संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
वराहोपनिषत्

वराहोपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.

Upanishad are highly philosophical and metaphysical part of Vedas.


॥वराहोपनिषत् ॥ कृष्ण यजुर्वेद,संन्यास उपनिषद्

श्रीमद्वाराहोपनिषद्वेद्याखण्डसुखाकृति । त्रिपान्नारायणाख्यं तद्रामचन्द्रपदं भजे ॥

ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ॥तेजस्विनावधी तमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥हरिः ॐ ॥

अथ ऋभुर्वै महामुनिर्देवमानेन द्वादशवत्सरं तपश्चचार । तदवसाने वराहरूपी भगवान्प्रादुरभूत् ।

स होवाचोत्तिष्ठोत्तिष्ठ वरं वृणीश्वेति । सोदतिष्ठत् । तस्मै नमस्कृत्योवाच भगवन्कामिभिर्यद्यत्कामितं तत्तत्त्वत्सकाशात्स्वप्नेऽपि न याचे ।

समस्तवेदशास्त्रेतिहासपुराणानि समस्तविद्याजालानि ब्रह्मादयः सुराः सर्वे त्वद्रूपज्ञानान्मुक्तिमाहुः । अतस्त्वद्रूपप्रतिपादिकां ब्रह्मविद्यां ब्रूहीति होवाच ।

तथेति स होवाच वराहरूपी भगवान् । चतुर्विंशतितत्त्वानि केचिदिच्छन्ति वादिनः । केचित्षट्त्रिंशत्तत्त्वानि केचित्षण्णवतीनि च ॥१॥

तेषां क्रमं प्रवक्ष्यामि सावधानमनाः शृणु । ज्ञानेन्द्रियाणि पञ्चैव श्रोत्रत्वग्लोचनादयः ॥२॥

कर्मेन्द्रियाणि पञ्चैव वाक्पाण्यङ्घ्र्यादयः क्रमात् । प्राणादतस्तु पञ्चैव पञ्च शब्दादयस्तथा ॥३॥

मनोबुद्धिरहंकारश्चित्तं चेति चतुष्टयम् । चतुर्विंशतितत्त्वानि तानि ब्रह्मविदो विदुः ॥४॥

एतैस्तत्त्वैः समं पञ्चीकृतभूतानि पञ्च च । पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥५॥

देहत्रयं स्थूलसूक्ष्मकारणानि विदुर्बुधाः । अवस्थात्रितयं चैव जाग्रत्स्वप्नसुषुप्तयः ॥६॥

आहत्य तत्त्वजातानां षट्त्रिंशन्मुनयो विदुः । पूर्वोक्तैस्तत्त्वजातैस्तु समं तत्त्वानि योजयेत् ॥७॥

षड्भावविकृतिश्चास्ति जायते वर्धतेऽपि च । परिणामं क्षयं नाशं षड्भावविकृतिं विदुः ॥८॥

अशना च पिपासा च शोकमोहौ जरा मृतिः । एते षडूर्मयः प्रोक्ताः षट्कोशानथ वच्मि ते ॥९॥

त्वक्च रक्तं मांसमेदोमज्जास्थीनि निबोधत । कामक्रोधौ लोभमोहौ मदो मात्सर्यमेव च ॥१०॥

एतेऽरिषड्वा विश्वश्च तैजसः प्राज्ञ एव च । जीवत्रयं सत्त्वरजस्तमांसि च गुणत्रयम् ॥११॥

प्रारब्धागाम्यर्जितानि कर्मत्रयमितीरितम् । वचनादानगमनविसर्गानन्दपञ्चकम् ॥१२॥

संकल्पोऽध्यवसायश्च अभिमानोऽवधारणा । मुदिता करुणा मैत्री उपेक्षा च चतुष्टयम् ॥१३॥

दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमृत्युकाः । तथा चन्द्रश्चतुर्वक्त्रो रुद्रः क्षेत्रज्ञ ईश्वरः ॥१४॥

आहत्य तत्त्वजातानां षण्णवत्यस्तु कीर्तिताः । पूर्वोक्ततत्त्वजातानां वैलक्षण्यमनामयम् ॥१५॥

वराहरूपिणं मां ये भजन्ति मयि भक्तितः । विमुक्ताज्ञानतत्कार्या जीवन्मुक्ता भवन्ति ते ॥१६॥

ये षण्णवतितत्त्वज्ञा यत्र कुत्राश्रमे रताः । जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥१७॥

॥इति प्रथमोऽध्यायः ॥

ऋभुर्नाम महायोगी क्रोडरूपं रमापतिम् । वरिष्ठां ब्रह्मविद्यां त्वमधीहि भगवन्मम । एवं स स्पृष्टो भगवान्प्राह भक्तार्तिभञ्जनः ॥१॥

स्ववर्णाश्रमधर्मेण तपसा गुरुतोषणात् । साधनं प्रभवेत्पुंसां वैराग्यादिचतुष्टयम् ॥२॥

नित्यानित्यविवेकश्च इहामुत्र विरागता । शमादिषट्कसंपत्तिर्मुमुक्षा तां समभ्यसेत् ॥३॥

एवं जितेन्द्रियो भूत्वा सर्वत्र ममतामतिम् । विहाय साक्षिचैतन्ये मयि कुर्यादहंमतिम् ॥४॥

दुर्लभं प्राप्य मानुष्यं तत्रापि नरविग्रहम् । ब्राह्मण्यं च महाविष्णोर्वेदान्तश्रवणादिना ॥५॥

अतिवर्णाश्रमं रूपं सच्चिदानन्दलक्षणम् । यो न जानाति सोऽविद्वान्कदा मुक्तो भविष्यति ॥६॥

अहमेव सुखं नान्यदन्यच्चेन्नैव तत्सुखम् । अमदर्थं न हि प्रेयो मदर्थं न स्वतःप्रियम् ॥७॥

परप्रेमास्पदतया मा न भूवमहं सदा । भूयासमिति यो द्रष्टा सोऽहं विष्णुर्मुनीश्वर ॥८॥

न प्रकाशोऽहमित्युक्तिर्यत्प्रकाशैकबन्धना । स्वप्रकाशं तमात्मानमप्रकाशः कथं स्पृशेत् ॥९॥

स्वयं भातं निराधारं ये जानन्ति सुनिश्चितम् । ते हि विज्ञानसंपन्ना इति मे निश्चिता मतिः ॥१०॥

स्वपूर्णात्मातिरेकेण जगज्जीवेश्वरादयः । न सन्ति नास्ति माया च तेभ्यश्चाहं विलक्षणः ॥११॥

अज्ञानान्धतमोरूपं कर्मधर्मादिलक्षणम् । स्वयंप्रकाशमात्मानं नैव मां स्प्रष्टुमार्हति ॥१२॥

सर्वसाक्षिणमात्मानं वर्णाश्रमविवर्जितम् । ब्रह्मरूपतया पश्यन्ब्रह्मैव भवति स्वयम् ॥१३॥

भासमानमिदं सर्वं मानरूपं परं पदम् । पश्यन्वेदान्तमानेन सद्य एव विमुच्यते ॥१४॥

देहात्मज्ञानवज्ज्ञानं देहात्मज्ञानबाधकम् । आत्मन्येव भवेद्यस्य स नेच्छन्नपि मुच्यते ॥१५॥

सत्यज्ञानानन्दपूर्णलक्षणं तमसः परम् । ब्रह्मानन्दं सदा पश्यन्कथं बध्येत कर्मणा ॥१६॥

त्रिधामसाक्षिणं सत्यज्ञानानन्दादिलक्षणम् । त्वमहंशब्दलक्ष्यार्थमसक्तं सर्वदोषतः ॥१७॥

सर्वगं सच्चिदात्मानं ज्ञानचक्षुर्निरीक्षते । अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्धवत् ॥१८॥

प्रज्ञानमेव तद्ब्रह्म सत्यप्रज्ञालक्षणम् । एवं ब्रह्मपरिज्ञानादेव मर्त्योऽमृतो भवेत् ॥१९॥

तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् । विदित्वा स्वात्मनो रूपं न बिभेति कुतश्चन ॥२०॥

चिन्मात्रं सर्वगं नित्यं संपूर्णं सुखमद्वयम् । साक्षाद्ब्रह्मैव नान्योऽस्तीत्येवं ब्रह्मविदां स्थितिः ॥२१॥

अज्ञस्य दुःखौघमयं ज्ञस्यानन्दमयं जगत् । अन्धं भुवनमन्धस्य प्रकाशं तु सुचक्षुषाम् ॥२२॥

अनन्ते सच्चिदानन्दे मयि वाराहरूपिणी । स्थितेऽद्वितीयभावः स्यात्को बन्धः कश्च मुच्यते ॥२३॥

स्वस्वरूपं तु चिन्मात्रं सर्वदा सर्वदेहिनाम् । नैव देहादिसङ्घातो घटवद्दृशिगोचरः ॥२४॥

स्वात्मनोऽन्यदिवाभातं चराचरमिदं जगत् । स्वात्ममात्रतया बुद्ध्वा तदस्मीति विभावय ॥२५॥

स्वस्वरूपं स्वयं भुङ्क्ते नास्ति भोज्यं पृथक् स्वतः । अस्ति चेदस्तितारूपं ब्रह्मैवास्तित्वलक्षणम् ॥२६॥

ब्रह्मविज्ञानसंपन्नः प्रतीतमखिलं जगत् । पश्यन्नपि सदा नैव पश्यति स्वात्मनः पृथक् ॥२७॥

मत्स्वरूपपरिज्ञानात्कर्मभिर्न स बध्यते ॥२८॥

यः शरीरेन्द्रियादिभ्यो विहीनं सर्वसाक्षिणम् । परमार्थैकविज्ञानं सुखात्मानं स्वयंप्रभम् ॥२९॥

स्वस्वरूपतया सर्वं वेद स्वानुभवेन यः । स धीरः स तु विज्ञेयः सोऽहं तत्त्वं ऋभो भव ॥३०॥

अतः प्रपञ्चानुभवः सदा न हि

स्वरूपबोधानुभवः सदा खलु ।

इति प्रपश्यन्परिपूर्णवेदनो

न बन्धमुक्तो न च बद्ध एव तु ॥३१॥

स्वस्वरूपानुसन्धानान्नृत्यन्तं सर्वसाक्षिणम् । मुहूर्तं चिन्तयेन्मां यः सर्वबन्धैः प्रमुच्यते ॥३२॥

सर्वभूतान्तरस्थाय नित्यमुक्तचिदात्मने । प्रत्यक्चैतन्यरूपाय मह्यमेव नमोनमः ॥३३॥

त्वं वहमस्मि भगवो देवतेऽहं वै त्वमसि । तुभ्यं मह्यमनन्ताय मह्यं तुभ्यं चिदात्मने ॥३४॥

नमो मह्यं परेशाय नमस्तुभ्यं शिवाय च । किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् ॥३५॥

यन्मया पूरितं विश्वं महाकल्पांबुना यथा । अन्तःसङ्गं बहिःसङ्गमात्मसङ्गं च यस्त्यजेत् । सर्वसङ्गनिवृत्तात्मा स मामेति न संशयः ॥३६॥

अहिरिव जनयोगं सर्वदा वर्जयेद्यः

कुणपमिव सुनारीं त्यक्तुकामो विरागी ।

विषमिव विषयादीन्मन्यमानो दुरन्ता-

ञ्जगति परमहंसो वासुदेवोऽहमेव ॥३७॥

इदं सत्यमिदं सत्यं सत्यमेतदिहोच्यते । अहं सत्यं परं ब्रह्म मत्तः किंचिन्न विद्यते ॥३८॥

उप समीपे यो वासो जीवात्मपरमात्मनोः । उपवासः स विज्ञेयो न तु कायस्य शोषणम् ॥३९॥

कायशोषणमात्रेण का तत्र ह्यविवेकिनाम् । वल्मीकताडनादेव मृतः किं नु महोरगः ॥४०॥

अस्ति ब्रह्मेति चेद्वेद परोक्षज्ञानमेव तत् । अहं ब्रह्मेति चेद्वेद साक्षात्कारः स उच्यते ॥४१॥

यस्मिन्काले स्वमात्मानं योगी जानाति केवलम् । तस्मात्कालात्समारभ्य जीवन्मुक्तो भयेदसौ ॥४२॥

अहं ब्रह्मेति नियतं मोक्षहेतुर्महात्मनाम् । द्वे पदे बन्धमोक्षाय निर्ममेति ममेति च ॥४३॥

ममेति बध्यते जन्तुर्निर्ममेति विमुच्यते । बाह्यचिन्ता न कर्तव्या तथैवान्तरचिन्तिका । सर्वचिन्तां समुत्सृज्य स्वस्थो भव सदा ऋभो ॥४४॥

संकल्पमात्रकलनेन जगत्समग्रं

संकल्पमात्रकलने हि जगद्विलासः ।

संकल्पमात्रमिदमुत्सृज निर्विकल्प-

माश्रित्य मामकपदं हृदि भावयस्व ॥४५॥

मच्चिन्तनं मत्कथनमन्योन्यं मत्प्रभाषणम् । मदेकपरमो भूत्वा कालं नय महामते ॥४६॥

चिदिहास्तीति चिन्मात्रमिदं चिन्मयमेव च । चित्त्वं चिदहमेते च लोकाश्चिदिति भावय ॥४७॥

रागं नीरागतां नीत्वा निर्लेपो भव सर्वदा । अज्ञानजन्यकर्त्रादिकारकोत्पन्नकर्मणा ॥४८॥

श्रुत्युत्पन्नात्मविज्ञानप्रदीपो बाध्यते कथम् । अनात्मनां परित्यज्य निर्विकारो जगत्स्थितौ ॥४९॥

एकनिष्ठतयान्तस्थसंविन्मात्रपरो भव । घटाकाशमठाकाशौ महाकाशे प्रतिष्ठितौ ॥५०॥

एवं मयि चिदाकाशे जीवेशौ परिकल्पितौ । या च प्रागात्मनो माया तथान्ते च तिरस्कृता ॥५१॥

ब्रह्मवादिभिरुद्गीता सा मायेति विवेकतः । मायातत्कार्यविलये नेश्वरत्वं न जीवता ॥५२॥

ततः शुद्धश्चिदेवाहं व्योमवन्निरुपाधिकः । जीवेश्वरादिरूपेण चेतनाचेतनात्मकम् ॥५३॥

ईक्षणादिप्रवेशान्ता सृष्टिरीशेन कल्पिता । जाग्रदादिविमोक्षान्तः संसारो जीवकल्पितः ॥५४॥

त्रिणाचिकादियोगान्ता ईश्वरभ्रान्तिमाश्रिताः । लोकायतादिसांख्यान्ता जीवविश्रान्तिमाश्रिताः ॥५५॥

तस्मान्मुमुक्षिभिर्नैव मतिर्जीवेशवादयोः । कार्या किंतु ब्रह्मतत्त्वं निश्चलेन विचार्यताम् ॥५६॥

अद्वितीयब्रह्मतत्त्वं न जानन्ति यथा तथा । भ्रान्ता एवाखिलास्तेषां क्व मुक्तिः क्वेह वा सुखम् ॥५७॥

उत्तमाधमभावश्चेत्तेषां स्यादस्ति तेन किम् । स्वप्नस्थराज्यभिक्षाभ्यां प्रबुद्धः स्पृशते खलु ॥५८॥

अज्ञाने बुद्धिविलये निद्रा सा भण्यते बुधैः । विलीनाज्ञानतत्कार्ये मयि निद्रा कथं भवेत् ॥५९॥

बुद्धेः पूर्णविकासोऽयं जागरः परिकीर्त्यते । विकारादिविहीनत्वाज्जागरो मे न विद्यते ॥६०॥

सूक्ष्मनाडिषु संचारो बुद्धेः स्वप्नः प्रजायते । संचारधर्मरहिते मयि स्वप्नो न विद्यते ॥६१॥

सुषुप्तिकाले सकले विलीने तमसावृते । स्वरूपं महदानन्दं भुङ्क्ते विश्वविवर्जितः ॥६२॥

अविशेषेण सर्वं तु यः पश्यति चिदन्वयात् । स एव साक्षाद्विज्ञानी स शिवः स हरिर्विधिः ॥६३॥

दीर्घस्वप्नमिदं यत्तद्दीर्घं वा चित्तविभ्रमम् । दीर्घं वापि मनोराज्यं संसारं दुःखसागरम् । सुप्तेरुत्थाय सुप्त्यन्तं ब्रह्मैकं प्रविचिन्त्यताम् ॥६४॥

आरोपितस्य जगतः प्रविलापनेन

चित्तं मदात्मकतया परिकल्पितं नः ।

शत्रून्निहत्य गुरुषट्कगणान्निपाता-

द्गन्धद्विपो भवति केवलमद्वितीयः ॥६५॥

अद्यास्तमेतु वपुराशशितारमास्तां

कस्तावतापि मम चिद्वपुषो विशेषः ।

कुम्भे विनश्यति चिरं समवस्थिते वा

कुम्भाम्बरस्य नहि कोऽपि विशेषलेशः ॥६६॥

अहिनिर्ल्वयनी सर्पनिर्मोको जीववर्जितः । वल्मीके पतितस्तिष्ठेत्तं सर्पो नाभिमन्यते ॥६७॥

एवं स्थूलं च सूक्ष्मं च शरीरं नाभिमन्यते । प्रत्यग्ज्ञानशिखिध्वस्ते मिथ्याज्ञाने सहेतुके । नेति नेतीति रूपत्वादशरीरो भवत्ययम् ॥६८॥

शास्त्रेण न स्यात्परमार्थदृष्टिः

कार्यक्षमं पश्यति चापरोक्षम् ।

प्रारब्धनाशात्प्रतिभाननाश

एवं त्रिधा नश्यति चात्ममाया ॥६९॥

ब्रह्मत्वे योजिते स्वामिञ्जीवभावो न गच्छति । अद्वैते बोधिते तत्त्वे वासना विनिवर्तते ॥७०॥

प्रारब्धान्ते देहहानिर्मायेति क्षीयतेऽखिला । अस्तीत्युक्ते जगत्सर्वं सद्रसं ब्रह्म तद्भवेत् ॥७१॥

भातीत्युक्ते जगत्सर्वं भानं ब्रह्मैव केवलम् । मरुभूमौ जलं सर्वं मरुभूमात्रमेव तत् । जगत्त्रयमिदं सर्वं चिन्मात्रं स्वविचारतः ॥७२॥

अज्ञानमेव न कुतो जगतः प्रसङ्गो

जीवेशदेशिकविकल्पकथातिदूरे ।

एकान्तकेवलचिदेकरसस्वभावे

ब्रह्मैव केवलमहं परिपूर्णमस्मि ॥७३॥

बोधचन्द्रमसि पूर्णविग्रहे

मोहराहुमुषितात्मतेजसि ।

स्नानदानयजनादिकाः

क्रिया मोचनावधि वृथैव तिष्ठते ॥७४॥

सलिले सैन्धवं यद्वत्साम्यं भवति योगतः । तथात्ममनसोरैक्यं समाधिरिति कथ्यते ॥७५॥

दुर्लभो विषयत्यागो दुर्लभं तत्त्वदर्शनम् । दुर्लभा सहजावस्था सद्गुरोः करुणां विना ॥७६॥

उत्पन्नशक्तिबोधस्य त्यक्तनिःशेषकर्मणः । योगिनः सहजावस्था स्वयमेव प्रकाशते ॥७७॥

रसस्य मनसश्चैव चञ्चलत्वं स्वभावतः । रसो बद्धो मनो बद्धं किं न सिद्ध्यति भूतले ॥७८॥

मूर्च्छितो हरति व्याधिं मृतो जीवयति स्वयम् । बद्धः खेचरतां धत्ते ब्रह्मत्वं रसचेतसि ॥७९॥

इन्द्रियाणां मनो नाथो मनोनाथस्तु मारुतः । मारुतस्य लयो नाथस्तन्नाथं लयमाश्रय ॥८०॥

निश्चेष्टो निर्विकारश्च लयो जीवति योगिनाम् । उच्छिन्नसर्वसंकल्पो निःशेषाशेषचेष्टितः । स्वावगम्यो लयः कोऽपि मनसां वागगोचरः ॥८१॥

पुङ्खानुपुङ्खविषयेक्षणतत्परोऽपि

ब्रह्मावलोकनधियं न जहाति योगी ।

सङ्गीतताललयवाद्यवशं गतापि

मौलिस्थकुम्भपरिरक्षणधीर्नटीव ॥८२॥

सर्वचिन्तां परित्यज्य सावधानेन चेतसा । नाद एवानुसन्धेयो योगसाम्राज्यमिच्छता ॥८३॥

इति द्वितीयोऽध्यायः ॥२॥

नहि नानास्वरूपं स्यादेकं वस्तु कदाचन । तस्मादखण्ड एवास्मि यन्मदन्यन्न किंचन ॥१॥

दृश्यते श्रूयते यद्यद्ब्रह्मणोऽन्यन्न तद्भवेत् । नित्यशुद्ध विमुक्तैकमखण्डानन्दमद्वयम् । सत्यं ज्ञानमनन्तं यत्परं ब्रह्माहमेव तत् ॥२॥

आनन्दरूपोऽहमखण्डबोधः

परात्परोऽहं घनचित्प्रकाशः ।

मेघा यथा व्योम न च स्पृशन्ति

संसारदुःखानि न मां स्पृशन्ति ॥३॥

सर्वं सुखं विद्धि सुदुःखनाशा-

त्सर्वं च सद्रूपमसत्यनाशात् ।

चिद्रूपमेव प्रतिभानयुक्तं

तस्मादखण्डं मम रूपमेतत् ॥४॥

न हि जनिर्मरणं गमनागमौ

न च मलं विमलं न च वेदनम् ।

चिन्मयं हि सकलं विराजते

स्फुटतरं परमस्य तु योगिनः ॥५॥

सत्यचिद्घनमखण्डमद्वयं

सर्वदृश्यरहितं निरामयम् ।

यत्पदं विमलमद्वयं शिवं

तत्सदाहमिति मौनमाश्रय ॥६॥

जन्ममृत्युसुखदुःखवर्जितं

जातिनीतिकुलगोत्रदूरगम् ।

चिद्विवर्तजगतोऽस्य कारणं

तत्सदाहमिति मौनमाश्रय ॥७॥

पूर्णमद्वयमखण्डचेतनं

विश्वभेदकलनादिवर्जितम् ।

अद्वितीयपरसंविदंशकं

तत्सदाहमिति मौनमाश्रय ॥८॥

केनाप्यबाधितत्वेन त्रिकालेऽप्येकरूपतः । विद्यमानत्वमस्त्येतत्सद्रूपत्वं सदा मम ॥९॥

निरुपाधिकनित्यं यत्सुप्तौ सर्वसुखात्परम् । सुखरूपत्वमस्त्येतदानन्दत्वं सदा मम ॥१०॥

दिनकरकिरणैर्हि शार्वरं तमो

निबिडतरं झटिति प्रणाशमेति ।

घनतरभवकारणं तमो यद्द्-

हरिदिनकृत्प्रभया न चान्तरेण ॥११॥

मम चरणस्मरणेन पूजया च

स्वकतमसः परिमुच्यते हि जन्तुः ।

न हि मरणप्रभवप्रणाशहेतु-

र्मम चरणस्मरणादृतेऽस्ति किंचित् ॥१२॥

आदरेण यथा स्तौति धनवन्तं धनेच्छया । तथा चेद्विश्वकर्तारं को न मुच्येत बन्धनात् ॥१३॥

आदित्यसंनिधौ लोकश्चेष्टते स्वयमेव तु । तथा मत्संनिधावेव समस्तं चेष्टते जगत् ॥१४॥

शुक्तिकाया यथा तारं कल्पितं मायया तथा । महदादि जगन्मायामयं मय्येव केवलम् ॥१५॥

चण्डालदेहे पश्वादिस्थावरे ब्रह्मविग्रहे । अन्येषु तारतम्येन स्थितेषु न तथा ह्यहम् ॥१६॥

विनष्टदिग्भ्रमस्यापि यथापूर्वं विभाति दिक् । तथा विज्ञानविध्वस्तं जगन्मे भाति तन्न हि ॥१७॥

न देहो नेन्द्रियप्राणो न मनोबुद्ध्यहंकृति । न चित्तं नैव माया च न च व्योमादिकं जगत् ॥१८॥

न कर्ता नैव भोक्ता च न च भोजयिता तथा । केवलं चित्सदानन्दब्रह्मैवाहं जनार्दनः ॥१९॥

जलस्य चलनादेव चञ्चलत्वं यथा रवेः । तथाहंकारसम्बधादेव संसार आत्मनः ॥२०॥

चित्तमूलं हि संसारस्तत्प्रयत्नेन शोधयेत् । हन्त चित्तमहत्तायां कैषा विश्वासता तव ॥२१॥

क्व धनानि महीपानां ब्रह्मणः क्व जगन्ति वा । प्राक्तनानि प्रयातानि गताः सर्गपरम्परः । कोटयो ब्रह्मणां याता भूपा नष्टाः परागवत् ॥२२॥

स चाध्यात्माभिमानोऽपि विदुषोऽयासुरत्वतः । विदुषोऽप्यासुरश्चेत्स्यान्निष्फलं तत्त्वदर्शनम् ॥२३॥

उत्पाद्यमाना रागाद्या विवेकज्ञानवह्निना । यदा तदैव दह्यन्ते कुतस्तेषां प्ररोहणम् ॥२४॥

यथा सुनिपुणः सम्यक् परदोषेक्षणे रतः । तथा चेन्निपुणः स्वेषु को न मुच्येत बन्धनात् ॥२५॥

अनात्मविदमुक्तोऽपि सिद्धिजालानि वाञ्छति । द्रव्यमन्त्रक्रियाकालयुक्त्याप्नोति मुनीश्वर ॥२६॥

नात्मज्ञस्यैष विषय आत्मज्ञो ह्यात्ममात्रदृक् । आत्मनात्मनि संतृप्तो नाविद्यामनुधावति ॥२७॥

ये केचन जगद्भावास्तानविद्यामयान्विदुः । कथं तेषु किलात्मज्ञस्त्यक्ताविद्यो निमज्जति ॥२८॥

द्रव्यमन्त्रक्रियाकालयुक्तयः साधुसिद्धिदाः । परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन ॥२९॥

सर्वेच्छाकलनाशान्तावात्मलाभोदयाभिधः । स पुनः सिद्धिवाञ्छायां कथमर्हत्यचित्ततः ॥३०॥

॥ इति तृतीयोध्यायः ॥३॥

अथ ह ऋभुं भगवन्तं निदाघः पप्रच्छ जीवन्मुक्तिलक्षणमनुब्रूहीति । तथेति स होवाच । सप्तभूमिषु जीवन्मुक्ताश्चत्वारः ।

शुभेच्छा प्रथमा भूमिका भवति । विचारणा द्वितीया । तनुमानसी तृतीया । सत्त्वापत्तिस्तुरीया । असंसक्तिः पञ्चमी ।

पदार्थभावना षष्ठी । तुरीयगा सप्तमी । प्रणवात्मिका भूमिका अकारोकारमकारार्धमात्रात्मिका ।

स्थूलसूक्ष्मबीजसाक्षिभेदेनाकारादयश्चतुर्विधाः । तदवस्था जाग्रत्स्वप्नसुषुप्तितुरीयाः । अकारस्थूलांशे जाग्रद्विश्वः ।

सूक्ष्मांशे तत्तैजसः । बीजांशे तत्प्राज्ञः । साक्ष्यंशे तत्तुरीयः । मकारस्थूलांशे सुषुप्तविश्वः । सूक्ष्मांशे तत्तैजसः ।

बीजांशे तत्प्राज्ञः । साक्ष्यंशे तत्तुरीयः । अर्धमात्रास्थूलांशे तुरीयविश्वः । सूक्ष्मांशे तत्तैजसः । बीजांशे तत्प्राज्ञः ।

साक्ष्यंशे तुरीयतुरीयः । अकारतुरीयांशाः प्रथमद्वितीयतृतीयभूमिकाः । उकारतुरीयांशा चतुर्थी भूमिका ।

मकारतुरीयांशा पञ्चमी । अर्धमात्रातुरीयांशा षष्ठी । तदतीता सप्तमी । भूमित्रयेषु विहरन्मुमुक्षुर्भवति ।

तुरीयभूम्यां विहरन्ब्रह्मविद्भवति । पञ्चमभूम्यां विहरन्ब्रह्मविद्वरो भवति । षष्ठभूम्यां विहरन्ब्रह्मविद्वरीयान्भवति ।

सप्तमभूम्यां विहरन्ब्रह्मविद्वरिष्ठो भवति । तत्रैते श्लोका भवन्ति । ज्ञानभूमिः शुभेच्छा स्यात्प्रथमा समुदीरिता ।

विचारणा द्वितीया तु तृतीया तनुमानसा ॥१॥

सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनामिका । पदार्थभावना षष्ठी सप्तमी तुर्यगा स्मृता ॥२॥

स्थितः किं मूढ एवास्मि प्रेक्ष्योऽहं शास्त्रसज्जनैः । वैराग्यपूर्णमिच्छेति शुभेच्छेत्युच्यते बुधैः ॥३॥

शास्त्रसज्जनसंपर्कवैराग्याभ्यासपूर्वकम् । सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा ॥४॥

विचारणाशुभेच्छाभ्यामिन्द्रियार्थेषु रक्तता । यत्र सा तनुतामेति प्रोच्यते तनुमानसी ॥५॥

भूमिकात्रितयाभ्यासाचित्तेऽर्थविरतेर्वशात् । सत्वात्मनि स्थिते शुद्धे सत्त्वापत्तिरुदाहृता ॥६॥

दशाचतुष्टयाभ्यासादसंसर्गफला तु या । रूढसत्त्वचमत्कारा प्रोक्ता संसक्तिनामिका ॥७॥

भूमिकापञ्चकाभ्यासात्स्वात्मारामतया भृशम् । आभ्यन्तराणां बाह्यानां पदार्थानामभावनात् ॥८॥

परप्रयुक्तेन चिरं प्रत्ययेनावबोधनम् । पदार्थभावनानाम षष्ठी भवति भूमिका ॥९॥

षड्भूमिकाचिराभ्यासद्भेदस्यानुपलम्भनात् । यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः ॥१०॥

शुभेच्छादित्रयं भूमिभेदाभेदयुतं स्मृतम् । यथावद्वेद बुद्ध्येदं जगज्जाग्रति दृश्यते ॥११॥

अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते । पश्यन्ति स्वप्नवल्लोकं तुर्यभूमि सुयोगतः ॥१२॥

विच्छिन्नशरदभ्रांशविलयं प्रविलीयते । सत्वावशेष एवास्ते हि निदाघ दृढीकुरु ॥१३॥

पञ्चभूमिं समारुह्य सुषुप्तिपदनामिकाम् । शान्ताशेषविशेषांशस्तिष्ठत्यद्वैतमात्रके ॥१४॥

अन्तर्मुखतया नित्यं बहिर्वृत्तिपरोऽपि सन् । परिश्रान्ततया नित्यं निद्रालुरिव लक्ष्यते ॥१५॥

कुर्वन्नभ्यासमेतस्यां भूम्यां सम्यग्विवासनः । सप्तमी गाढसुप्ताख्या क्रमप्राप्ता पुरातनी ॥१६॥

यत्र नासन्न सद्रूपो नाहं नाप्यनहंकृतिः । केवलं क्षीणमनन आस्तेऽद्वैतेऽतिनिर्भयः ॥१७॥

अन्तःशून्यो बहिःशून्यः शून्यकुम्भ इवाम्बरे । अन्तःपूर्णो बहिःपूर्णः पूर्णकुम्भ इवार्णवे ॥१८॥

मा भव ग्राह्यभावात्मा ग्राहकात्मा च मा भव । भावनामखिलां त्यक्त्वा यच्छिष्टं तन्मयो भव ॥१९॥

द्र्ष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह । दर्शनप्रथमाभासमात्मानं केवलं भज ॥२०॥

यथास्थितमिदं यस्य व्यवहारयतोऽपि च । अस्तंगतं स्थितं व्योम स जीवन्मुक्त उच्यते ॥२१॥

नोदेति नास्तमायाति सुखे दुःखे मनःप्रभा । यथाप्राप्तस्थितिर्यस्य स जीवन्मुक्त उच्यते ॥२२॥

यो जागर्ति सुषुप्तिस्थो यस्य जाग्रन्न विद्यते । यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते ॥२३॥

रागद्वेषभयादीनामनुरूपं चरन्नपि । योऽन्तर्व्योमवदच्छन्नः स जीवन्मुक्त उच्यते ॥२४॥

यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते । कुर्वतोऽकुर्वतो वापि स जीवन्मुक्त उच्यते ॥२५॥

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोन्मुक्तः स जीवन्मुक्त उच्यते ॥२६॥

यः समस्तार्थजालेषु व्यवहार्यपि शीतलः । परार्थेष्विव पूर्णात्मा स जीवन्मुक्त उच्यते ॥२७॥

प्रजहाति यदा कामान्सर्वांश्चित्तगतान्मुने । मयि सर्वात्मके तुष्टः स जीवन्मुक्त उच्यते ॥२८॥

चैत्यवर्जितचिन्मात्रे पदे परमपावने । अक्षुब्धचित्तो विश्रान्तः स जीवन्मुक्त उच्यते ॥२९॥

इदं जगदहं सोऽयं दृश्यजातमवास्तवम् । यस्य चित्ते न स्फुरति स जीवन्मुक्त उच्यते ॥३०॥

सद्ब्रह्मणि स्थिरे स्फारे पूर्णे विषयवर्जिते । आचार्यशास्त्रमार्गेण प्रविश्याशु स्थिरो भव ॥३१॥

शिवो गुरुः शिवो वेदः शिव देवः शिवः प्रभुः । शिवोऽस्म्यहं शिवः सर्वं शिवदन्यन्न किंचन ॥३२॥

तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तत् ॥३३॥

शुको मुक्तो वामदेवोऽपि मुक्त-

स्ताभ्यां विना मुक्तिभाजो न सन्ति ।

शुकमार्गं येऽनुसरन्ति धीराः

सद्यो मुक्तास्ते भवन्तीह लोके ॥३४॥

वामदेवं येऽनुसरन्ति नित्यं

मृत्वा जनित्वा च पुनःपुनस्तत् ।

ते वै लोके क्रममुक्ता भवन्ति

योगैः सांख्यैः कर्मभिः सत्त्वयुक्तैः ॥३५॥

शुकश्च वामदेवश्च द्वे सृती देवनिर्मिते । शुकः विहङ्गमः प्रोक्तो वामदेवः पिपीलिका ॥३६॥

अतद्व्यावृत्तिरूपेण साक्षाद्विधिमुखेन वा । महावाक्यविचारेण सांख्ययोगसमाधिना ॥३७॥

विदित्वा स्वात्मनो रूपं संप्रज्ञातसमाधितः । शुकमार्गेण विरजाः प्रयान्ति परमं पदम् ॥३८॥

यमाद्यासनजायासहठाभ्यासात्पुनःपुनः । विघ्नबाहुल्यसंजात अणिमादिवशादिह ॥३९॥

अलब्ध्वापि फलं सम्यक्पुनर्भूत्वा महाकुले । पुनर्वासनयैवायं योगाभ्यासं पुनश्चरन् ॥४०॥

अनेकजन्माभ्यासेन वामदेवेन वै पथा । सोऽपि मुक्तिं समाप्नोति तद्विष्णोः परमं पदम् ॥४१॥

द्वाविमावपि पन्थानौ ब्रह्मप्राप्तिकरौ शिवौ । सद्योमुक्तिप्रदश्चैकः क्रममुक्तिप्रदः परः । अत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥४२॥

यस्यानुभवपर्यन्ता बुद्धिस्तत्त्वे प्रवर्तते । तद्दृष्टिगोचराः सर्वे मुच्यन्ते सर्वपातकैः ॥४३॥

खेचरा भूचराः सर्वे ब्रह्मविद्दृष्टिगोचराः । सद्य एव विमुच्यन्ते कोटिजन्मार्जितैरघैः ॥४४॥

॥ इति चतुर्थोऽद्यायः ॥४॥

अथ हैनं ऋभुं भगवन्तं निदाघः पप्रच्छ योगाभ्यासविधिमनुब्रूहीति ।

तथेति स होवाच । पञ्चभूतात्मको देहः पञ्चमण्डलपूरितः । काठिन्यं पृथिवीमेका पानीयं तद्द्रवाकृति ॥१॥

दीपनं च भवेत्तेजः प्रचारो वायुलक्षणम् । आकाशः सत्त्वतः सर्वं ज्ञातव्यं योगमिच्छता ॥२॥

षट्शतान्यधिकान्यत्र सहस्राण्येकविंशतिः । अहोरात्रवहिः श्वासैर्वायुमण्डलघाततः ॥३॥

तत्पृथ्वीमण्डले क्षीणे वलिरायाति देहिनाम् । तद्वदापो गणापाये केशाः स्युः पाण्डुराः क्रमात् ॥४॥

तेजःक्षये क्षुधा कान्तिर्नश्यते मारुतक्षये । वेपथुः संभवेन्नित्यं नाम्भसेनैव जीवति ॥५॥

इत्थंभूतं क्षयान्नित्यं जीवितं भूतधारणम् । उड्ड्याणं कुरुते यस्मादविश्रान्तं महाखगः ॥६॥

उड्डियाणं तदेव स्यात्तत्र बन्धोऽभिधीयते । उड्डियाणो ह्यसौ बन्धो मृत्युमातङ्गकेशरी ॥७॥

तस्य मुक्तिस्तनोः कायात्तस्य बन्धो हि दुष्करः । अग्नौ तु चालिते कुक्षौ वेदना जायते भृशम् ॥८॥

न कार्या क्षुधि तेनापि नापि विण्मूत्रवेगिना । हितं मितं च भोक्तव्यं स्तोकं स्तोकमनेकधा ॥९॥

मृदुमध्यममन्त्रेषु क्रमान्मन्त्रं लयं हठम् । लयमन्त्रहठा योगा योगो ह्यष्टाङ्गसंयुतः ॥१०॥

यमश्च नियमश्चैव तथा चासनमेव च । प्राणायमस्तथा पश्चात्प्रत्याहारस्तथा परम् ॥११॥

धारणा च तथा ध्यानं समधिश्चाष्टमो भवेत् । अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् ॥१२॥

क्षमा धृतिर्मिताहारः शौचं चेति यमा दश । तपः सन्तोषमास्तिक्यं दानमीश्वरपूजनम् ॥१३॥

सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् । एते हि नियमाः प्रोक्ता दशधैव महामते ॥१४॥

एकादशासनानि स्युश्चक्रादि मुनिसत्तम । चक्रं पद्मासनं कूर्मं मयूरं कुक्कुटं तथा ॥१५॥

वीरासनं स्वस्तिकं च भद्रं सिंहासनं तथा । मुक्तासनं गोमुखं च कीर्तितं योगवित्तमैः ॥१६॥

सव्योरु दक्षिणे गुल्फे दक्षिणं दक्षिणेतरे । निदध्यादृजुकायस्तु चक्रासनमिदं मतम् ॥१७॥

पूरकः कुम्भकस्तद्वद्रेचकः पूरकः पुनः । प्राणायामः स्वनाडीभिस्तस्मान्नाडीः प्रचक्षते ॥१८॥

शरीरं सर्वजन्तूनां षण्णवत्यङ्गुलात्मकम् । तन्मध्ये पायुदेशात्तु द्व्यङ्गुलात्परतः परम् ॥१९॥

मेढ्रदेशादधस्तात्तु द्व्यङ्गुलान्मध्यमुच्यते । मेढ्रान्नताङ्गुलादूर्ध्वं नाडीनां कन्दमुच्यते ॥२०॥

चतुरङ्गुलमुत्सेधं चतुरङ्गुलमायतम् । अण्डाकारं परिवृतं मेदोमज्जास्थिशोणितैः ॥२१॥

तत्रैव नाडीचक्रं तु द्वादशारं प्रतिष्ठितम् । शरीरं ध्रियते येन वर्तते तत्र कुण्डली ॥२२॥

ब्रह्मरन्ध्रं सुषुम्णा या वदनेन पिधाय सा । अलम्बुसा सुषुम्णायाः कुहूर्नाडी वसत्यसौ ॥२३॥

अनन्तरारयुग्मे तु वारुणा च यशस्विनी । दक्षिणारे सुषुम्णायाः पिङ्गला वर्तते क्रमात् ॥२४॥

तदन्तरारयोः पूषा वर्तते च पयस्विनी । सुषुम्ना पश्चिमे चारे स्थिता नाडी सरस्वती ॥२५॥

शङ्खिनी चैव गान्धारी तदनन्तरयोः स्थिते । उत्तरे तु सुषुम्नाया इडाख्या निवसत्यसौ ॥२६॥

अनन्तरं हस्तिजिह्वा ततो विश्वोदरी स्थिता । प्रदक्षिणक्रमेणैव चक्रस्यारेषु नाडयः ॥२७॥

वर्तन्ते द्वादश ह्येता द्वादशानिलवाहकाः । पटवत्संस्थिता नाड्यो नानावर्णाः समीरिताः ॥२८॥

पटमध्यं तु यत्स्थानं नाभिचक्रं तदुच्यते । नादाधारा समाख्याता ज्वलन्ती नादरूपिणी ॥२९॥

पररन्ध्रा सुषुम्ना च चत्वारो रत्नपूरिताः । कुण्डल्या पिहितं शश्वद्ब्रह्मरन्ध्रस्य मध्यमम् ॥३०॥

एवमेतासु नाडीषु धरन्ति दशवायवः । एवं नाडीगतिं वायुगतिं ज्ञात्वा विचक्षणः ॥३१॥

समग्रीवशिरः कायः संवृतास्यः सुनिश्चलः । नासाग्रे चैव हृन्मध्ये बिन्दुमध्ये तुरीयकम् ॥३२॥

स्रवन्तममृतं पश्येन्नेत्राभ्यां सुसमाहितः । अपानं मुकुलीकृत्य पायुमाकृष्य चोन्मुखम् ॥३३॥

प्रणवेन समुत्थाप्य श्रीबीजेन निवर्तयेत् । स्वात्मानं च श्रियं ध्यायेदमृतप्लावनं तथा ॥३४॥

कालवञ्चनमेतद्धि सर्वमुख्यं प्रचक्षते । मनसा चिन्तिता कार्यं मनसा येन सिध्यति ॥३५॥

जलेऽग्निज्वलनाच्छाखापल्लवानि भवन्ति हि । नाधन्यं जागतं वाक्यं विपरीता भवेत्क्रिया ॥३६॥

मार्गे बिन्दुं समाबध्य वह्निं प्रज्वाल्य जीवने । शोषयित्वा तु सलिलं तेन कायं दृढं भवेत् ॥३७॥

गुदयोनिसमायुक्त आकुञ्चत्येककालतः । अपानमूर्ध्वगं कृत्वा समानोन्ने नियोजयेत् ॥३८॥

स्वात्मानं च श्रियं ध्यायेदमृतप्लावनं ततः । बलं समारभेद्योगं मध्यमद्वारभागतः ॥३९॥

भावयेदूर्ध्वगत्यर्थं प्राणापानसुयोगतः । एष योगो वरो देहे सिद्धिमार्गप्रकाशकः ॥४०॥

यथैवापाङ्गतः सेतुः प्रवाहस्य निरोधकः । तथा शरीरगा च्छाया ज्ञातव्या योगिभिः सदा ॥४१॥

सर्वासामेव नाडीनामेष बन्धः प्रकीर्तितः । बन्धस्यास्य प्रसादेन स्फुटीभवति देवता ॥४२॥

एवं चतुष्पथो बन्धो मार्गत्रयनिरोधकः । एकं विकासयन्मार्गं येन सिद्धाः सुसङ्गताः ॥४३॥

उदानमूर्ध्वगं कृत्वा प्राणेन सह वेगतः । बन्धोऽयं सर्वनाडीनामूर्ध्वं याति निरोधकः ॥४४॥

अयं च संपुटो योगो मूलबन्धोऽप्ययं मतः । बन्धत्रयमनेनैव सिद्ध्यत्यभ्यासयोगतः ॥४५॥

दिवारात्रमविच्छिन्नं यामेयामे यदा यदा । अनेनाभ्यासयोगेन वायुरभ्यसितो भवेत् ॥४६॥

वायावभ्यसिते वह्निः प्रत्यहं वर्धते तनौ । वह्नौ विवर्धमाने तु सुखमन्नादि जीर्यते ॥४७॥

अन्नस्य परिपाकेन रसवृद्धिः प्रजायते । रसे वृद्धिं गते नित्यं वर्धन्ते धातवस्तथा ॥४८॥

धातूनां वर्धनेनैव प्रबोधो वर्तते तनौ । दह्यन्ते सर्वपापानि जन्मकोट्यर्जितानि च ॥४९॥

गुदमेढ्रान्तरालस्थं मूलाधारं त्रिकोणकम् । शिवस्य बिन्दुरूपस्य स्थानं तद्धि प्रकाशकम् ॥५०॥

यत्र कुण्डलिनी नाम परा शक्तिः प्रतिष्ठिता । यस्मादुत्पद्यते वायुर्यस्माद्वह्निः प्रवर्धते ॥५१॥

यस्मादुत्पद्यते बिन्दुर्यस्मान्नादः प्रवर्धते । यस्मादुत्पद्यते हंसो यस्मादुत्पद्यते मनः ॥५२॥

मूलाधारादिषट्चक्रं शक्तिस्थानमुदीरितम् । कण्ठादुपरि मूर्धान्तं शांभवं स्थानमुच्यते ॥५३॥

नाडीनामाश्रयः पिण्डो नाड्यः प्राणस्य चाश्रयः । जीवस्य निलयः प्राणो जीवो हंसस्य चाश्रयः ॥५४॥

हंसः शक्तेरधिष्ठानं चराचरमिदं जगत् । निर्विकल्पः प्रसन्नात्मा प्राणायां समभ्यसेत् ॥५५॥

सम्यग्बन्धत्रयस्थोऽपि लक्ष्यलक्षणकारणम् । वेद्यं समुद्धरेन्नित्यं सत्यसंधानमानसः ॥५६॥

रेचकं पूरकं चैव कुम्भमध्ये निरोधयेत् । दृश्यमाने परे लक्ष्ये ब्रह्मणि स्वयमाश्रितः ॥५७॥

बाह्यस्थविषयं सर्वं रेचकः समुदाहृतः । पूरकं शास्त्रविज्ञानं कुम्भकं स्वगतं स्मृतम् ॥५८॥

एवमभ्यासचित्तश्चेत्समुक्तो नात्र संशयः । कुम्भकेन समारोप्य कुम्भकेन पूरयेत् ॥५९॥

कुम्भेन कुम्भयेत्कुम्भं तदन्तस्थः परं शिवम् । पुनरास्फालयेदद्य सुस्थिरं कण्ठमुद्रया ॥६०॥

वायूनां गतिमावृत्य धृत्वा पूरककुम्भकौ । समहस्तयुगं भूमौ समं पादयुगं तथा ॥६१॥

वेधकक्रमयोगेन चतुष्पीठं तु वायुना । आस्फालयेन्महामेरुं वायुवक्त्रे प्रकोटिभिः ॥६२॥

पुटद्वयं समाकृष्य वायुः स्फुरति सत्वरम् । सोमसूर्याग्निसंबधाज्जानीयादमृताय वै ॥६३॥

मेरुमध्यगता देवाश्चलन्ते मेरुचालनात् । आदौ संजायते क्षिप्रं वेधोऽस्य ब्रह्मग्रन्थितः ॥६४॥

ब्रह्मग्रन्थिं ततो भित्त्वा विष्णुग्रन्थिं भिनत्त्यसौ । विष्णुग्रन्थिं ततो भित्त्वा रुद्रग्रन्थिं भिनत्त्यसौ ॥६५॥

रुद्रग्रन्थिं ततो भित्त्वा छित्वा मोहमलं तथा । अनेकजन्मसंस्कारगुरुदेवप्रसादतः ॥६६॥

योगाभ्यासात्ततो वेधो जायते तस्य योगिनः । इडापिङ्गलयोर्मध्ये सुषुम्नानाडिमण्डले ॥६७॥

मुद्राबन्धविशेषेण वायुमूर्ध्वं च कारयेत् । ऱ्हस्वो दहति पापानि दीर्घो मोक्षप्रदायकः ॥६८॥

आप्यायनः प्लुतो वापि त्रिविधोच्चारणेन तु । तैलधारामिवच्छिन्नं दीर्घघण्टानिनादवत् ॥६९॥

अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् । ऱ्हस्वं बिन्दुगतं दैर्घ्यं ब्रह्मरन्ध्रगतं प्लुतम् । द्वादशान्तगतं मन्त्रं प्रसादं मन्त्रसिद्धये ॥७०॥

सर्वविघ्नहरश्चायं प्रणवः सर्वदोषहा । आरंभश्च घटश्चैव पुनः परिचयस्तथा ॥७१॥

निष्पत्तिश्चेति कथिताश्चतस्रस्तस्य भूमिकाः । कारणत्रयसंभूतं बाह्यं कर्म परित्यजन् ॥७२॥

आन्तरं कर्म कुरुते यत्रारंभः स उच्यते । वायुः पश्चिमतो वेधं कुर्वन्नापूर्य सुस्थिरम् ॥७३॥

यत्र तिष्ठति सा प्रोक्ता घटाख्या भूमिका बुधैः । न सजीवो न निर्जीवः काये तिष्ठति निश्चलम् । यत्र वायुः स्थिरः खे स्यात्सेयं प्रथमभूमिका ॥७४॥

यत्रात्मना सृष्टिलयौ जीवन्मुक्तिदशागतः । सहजः कुरुते योगं सेयं निष्पत्तिभूमिका ॥७५॥

इति॥एतदुपनिषदं योऽधीते सोऽग्निपूतो भवति । स वायुपूतो भवति । सुरापानात्पूतो भवति । स्वर्णस्तेयात्पूतो भवति ।

स जीवन्मुक्तो भवति । तदेतदृचाभ्युक्तम् । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ।

तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदमित्युपनिषत् ॥

॥ इति पञ्चमोऽध्यायः॥५॥

ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ॥तेजस्विनावधी तमस्तु मा विद्विषावहै ॥

॥ ॐ शान्तिः शान्तिः शान्तिः ॥हरिः ॐ तत्सत् ॥इति वराहोपनिषत्समाप्ता ॥

N/A

N/A
Last Updated : December 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP