संस्कृत सूची|संस्कृत साहित्य|उपनिषद| नारायणोत्तरतापिनीयोपनिषत् उपनिषद बृहज्जाबालोपनिषत् जाबालदर्शनोपनिषत् कौषीतकिब्राह्मणोपनिषत् महानारायणोपनिषत् महोपनिषत् नारदपरिव्राजकोपनिषत् पैङ्गलोपनिषत् श्रीशिवोपनिषत् श्वेताश्वतरोपनिषत् सुबालोपनिषत् तेजोबिन्दूपनिषत् त्रिपाद्विभूतिमहानारायणोपनिषत् वराहोपनिषत् योगकुण्डल्युपनिषत् योगशिक्षोपनिषद् आरुणिकोपनिषत् आत्मपूजोपनिषद् बह्वृच उपनिषत् ब्रह्मबिन्दूपनिषत् चाक्षुषोपनिषत् गायत्रीरहस्योपनिषत् गायत्र्युपनिषत् गोरक्ष उपनिषत् जाबाल्युपनिषत् कैवल्योपनिषत् कालाग्निरुद्रोपनिषत् कलिसन्तरन कौलोपनिषत् क्षुरिकोपनिषत् कुण्डिकोपनिषत् मैत्रेय्युपनिषत् मुक्तिका उपनिषद् पञ्चब्रह्मोपनिषत् परमहंस-परिव्राजक प्राणाग्निहोत्रोपनिषत् रुद्रहृदयोपनिषत् श्रीरामकृष्ण परमहंसोपनिषदं रुद्राक्षजाबालोपनिषत् याज्ञिक्युपनिषद् भस्मजाबालोपनिषत् भिक्षुकोपनिषत् ब्रह्मबिन्दु दत्तात्रेयोपनिषत् मन्त्रिकोपनिषत् मुद्गलोपनिषत् मुक्तिकोपनिषत् नारायणोपनिषद् रुद्रहृदयोपनिषत् रुद्राक्षजाबालोपनिषत् सामरहस्योपनिषत् संन्यासोपनिषत् सर्वसारोपनिषत् सावित्र्युपनिषत् शाण्डिल्योपनिषत् शरभोपनिषत् शाट्यायनीयोपनिषत् शुकरहस्योपनिषत् स्कन्दोपनिषत् सूर्योपनिषत् वज्रसूचिका उपनिषद् वास्तुसूत्रोपनिषद् वासुदेवोपनिषत् योगचूडामण्युपनिषत् योगतत्त्वोपनिषत् त्रिशिखिब्राह्मणोपनिषत् अक्षमालिकोपनिषत् अक्ष्युपनिषत् अथर्वशिखोपनिषत् अथर्वशिरउपनिषद् अमृत-बिन्दु उपनिषद् अमृतनादोपनिषत् अवधूतोपनिषत् अव्यक्तोपनिषत् आत्मोपनिषत् आरुणेयोपनिषद् आर्षेयोपनिषत् इतिहासोपनिषत् ईशावास्योपनिषद्भाष्यम् एकाक्शरोपनिश्हत् कठरुद्रोपनिषत् कलिसन्तरणोपनिषत् गरुडोपनिषत् गर्भोपनिषद् गणपत्यथर्वशीर्षोपनिषत् तारसारोपनिषत् त्रिपुरातापिन्युपनिषत् दक्षिणामूर्त्युपनिषत् देवी उपनिषत् नादबिन्दूपनिषत् निरालम्बोपनिषत् निरुक्तोपनिषत् निर्वाणोपनिषत् पञ्चब्रह्मोपनिषत् पाशुपतब्रह्मोपनिषत् प्रणवोपनिषत् बह्वृचोपनिषत् ब्रह्मविद्योपनिषत् ब्रह्मोपनिषद् याज्ञवल्क्योपनिषत् सीतोपनिषत् सौभाग्यलक्ष्म्युपनिषत् हयग्रीवोपनिषत् अन्नपूर्णोपनिषत् आत्मबोधोपनिषत् ऐतरेयोपनिषद् कृष्णोपनिषत् कौषीतकिब्राह्मणोपनिषत् गोपालतापिन्युपनिषत् गोपालोत्तरतापिन्युपनिषद तैत्तरीयोपनिषद्भाष्यम् ब्राहृनन्दवल्ली भृगुवल्ली नारायणपूर्वतापिनीयोपनिषत् नारायणोत्तरतापिनीयोपनिषत् नारायणोपनिषद् नृसिंहतापिन्युपनिषत् नृसिंहोत्तरतापिन्युपनिषत् सरस्वतीरहस्योपनिषत् सुबालोपनिषत् ईशोपनिषत् केन उपनिषद् कठोपनिषत् प्रश्नोपनिषत् मुण्डकोपनिषत् माण्डुक्योपनिषत् तैत्तिरीयोपनिषत् ऐतरेय उपनिषत् छान्दोग्योऽपनिषद् ब्रह्मोद्पनिष जाबालोपनिषत् हंसोपनिषत् योग-कुण्डलिनि उपनिषद् सर्वसारोपनिषत् रामरहस्योपनिषत् रामतापिन्युपनिषत् वासुदेवोपनिषत् शाण्डिल्योपनिषत् शारीरकोपनिषत् योगशिखोपनिषत् संन्यासोपनिषत् सावित्र्युपनिषद् मैत्रायण्युपनिषत् मुद्गलोपनिषत् महावाक्योपनिषत् महानारायणोपनिषत् मन्त्रिकोपनिषत् मण्डलब्राह्मणोपनिषत् भिक्षुकोपनिषत् भावोपनिषत् बृहज्जाबालोपनिषत् पैङ्गलोपनिषत् सुबालोपनिषत् आरुणिकोपनिषत् बह्वृच उपनिषत् सरस्वतीरहस्योपनिषत् गरुडोपनिषत् श्वेताश्वतरोपनिषत् दत्तात्रेयोपनिषत् हयग्रीवोपनिषत् शाट्यायनीयोपनिषत् वराहोपनिषत् याज्ञवल्क्योपनिषत् कृष्णोपनिषत् मैत्रेय्युपनिषत् नृसिंहतापिन्युपनिषत् गोपालतापिन्युपनिषत् वज्रसूचिका उपनिषद् शरभोपनिषत् आत्मबोधोपनिषत् त्रिशिखिब्राह्मणोपनिषत् नादबिन्दूपनिषत् ब्रह्मविद्योपनिषत् योगतत्त्वोपनिषत् दक्षिणामूर्त्युपनिषत् ध्यानबिन्दूपनिषत् योगचूडामण्युपनिषत् अक्ष्युपनिषत् अथर्वशिखोपनिषत् अथर्वशिरउपनिषत् अध्यात्मोपनिषत् अमृतनादोपनिषत् अमृतबिन्दु उपनिषद् तेजोबिन्दूपनिषत् पाशुपतब्रह्मोपनिषत् परमहंसोपनिषत् परब्रह्मोपनिषत् निर्वाणोपनिषत् देवी उपनिषत् त्रिपुरोपनिषत् निरालम्बोपनिषत् तुरीयातीतोपनिषत् तारसारोपनिषत् गर्भोपनिषत् गणपत्युपनिषत् क्षुरिकोपनिषत् कौषीतकिब्राह्मणोपनिषत् कठरुद्रोपनिषत् एकाक्षरोपनिषत् अव्यक्तोपनिषत् अवधूतोपनिषत् अन्नपूर्णोपनिषत् अक्षमालिकोपनिषत् अद्वयतारकोपनिषत् आत्मोपनिषत् त्रिपुरातापिन्युपनिषत् नारायणोत्तरतापिनीयोपनिषत् आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic wisdom. Tags : sanskritupanishadvedउपनिषदवेदसंस्कृत नारायणोत्तरतापिनीयोपनिषत् Translation - भाषांतर प्रथमः खण्डःस होवाच भगवान् ब्रह्मा आनन्दं ब्रह्मणो विद्वान् सच्चिदानन्दस्वरूपो भवति ।द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः ।तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ॥वासनाद्वासुदेवस्य वासितं हि जगत्त्रयम् ।सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥भूश्च नारायणः । भुवश्च नारायणः । सुवश्च नारायणः । महश्च नारायणः । जनश्च नारायणः । तपश्च नारायणः । सत्यं च नारायणः । नारायणः परं ब्रह्म । नारायण एवेदं सर्वम् । नारायणान्न किञ्चिदस्ति । सत्य ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । तस्माद्वा एतस्मादात्मन आकाशः संभूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः । नारायणः सर्वपुरुष एवेदं परब्रह्म । नारायणः सर्वभूतान्तर्याम्यात्मा । आत्मेदं सर्वं नारायणः । नारायणः स्वयं ज्योतिः । तस्मात्प्रकाशात्मा ॥नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा ।तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः ॥पाशबद्धः स्मृतो जीवः पाशमुक्तः सनातनः ।तुषेण बद्धो व्रीहिः स्यात्तुषाभावेन तण्डुलः ॥परब्रह्म स्वयं चात्मा साक्षान्नारायणः स्मृतः ।नारायणमनादिं च योगनिद्रापरायणम् ॥जाग्रत्स्वप्नसुषुप्तीषु सर्वकालव्यवस्थितम् ।नारायणं महात्मानं महाध्यानपरायणम् ।सर्ववेदान्तसंलक्ष्यं तद्ब्रह्मेत्यभिधीयते ॥होवाच भगवान् नारायण एवेदं सर्वं प्रतिष्ठितं य एवं वेद । इत्युपनिषत् ॥इत्याथर्वणरहस्ये नारायणोत्तरतापिनीये प्रथमः खण्डः ===========द्वितीयः खण्डःस होवाच भगवान् ब्रह्मा नारायणः परवस्तु भवतीति विज्ञायते ।सच्चिदानन्दरूपाय ज्ञानायामिततेजसे ।परब्रह्मस्वरूपाय नारायण नमोऽस्तु ते ॥नित्यशुद्धाय बुद्धाय नित्यायाद्वैतरूपिणे ।आनन्दायात्मरूपाय नारायण नमोऽस्तु ते ॥ओं नमो भगवते श्रीमन्नारायणाय महाविष्णवे अमितबलपराक्रमाय शङ्खचक्रगदाधराय लक्ष्मीसमेताय गरुडवाहनाय दशावताराय सर्वदुष्टदैत्यदानवसंहरणाय शिष्टप्रतिपालकाय परब्रह्मरूपाय महात्मने परमपुरुषाय पुण्डरीकाक्षाय पुराणपुरुषाय शुद्धबुद्धाय सच्चिदानन्दस्वरूपाय महात्मने घृणिः सूर्य आदित्य ॐ नमो नारायणाय सहस्रार हुं फट् स्वाहा ॥नारायणाय शान्ताय शाश्वताय मुरारये ।यज्ञेश्वराय यज्ञाय शरण्याय नमो नमः ॥स होवाच भगवान् ब्रह्मा सर्वं विश्वमिदं नारायणः य एवं वेद इत्युपनिषत् ॥इत्याथर्वणरहस्ये नारायणोत्तरतापिनीये द्वितीयः खण्डः============तृतीयः खण्डःस होवाच भगवान् ब्रह्मा नारायणः परब्रह्मेति य एवं वेद । नारायणात्मा वेदं सर्वं निर्विकारं निरञ्जनवस्तु प्रतिपाद्यते । स नारायणो विराट्पुरुषो भवति । देवानां वासवो भवति । इन्द्रियाणां मनो भवति । सर्वेषां वस्तूनां मुख्यवस्तु भवति । ॐ नमो नारायणादन्यो मन्त्रः नारायणादन्योपास्तिर्नास्ति । नान्यन्नारायणादुपासितव्यम् । सर्वं नारायण एव भवतीति विज्ञायते । योऽधीते नित्यं सर्वान् कामानवाप्नोति । स ब्रह्महत्यायाः पूतो भवति । सुरापानात् पूतो भवति । स्वर्णस्तेयात् पूतो भवति । गुरुतल्पगमनात् पूतो भवति । अगम्यागमनात् पूतो भवति । अभक्ष्यभक्षात् पूतो भवति । स उपपातकमहापातकेभ्यः पूतो भवति । सर्ववेदमधीयानो भवति। सर्वक्रतुफलं प्राप्नोति। सर्वकर्मकर्ता भवति। चतु:समुद्रपर्यन्तभूदानफलं प्राप्नोति । द्विजोत्तमो भवति । चतुर्वर्गफलं प्राप्नोति । ब्रह्मचारी ज्ञानवान् भवति । गृही पुत्रपौत्रमहैश्वर्यवान् भवति । सन्यासी मोक्षवान् भवति ॥पठनाच्छ्रवणाद्वाऽपि सर्वान् कामानवाप्नुयात् ॥नारायणप्रसादेन वैकुण्ठपदमश्नुते ॥इति स होवाच भगवान् य एवं वेद । इत्युपनिषत् ॥वेदाक्षराणि यावन्ति पठितानि द्विजोत्तमैः ।तावन्ति हरिनामानि कीर्तितानि न संशयः ॥नारायण हरे कृष्ण वासुदेव जगद्गुरो ।मुकुन्दाच्युत देवेश महाविष्णो नमोऽस्तु ते ॥भूतानि तत्त्वसंज्ञानि कूटस्थोऽक्षरसंज्ञितः ।उत्तमश्चापि पुरुषो नारायण इतीर्यते ॥इत्याथर्वणरहस्ये नारायणोत्तरतापिनीये तृतीयः खण्डः ।इति नारायणोत्तरतापिनीयोपनिषत् समाप्ता N/A References : N/A Last Updated : January 11, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP