत्त्वक्षयात्मके ॥२०॥

चित्तनाशे विरूपाख्ये न किंचिदिह विद्यते । न गुणा नागुणास्तत्र न श्रीर्नाश्रीर्न लोकता ॥२१॥

न चोदयो नास्तमयो न हर्षामर्षसंविदः । न तेजो न तमः किंचिन्न सन्ध्यादिनरात्रयः ।

न सत्तापि न चासत्ता न च मध्यं हि तत्पदम् ॥२२॥

ये हि पारं गता बुद्धेः संसाराडम्बरस्य च । तेषां तदास्पदं स्फारं पवनानामिवाम्बरम् ॥२३॥

संशान्तदुःखमजडात्मकमेकसुप्त-मानन्दमन्थरमपेतरजस्तमो यत् ।

आकाशकोशतनवोऽतनवो महान्त-स्तस्मिन्पदे गलितचित्तलवा भवन्ति ॥२४॥

हे निदाघ महाप्राज्ञ निर्वासनमना भव । बलाच्चेतः समाधाय निर्विकल्पमना भव ॥२५॥

यज्जगद्भासकं भानं नित्यं भाति स्वतः स्फुरत् । स एव जगतः साक्षी सर्वात्मा विमलाकृतिः ॥२६॥

प्रतिष्ठा सर्वभूतानां प्रज्ञानघनलक्षणः । तद्विद्याविषयं ब्रह्म सत्यज्ञानसुखाद्वनम् ॥२७॥

एकं ब्रह्माहमस्मीति कृतकृत्यो भवेन्मुनिः ॥२८॥

सर्वाधिष्ठानमद्वन्द्वं परं ब्रह्म सनातनम् । सच्चिदानन्दरूपं तदवाङ्मनसगोचरम् ॥२९॥

न तत्र चन्द्रार्कवपुः प्रकाशते न वान्ति वातः सकलाश्च देवताः ।

स एव देवः कृतभावभूतः स्वयं विशुद्धो विरजः प्रकाशते ॥३०॥

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥३१॥

द्वौ सुपर्णौ शरीरेऽस्मिञ्जीवेशाख्यौ सह स्थितौ । तयोर्जीवः फलं भुङ्क्ते कर्मणो न महेश्वरः ॥३२॥

केवलं साक्षिरूपेण विना भोगो महेश्वरः । प्रकाशते स्वयं भेदः कल्पितो मायया तयोः ।

चिच्चिदाकारतो भिन्ना न भिन्ना चित्त्वहानितः ॥३३॥

तर्कतश्च प्रमाणाच्च चिदेकत्वव्यवस्थितेः । चिदेकत्वपरिज्ञाने न शोचति न मुह्यति ॥३४॥

अधिष्ठानं समस्तस्य जगतः सत्यचिद्घनम् । अहमस्मीति निश्चित्य वीतशोको भवेन्मुनिः ॥३५॥

स्वशरीरे स्वयंज्योतिस्वरूपं सर्वसाक्षिणम् । क्षीणदोषाः प्रपश्यन्ति नेतरे माययावृताः ॥३६॥

तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तत् ॥३७॥

बालेनैव हि तिष्ठासेन्निर्विद्य ब्रह्मवेदनम् । ब्रह्मविद्यां च बाल्यं च निर्विद्य मुनिरात्मवान् ॥३८॥

अन्तर्लीनसमारम्भः शुभाशुभमहाङ्कुरम् । संसृतिव्रततेर्बीजं शरीरं विद्धि भौतिकम् ॥३९॥

भावाभावदशाकोशं दुःखरत्नसमुद्गकम् । बीजमस्य शरीरस्य चित्तमाशावशानुगम् ॥४०॥

द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारिणः । एकं प्राणपरिस्पन्दो द्वितीयो दृढभावना ॥४१॥

यदा प्रस्पन्दन्ते प्राणो नाडीसंस्पर्शनोद्यतः । तदा संवेदनमयं चित्तमाशु प्रजायते ॥४२॥

सा हि सर्वगता संवित्प्राणस्पन्देन बोध्यते । संवित्संरोधनं श्रेयः प्राणादिस्पन्दनं वरम् ॥४३॥

योगिनश्चित्तशान्त्यर्थं कुर्वन्ति प्राणरोधनम् । प्राणायामैस्तथा ध्यानैः प्रयोगैर्युक्तिकल्पितैः ॥४४॥

चित्तोपशान्तिफलदं परमं विद्धि कारणम् । सुखदं संविदः स्वास्थ्यं प्राणसंरोधनं विदुः ॥४५॥

दृढभावनया त्यक्तपूर्वापरविचारणम् । यदादानं पदार्थस्य वासना सा प्रकीर्तिता ॥४६॥

यदा न भाव्यते किंचिद्धेयोपादेयरूपि यत् । स्थीयते सकलं त्यक्त्वा तदा चित्तं न जायते ॥४७॥

अवासनत्वात्सततं यदा न मनुते मनः । अमनस्ता तदोदेति परमोपशमप्रदा ॥४८॥

यदा न भाव्यते भावः क्वचिज्जगति वस्तुनि । तदा हृदम्बरे शून्ये कथं चित्तं प्रजायते ॥४९॥

यदभावनमास्थाय यदभावस्य भावनम् । यद्यथा वस्तुदर्शित्वं तदचित्तत्वमुच्यते ॥५०॥

सर्वमन्तः परित्यज्य शीतलाशयवर्ति यत् । वृत्तिस्थमपि तच्चित्तमसद्रूपमुदाहृतम् ॥५१॥

भ्रष्टबीजोपमा येषां पुनर्जननवर्जिता । वासनारसनाहीना जीवन्मुक्ता हि ते स्मृताः ॥५२॥

सत्त्वरूपपरिप्राप्तचित्तास्ते ज्ञानपारगाः । अचित्ता इति कथ्यन्ते देहान्ते व्योमरूपिणः ॥५३॥

संवेद्यसंपरित्यागात्प्राणस्पन्दनवासने । समूलं नश्यतः क्षिप्रं मूलच्छेदादिव द्रुमः ॥५४॥

पूर्वदृष्टमदृष्टं वा यदस्याः प्रतिभासते । संविदस्तत्प्रयत्नेन मार्जनीयं विजानता ॥५५॥

तदमार्जनमात्रं हि महासंसारतां गतम् । तत्प्रमार्जनमात्रं तु मोक्ष इत्यभिधीयते ॥५६॥

अजडो गलितानन्दस्त्यक्तसंवेदनो भव ॥५७॥संविद्वस्तुदशालम्बः सा यस्येह न विद्यते ।

सोऽसंविदजडः प्रोक्तः कुर्वन्कार्यशतान्यपि ॥५८॥

संवेद्येन हृदाकाशे मनागपि न लिप्यते । यस्यासावजडा संविज्जीवन्मुक्तः स कथ्यते ॥५९॥

यदा न भाव्यते किंचिन्निर्वासनतयात्मनि । बालमूकादिविज्ञानमिव च स्थीयते स्थिरम् ॥६०॥

तदा जाड्यविनिर्मुक्तमसंवेदनमाततम् । आश्रितं भवति प्राज्ञो यस्माद्भूयो न लिप्यते ॥६१॥

समस्ता वासनास्त्यक्त्वा निर्विकल्पसमाधितः । तन्मयत्वादनाद्यन्ते तदप्यन्तर्विलीयते ॥६२॥

तिष्ठन्गच्छन्स्पृशञ्जिघ्रन्नपि तल्लेपवर्जितः । अजडो गलितानन्दस्त्यक्तसंवेदनः सुखी ॥६३॥

एतां दृष्टिमवष्टभ्य कष्टचेष्टायुतोऽपि सन् । तरेद्दुःखाम्बुधेः पारमपारगुणसागरः ॥६४॥

विशेषं संपरित्यज्य सन्मात्रं यदलेपकम् । एकरूपं महारूपं सत्तायास्तत्पदं विदुः ॥६५॥

कालसत्ता कलासत्ता वस्तुसत्तेयमित्यपि । विभागकलनां त्यक्त्वा सन्मात्रैकपरो भव ॥६६॥

सत्तासामान्यमेवैकं भावयन्केवलं विभुः । परिपूर्णः परानन्दि तिष्ठापूरितदिग्भरः ॥६७॥

सत्तासामान्यपर्यन्ते यत्तत्कलनयोज्झितम् । पदमाद्यमनाद्यन्तं तस्य बीजं न विद्यते ॥६८॥

तत्र संलीयते संविन्निर्विकल्पं च तिष्ठति । भूयो न वर्तते दुःखे तत्र लब्धपदः पुमान् ॥६९॥

तद्धेतुः सर्वभूतानां तस्य हेतुर्न विद्यते । स सारः सर्वसाराणां तस्मात्सारो न विद्यते ॥७०॥

तस्मिंश्चिद्दर्पणे स्फारे समस्ता वस्तुदृष्टयः । इमास्ताः प्रतिबिम्बन्ति सरसीव तटद्रुमाः ॥७१॥

तदमलमरजं तदात्मतत्त्वं तदवगतावुपशान्तिमेति चेतः ।

अवगतविगतैकतत्स्वरूपो भवभयमुक्तपदोऽसि सम्यगेव ॥७२॥

एतेषां दुःखबीजानां प्रोक्तं यद्यन्मयोत्तरम् । तस्य तस्य प्रयोगेण शीघ्रं तत्प्राप्यते पदम् ॥७३॥

सत्तासामान्यकोटिस्थे द्रागित्येव पदे यदि । पौरुषेण प्रयत्नेन बलात्संत्यज्य वासनाम् ॥७४॥

स्थितिं बध्नासि तत्त्वज्ञ क्षणमप्यक्षयात्मिकाम् । क्षणेऽस्मिन्नेव तत्साधु पदमासादयस्यलम् ॥७५॥

सत्तासामान्यरूपे वा करोषि स्थितिमादरात् । तत्किंचिदधिकेनेह यत्नेनाप्नोषि तत्पदम् ॥७६॥

संवित्तत्त्वे कृतध्यानो निदाघ यदि तिष्ठसि । तद्यत्नेनाधिकेनोच्चैरासादयसि तत्पदम् ॥७७॥

वासनासंपरित्यागे यदि यत्नं करोषि भोः । यावद्विलीनं न मनो न तावद्वासनाक्षयः ॥७८॥

न क्षीणा वासना यावच्चित्तं तावन्न शाम्यति । यावन्न तत्त्वविज्ञानं तावच्चित्तशमः कुतः ॥७९॥

यावन्न चित्तोपशमो न तावत्तत्त्ववेदनम् । यावन्न वासनानाशस्तावत्तत्त्वागमः कुतः ।

यावन्न तत्त्वसंप्राप्तिर्न तावद्वासनक्षयः ॥८०॥

तत्त्वज्ञानं मनोनाशो वासनाक्षय एव च । मिथः कारणतां गत्वा दुःसाधानि स्थितान्यतः ॥८१॥

भोगेच्छां दूरतस्त्यक्त्वा त्रयमेतत्समाचर ॥८२॥

वासनाक्षयविज्ञानमनोनाशा महामते । समकालं चिराभ्यस्ता भवन्ति फलदा मताः ॥८३॥

त्रिभिरेभिः समभ्यस्तैर्हृदयग्रन्थयो दृढाः । निःशेषमेव त्रुट्यन्ति बिसच्छेदाद्गुणा इव ॥८४॥

वासनासंपरित्यागसमं प्राणनिरोधनम् । विदुस्तत्त्वविदस्तस्मात्तदप्येवं समाहरेत् ॥८५॥

वासनासंपरित्यागाच्चित्तं गच्छत्यचित्तताम् । प्राणस्पन्दनिरोधाच्च यथेच्छसि तथा कुरु ॥८६॥

प्राणायामदृढाध्यासैर्युक्त्या च गुरुदत्तया । आसनाशनयोगेन प्राणस्पन्दो निरुध्यते ॥८७॥

निःसङ्गव्यवहारत्वाद्भवभावनवर्जनात् । शरीरनाशदर्शित्वाद्वासना न प्रवर्तते ॥८८॥

यः प्राणपवनस्पन्दश्चित्तस्पन्दः स एव हि । प्राणस्पन्दजये यत्नः कर्तव्यो धीमतोच्चकैः ॥८९॥

न शक्यते मनो जेतुं विना युक्तिमनिन्दिताम् । शुद्धां संविदमाश्रित्यवीतरागः स्थिरो भव ॥९०॥

संवेद्यवर्जितमनुत्तममाद्यमेकं संविदत्पदं विकलनं कलयन्महात्मन् ।

हृद्येव तिष्ठ कलनारहितः क्रियां तु कुर्वन्नकर्तृपदमेत्य शमोदितश्रीः ॥९१॥

मनागपि विचारेण चेतसः स्वस्य निग्रहः । पुरुषेण कृतो येन तेनाप्तं जन्मनः फलम् ॥९२॥

इति चतुर्थोऽध्यायः ॥४॥

गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा । न विचारपरं चेतो यस्यासौ मृत उच्यते ॥१॥

सम्यग्ज्ञानसमालोकः पुमा~ज्ञेयसमः स्वयम् । न बिभेति न चादत्ते वैवश्यं न च दीनताम् ॥२॥

अपवित्रमपथ्यं च विषसंसर्गदूषितम् । भुक्तं जरयति ज्ञानी क्लिन्नं नष्ठं च मृष्टवत् ॥३॥

सञ्ण्गत्यागं विदुर्मोक्षं सङ्गत्यागादजन्मता । सङ्गं त्यज त्वं भावानां जीवन्मुक्तो भवानघ ॥४॥

भावाभावे पदार्थानां हर्षामर्षविकारदा । मलिना वासना यैषा साऽसङ्ग इति कथ्यते ॥५॥

जीवन्मुक्तशरीराणामपुनर्जन्मकारिणी । मुक्ता हर्षविषादाभ्यां शुद्धा भवति वासना ॥६॥

दुःखैर्न ग्लानिमायासि हृदि हृष्यसि नो सुखैः । आशावैवश्यमुत्सृज्य निदाघाऽसङ्गतां व्रज ॥७॥

दिक्कालाद्यनवच्छिन्नमदृष्टोभयकोटिकम् । चिन्मात्रमक्षयं शान्तमेकं ब्रह्मास्मि नेतरत् ॥८॥

इति मत्वाहमित्यन्तर्मुक्तामुक्तवपुः पुमान् । एकरूपः प्रशान्तात्मा मौनी स्वात्मसुखो भव ॥९॥

नास्ति चित्तं न चाविद्या न मनो न च जीवकः । ब्रह्मैवैकमनाद्यन्तमब्धिवत्प्रविजृम्भते ॥१०॥

देहे यावदहंभावो दृश्येऽस्मिन्यावदात्मता । यावन्ममेदमित्यास्था तावच्चित्तादिविभ्रमः ॥११॥

अन्तर्मुखतया सर्वं चिद्वह्नौ त्रिजगत्तृणम् । जुह्वन्तोऽन्तर्निवर्तन्ते मुने चित्तादिविभ्रमाः ॥१२॥

चिदात्मास्मि निरंशोऽस्मि परापरविवर्जितः । रूपं स्मरन्निजं स्फारं मा स्मृत्या संमितो भव ॥१३॥

अध्यात्मशास्त्रमन्त्रेण तृष्णाविषविषूचिका । क्षीयते भावितेनान्तः शरदा मिहिका यथा ॥१४॥

परिज्ञाय परित्यागो वासानानं य उत्तमः । सत्तासामान्यरूपत्वात्तत्कैवल्यपदं विदुः ॥१५॥

यन्नास्ति वासना लीना तत्सुषुप्तं न सिद्धये । निर्बीजा वासना यत्र तत्तुर्यं सिद्धिदं स्मृतम् ॥१६॥

वासनायास्तथा वह्नेरृणव्याधिद्विषामपि । स्नेहवैरविषाण च शेषः स्वल्पोऽपि बाधते ॥१७॥

निर्दग्धवासनाबीजः सत्तासामान्यरूपवान् । सदेहो वा विदेहो वा न भूयो दुःखभाग्भवेत् ॥१८॥

एतावदेवाविद्यात्वं नेदं ब्रह्मेति निश्चयः । एष एव क्षयस्तस्या ब्रह्मेदमिति निश्चयः ॥१९॥

ब्रह्म चिद्ब्रह्म भुवनं ब्रह्म भूतपरम्परा । ब्रह्माहं ब्रह्म चिच्छत्रुर्ब्रह्म चिन्मित्रबान्धवाः ॥२०॥

ब्रह्मैव सर्वमित्येव भाविते ब्रह्म वै पुमान् । सर्वत्रावस्थितं शान्तं चिद्ब्रह्मेत्यनुभूयते ॥२१॥

असंस्कृताध्वगालोके मनस्यन्यत्र संस्थिते । या प्रतीतिरनागसका तच्चिद्ब्रह्मास्मि सर्वगम् ॥२२॥

प्रशान्तसर्वसंकल्पं विगताखिलकौतुकम् । विगताशेषसंरंभं चिदात्मानं समाश्रय ॥२३॥

एवं पूर्णधियो धीराः समा नीरागचेतसः । न नन्दन्ति न निन्दन्ति जीवितं मरणं तथा ॥२४॥

प्राणोऽयमनिशं ब्रह्मस्पन्दशक्तिः सदागतिः । सबाह्याभ्यन्तरे देहेप्राणोऽसावूर्ध्वगः स्थितः ॥२५॥

अपानोऽप्यनिशं ब्रह्मस्पन्दशक्तिः सदागतिः । सबाह्याभ्यन्तरे देहे अपानोऽयमवाक्स्थितः ॥२६॥

जाग्रतः स्वपतश्चैव प्राणायामोऽयमुत्तमः । प्रवर्तते ह्यभिज्ञस्य तं तावच्छ्रेयसे शृणु ॥२७॥

द्वादशाङ्गुलपर्यन्तं बाह्यमाक्रमतां ततः । प्राणाङ्गनामा संस्पर्शो यः स पूरक उच्यते ॥२८॥

अपानश्चन्द्रमा देहमाप्याययति सुव्रत । प्राणः सूर्योऽग्निरथ वा पचत्यनत्रिदं वपुः ॥२९॥

प्राणक्षयसमीपस्थमपानोदयकोटिगम् । अपानप्राणयोरैक्यं चिदात्मानं समाश्रय ॥३०॥

अपानोऽस्तंगतो यत्र प्राणो नाभ्युदितः क्षणम् । कलाकलङ्करहितं तच्चित्तत्त्वं समाश्रय ॥३१॥

नापानोऽस्तंगतो यत्र प्राणश्चास्तमुपागतः । नासाग्रगमनावर्तं तच्चित्तत्त्वमुपाश्रय ॥३२॥

आभासमात्रमेवेदं न सनासज्जगत्त्रयम् । इत्यन्यकलनात्यागं सम्यग्ज्ञानं विदुर्बुधाः ॥३३॥

आभासमात्रकं ब्रह्मंश्चित्तदर्शकलङ्कितम् । ततस्तदपि संत्यज्य निराभासो भवोत्तम ॥३४॥

भयप्रदमकल्याणं धैर्यसर्वस्वहारिणम् । मनःपिशाचमुत्सार्य योऽसि सोऽसि स्थिरो भव ॥३५॥

चिद्व्योमेव किलास्तीह परापरविवर्जितम् । सर्वत्रासंभवच्चैत्यं यत्कल्पान्तेऽवशिष्यते ॥३६॥

वाञ्छाक्षणे तु या तुष्टिस्तत्र वाञ्छैव कारणम् । तुष्टिस्त्वतुष्टिपर्यन्ता तस्माद्वाञ्छां परित्यज ॥३७॥

आशा यातु निराशात्वमभावं यातु भावना । अमनस्त्वं मनो यातु तवासङ्गेन जीवतः ॥३८॥

वासनारहितैरन्तरिन्द्रियैराहरन्क्रिया । न विकारमवाप्नोषि खवत्क्षोभशतैरपि ॥३९॥

चित्तोन्मेषनिमेषाभ्यां संसारप्रलयोदयौ । वासनाप्राणसंरोधमनुन्मेषं मनः कुरु ॥४०॥

प्राणोन्मेषनिमेषाभ्यां संसृतेः प्रलयोदयौ । तमभ्यासप्रयोगाभ्यामुन्मेषरहितं कुरु ॥४१॥

मौर्ख्योन्मेषनिमेषाभ्यां कर्मणां प्रलयोदयौ । तद्विलीनं कुरु बलाद्गुरुशास्त्रार्थसंगमैः ॥४२॥

असंवित्स्पन्दमात्रेण याति चित्तमचित्तताम् । प्राणानां वा निरोधेन तदेव परमं पदम् ॥४३॥

दृश्यदर्शनसंबन्धे यत्सुखं पारमार्थिकम् । तदन्तैकान्तसंवित्त्या ब्रह्मदृष्ट्यावलोकय ॥४४॥

यत्र नाभ्युदितं चित्तं तद्वै सुखमकृत्रिमम् । क्षयातिशयनिर्मुक्तं नोदेति न च शाम्यति ॥४५॥

यस्य चित्तं न चित्ताख्यं चित्तं चित्तत्त्वमेव हि । तदेव तुर्यावस्थायं तुर्यातीतं भवत्यतः ॥४६॥

संन्यस्तसर्वसंकल्पः समः शान्तमना मुनिः । संन्यासयोगयुक्तात्मा ज्ञानवान्मोक्षवान्भव ॥४७॥

सर्वसंकल्पसंशान्तं प्रशान्तघनवासनम् । न किंचिद्भावनाकारं यत्तद्ब्रह्म परं विदुः ॥४८॥

सम्यग्ज्ञानावरोधेन नित्यमेकसमाधिना । सांख्य एवावबुद्धा ये ते सांख्या योगिनः परे ॥४९॥

प्राणाद्यनिलसंशान्तौ युक्त्या ये पदमागताः । अनामयमनाद्यन्तं ते स्मृता योगयोगिनः ॥५०॥

उपादेयं तु सर्वेषां शातं पदमकृत्रिमम् । एकार्थाभ्यसनं प्राणरोधश्चेतः परिक्षयः ॥५१॥

एकस्मिन्नेव संसिद्धे संसिद्ध्यन्ति परस्परम् । अविनाभाविनी नित्यं जन्तूनां प्राणचेतसी ॥५२॥

आधाराधेयवच्चैते एकभावे विनश्यतः । कुरुतः स्वविनाशेन कार्यं मोक्षाख्यमुत्तमम् ॥५३॥

सर्वमेतद्धिया त्यक्त्वा यदि तिष्ठसि निश्चलः । तदाहंकारविलये त्वमेव परमं पदम् ॥५४॥

महाचिदेकैवेहास्ति महासत्तेति योच्यते । निष्कलंका समा शुद्धा निरहंकाररूपिणी ॥५५॥

सकृद्विभाता विमला नित्योदयवती समा । सा ब्रह्म परमात्मेति नामभिः परिगीयते ॥५६॥

सैवाहमिति निश्चित्य निदाघ कृतकृत्यवान् । न भूतं न भविष्यच्च चिन्तयामि कदाचन ॥५७॥

दृष्टिमालम्ब्य तिष्ठामि वर्तमानामिहात्मना । इदमद्य मया लब्धमिदं प्राप्स्यामि सुन्दरम् ॥५८॥

न स्तौमि न च निन्दामि आत्मनोऽन्यन्नहि क्वचित् । न तुष्यामि शुभप्राप्तौ न खिद्याम्यशुभागमे ॥५९॥

प्रशान्तचापलं वीतशोकमस्तसमीहितम् । मनो मम मुने शान्तं तेन जीवाम्यनामयः ॥६०॥

अयं बन्धुः परश्चायं ममायमयमन्यकः । इति ब्रह्मन्न जानामि संस्पर्शं न ददाम्यहम् ॥६१॥

वासनामात्रसंत्यागाज्जरामरणवर्जितम् । सवासनं मनो ज्ञानं ज्ञेयं निर्वासनं मनः ॥६२॥

चित्ते त्यक्ते लयं याति द्वैतमेतच्च सर्वतः । शिष्यते परमं शान्तमेकमगच्छमनामयम् ॥६३॥

अनन्तमजमव्यक्तमजरं शान्तमच्युतम् । अद्वितीयमनाद्यन्तं यदाद्यमुपलम्भनम् ॥६४॥

एकमाद्यन्तरहितं चिन्मात्रममलं ततम् । खादप्यतितरां सूक्ष्मं तद्ब्रह्मास्मि न संशयः ॥६५॥

दिक्कालाद्यनवच्छिन्नं स्वच्छं नित्योदितं ततम् । सर्वार्थमयमेकार्थं चिन्मात्रममलं भव ॥६६॥

सर्वमेकमिदं शान्तमादिमध्यान्तवर्जितम् । भावाभावमजं सर्वमिति मत्वा सुखी भव ॥६७॥

न बद्धोऽस्मि न मुक्तोऽस्मि ब्रह्मैवास्मि निरामयम् । द्वैतभावविमुक्तोऽस्मि सच्चिदानन्दलक्षणः ।

एवं भावय यत्नेन जीवन्मुक्तो भविष्यसि ॥६८॥

पदार्थवृन्दे देहादिधिया संत्यज्य दूरतः । आशीतलान्तःकरणो नित्यमात्मपरो भव ॥६९॥

इदं रम्यमिदं नेति बीजं ते दुःखसंततेः । तस्मिन्साम्याग्निना दग्धे दुःखस्यावसरः कुतः ॥७०॥

शास्त्रसज्जनसंपर्कैः प्रज्ञामादौ विवर्धयेत् ॥७१॥

ऋतं सत्यं परं ब्रह्म सर्वसंसारभेषजम् । अत्यर्थममलं नित्यमादिमध्यान्तवर्जितम् ॥७२॥

तथा स्थूलमनाकाशमसंस्पृश्यमचाक्षुषम् । न रसं न च गन्धाख्यमप्रमेयमनूपमम् ॥७३॥

आत्मानं सच्चिदानन्दमनन्तं ब्रह्म सुव्रत । अहमस्मीत्यभिध्यायेद्ध्येयातीतं विमुक्तये ॥७४॥

समाधिः संविदुत्पत्तिः परजीवैकतं प्रति । नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः ॥७५॥

एकः सन्भिद्यते भ्रान्त्या मायया न स्वरूपतः । तस्मादद्वैत एवास्ति न प्रपञ्चो न संसृतिः ॥७६॥

यथाकाशो घटाकाशो महाकाश इतीरितः । तथा भ्रान्तेर्द्विधा प्रोक्तो ह्यात्मा जीवेश्वरात्मना ॥७७॥

यदा मनसि चैतन्यं भाति सर्वत्रगं सदा । योगिनोऽऽव्यवधानेन तदा संपद्यते स्वयम् ॥७८॥

यदा सर्वाणि भूतानि स्वात्मन्येव हि पश्यति । सर्वभूतेषु चात्मानं ब्रह्म संपद्यते सदा ॥७९॥

यदा सर्वाणि भूतानि समाधिस्थो न पश्यति । एकीभूतः परेणासौ तदा भवति केवलः ॥८०॥

शास्त्रसज्जनसंपर्कवैराग्याभ्यासरूपिणी । प्रथमा भूमिकैषोक्ता मुमुक्षुत्वप्रदायिनी ॥८१॥

विचारणा द्वितीया स्यात्तृतीया साङ्गभावना । विलापिनी चतुर्थी स्याद्वासना विलयात्मिका ॥८२॥

शुद्धसंविन्मनानन्दरूपा भवति पञ्चमी । अर्धसुप्तप्रबुद्धाभो जीवन्मुक्तोऽत्र तिष्ठति ॥८३॥

असंवेदनरूपा च षष्ठी भवति भूमिका । आनन्दैकघनाकारा सुषुप्तसदृशी स्थितिः ॥८४॥

तुर्यावस्थोपशान्ता सा मुक्तिरेव हि केवला । समता स्वच्छता सौम्या सप्तमी भूमिका भवेत् ॥८५॥

तुर्यातीता तु यावस्था परा निर्वाणरूपिणी । सप्तमी सा परा प्रौढा विषयो नैव जीवताम् ॥८६॥

पूर्वावस्थात्रयं तत्र जाग्रदित्येव संस्थितम् । चतुर्थी स्वप्न इत्युक्ता स्वप्नाभं यत्र वै जगत् ॥८७॥

आनन्दैकघनाकारा सुषुप्ताख्या तु पञ्चमी । असंवेदनरूपा तु षष्ठी तुर्यपदाभिधा ॥८८॥

तुर्यातीतपदावस्था सप्तमी भूमिकोत्तमा । मनोवचोभिरग्राह्या स्वप्रकाशसदात्मिका ॥८९॥

अन्तः प्रत्याहृतिवशाच्चैत्यं चेन्न विभावितम् । मुक्त एव न सन्देहो महासमतया तया ॥९०॥

न म्रिये न च जीवामि नाहं सन्नाप्यसन्मयः । अहं न किंचिच्चिदिति मत्वा धीरो न शोचति ॥९१॥

अलेपकोऽहमजरो नीरागः शान्तवासनः । निरंशोऽस्मि चिदाकाशमिति मत्वा न शोचति ॥९२॥

अहंमत्या विरहितः शुद्धो बुद्धोऽजरोऽमरः । शान्तः शमसमाभास इति मत्वा न शोचति ॥९३॥

तृणाग्रेष्वम्बरे भानौ नरनागामरेषु च । यत्तिष्ठति तदेवाहमिति मत्वा न शोचति ॥९४॥

भावनां सर्वभावेभ्यः समुत्सृज्य समुत्थितः । अवशिष्टं परं ब्रह्म केवलोऽस्मीति भावय ॥९५॥

वाचामतीतविषयो विषयाशादशोज्झितः । परानन्दरसाक्षुब्धो रमते स्वात्मनात्मनि ॥९६॥

सर्वकर्मपरित्यागी नित्यतृप्तो निराश्रयः । न पुण्येन न पापेन नेतरेण च लिप्यते ॥९७॥

स्फटिकः प्रतिबिम्बेन यथा नायाति रञ्जनम् । तज्ज्ञः कर्मफलेनान्तस्तथा नायाति रञ्जनम् ॥९८॥

विहरञ्जनतावृन्दे देवकीर्तन पूजनैः । खेदाह्लादौ न जानाति प्रतिबिम्बगतैरिव ॥९९॥

निस्स्तोत्रो निर्विकारश्च पूज्यपूजाविवर्जितः । संयुक्तश्च वियुक्तश्च सर्वाचारनयक्रमैः ॥१००॥

तनुं त्यजतु वा तीर्थे श्वपचस्य गृहेऽथ वा । ज्ञानसंपत्तिसमये मुक्तोऽसौ विगताशयः ॥१०१॥

संकल्पत्वं हि बन्धस्य कारणं तत्परित्यज । मोक्षो भवेदसंकल्पात्तदभ्यासं धिया कुरु ॥१०२॥

सावधानो भव त्वं च ग्राह्यग्राहकसंगमे । अजस्रमेव संकल्पदशाः परिहरञ्शनैः ॥१०३॥

मा भव ग्राह्यभावात्मा ग्राहकात्मा च मा भव । भावनामखिलां त्यक्त्वा यच्छिष्टं तन्मयो भव ॥१०४॥

किंचिच्चेद्रोचते तुभ्यं तद्बद्धोऽसि भवस्थितौ । न किंचिद्रोचते चेत्ते तन्मुक्तोऽसि भवस्थितौ ॥१०५॥

अस्मात्पदार्थनिचयाद्यावत्स्थावरजङ्गमात् । तृणादेर्देहपर्यन्तान्मा किंचित्तत्र रोचताम् ॥१०६॥

अहंभावानहंभावौ त्यक्त्वा सदसती तथा । यदसक्तं समं स्वच्छं स्थितं तत्तुर्यमुच्यते ॥१०७॥

या स्वच्छा समता शान्ता जीवन्मुक्तव्यवस्थितिः । साक्ष्यवस्था व्यवहृतौ सा तुर्या कलनोच्यते ॥१०८॥

नैतज्जाग्रन्न च स्वप्नः संकल्पानामसंभवात् । सुषुप्तभावो नाऽप्येतदभावाज्जडतास्थितेः ॥१०९॥

शान्तसम्यक्प्रबुद्धानां यथास्थितमिदं जगत् । विलीनं तुर्यमित्याहुरबुद्धानां स्थितं स्थिरम् ॥११०॥

अहंकारकलात्यागे समतायाः समुद्गमे । विशरारौ कृते चित्ते तुर्यावस्थोपतिष्ठते ॥१११॥

सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि । नाविद्यास्तीह नो माया शान्तं ब्रह्मेदमक्लमम् ॥११२॥

शान्त एव चिदाकाशे स्वच्छे शमसमात्मनि । समग्रशक्तिखचिते ब्रह्मेति कलिताभिधे ॥११३॥

सर्वमेव परित्यज्य महामौनी भवानघ । निर्वाणवान्निर्मननः क्षीणचित्तः प्रशान्तधीः ॥११४॥

आत्मन्येवास्व शान्तात्मा मूकान्धबधिरोपमः । नित्यमन्तर्मुखः स्वच्छः स्वात्मनान्तः प्रपूर्णधीः ॥११५॥

जाग्रत्येव सुषुप्तस्थः कुरु कर्माणि वै द्विज । अन्तः सर्वपरित्यागी बहिः कुरु यथागतम् ॥११६॥

चित्तसत्ता परं दुःखं चित्तत्यागः परं सुखम् । अतश्चित्तं चिदाकाशे नय क्षयमवेदनात् ॥११७॥

दृष्ट्वा रम्यमरम्यं वा स्थेयं पाषाणवत्सदा । एतावतात्मयत्नेन जिता भवति संसृतिः ॥११८॥

वेदान्ते परमं गुह्यं पुराकल्पप्रचोदितम् । नाप्रशान्ताय दातव्यं न चाशिष्याय वै पुनः ॥११९॥

अन्नपूर्णोपनिषदं योऽधीते गुर्वनुग्रहात् । स जीवन्मुक्ततां प्राप्य ब्रह्मैव भवति स्वयम् ॥१२०॥

इत्युपनिषत् ॥इति पञ्चमोऽध्यायः ॥५॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥भद्रं पश्येमाक्षभिर्यजत्राः ॥स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ॥

व्यशेम देवहितं यदायुः ॥स्वस्ति न इन्द्रो वृद्धश्रवाः ॥स्वस्ति नः पूषा विश्ववेदाः ॥

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥इत्यन्नपूर्णोपनिषत्समाप्ता ॥

Translation - भाषांतर
N/A

N/A
Last Updated : 2011-10-12T09:15:39.1700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

niggerhead

  • पु. खुंट 
RANDOM WORD

Did you know?

मंत्रांचे वर्गीकरण कशा प्रकारे केले आहे?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.