संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
मुद्गलोपनिषत्

मुद्गलोपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.

Upanishad are highly philosophical and metaphysical part of Vedas.


॥ मुद्गलोपनिषत् ॥ ऋग् वेद,सामान्य उपनिषद्

श्रीमत्पुरुषसूक्तार्थं पूर्णानन्दकलेवरम् । पुरुषोत्तमविख्यातं पूर्णं ब्रह्म भवाम्यहम् ॥

ॐ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥

वेदस्य म आणीस्थः । श्रुतं मे मा प्रहासीरनेनाधीते- नाहोरात्रान्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥

तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम् ॥

ॐ पुरुषसूक्तार्थनिर्णयं व्याख्यास्यामः पुरुषसंहितायां पुरुषसूक्तार्थः संग्रहेण प्रोच्यते ।

सहस्रशीर्षेत्यत्र सशब्दोऽनन्तवाचकः । अनन्तयोजनं प्राह दशाङ्गुलवचस्तथा ॥१॥

तस्य प्रथमया विष्णोर्देशतो व्याप्तिरीरिता । द्वितीयया चास्य विष्णोः कालतो व्याप्तिरुच्यते ॥२॥

विष्णोर्मोक्षप्रदत्वं च कथितं तु तृतीयया । एतावानिति मन्त्रेण वैभवं कथितं हरेः ॥३॥

एतेनैव च मन्त्रेण चतुर्व्यूहो विभाषितः । त्रिपादित्यनया प्रोक्तमनिरुद्धस्य वैभवम् ॥४॥

तस्माद्विराडित्यनया पादनारायणाद्धरेः । प्रकृतेः पुरुषस्यापि समुत्पत्तिः प्रदर्शिता ॥५॥

यत्पुरुषेणेत्यनया सृष्टियज्ञः समीरितः । सप्तास्यासन्परिधयः समिधश्च समीरिताः ॥६॥

तं यज्ञमिति मन्त्रेण सृष्टियज्ञः समीरितः । अनेनैव च मन्त्रेण मोक्षश्च समुदीरितः ॥७॥

तस्मादिति च मन्त्रेण जगत्सृष्टिः समीरिता । वेदाहमिति मन्त्राभ्यां वैभवं कथितं हरेः ॥८॥

यज्ञेनेत्युपसंहारः सृष्टेर्मोक्षस्य चेरितः । य एवमेतज्जानाति स हि मुक्तो भवेदिति ॥९॥ १॥

अथ तथा मुद्गलोपनिषदि पुरुषसूक्तस्य वैभवं विस्तरेण प्रतिपादितम् ।

वासुदेव इन्द्राय भगवज्ज्ञानमुपदिश्य पुनरपि सूक्ष्मश्रवणाय प्रणतायेन्द्राय परमरहस्यभूतं पुरुषसूक्ताभ्यां खण्डद्वयाभ्यामुपादिशत् ।

द्वौ खण्डावुच्येते । योऽय मुक्तः स पुरुषो नामरूपज्ञानागोचरं संसारिणामतिदुर्ज्ञेयं विषयं विहाय क्लेशादिभिः

संक्लिष्टदेवादिजिहीर्षया सहस्रकलावयवकल्याणं दृष्टमात्रेण मोक्षदं वेषमाददे ।

तेन वेषेण भूम्यादिलोकं व्याप्यानन्त- योजनमत्यतिष्ठत् । पुरुषो नारायणो भूतं भव्यं भविष्यच्चासीत् ।

स च सर्वस्मान्महिम्नो ज्यायान् । तस्मान्न कोऽपि ज्यायान् । महापुरुष आत्मानं चतुर्धा कृत्वा त्रिपादेन परमे व्योम्नि चासीत् ।

इतरेण चतुर्थेनानिरुद्धनारायणेन विश्वान्यासन् । स च पादनारायणो जगत्स्रष्टुं प्रकृतिमजनयत् ।

स समृद्धकायः सन्सृष्टिकर्म न जज्ञिवान् । सोऽनिरुद्धनारायणस्तस्मै सृष्टिमुपादिशत् ।

ब्रह्मंस्तवेन्द्रियाणि याजकानि ध्यात्वा कोशभूतं दृढं ग्रन्थिकलेवरं हविर्ध्यात्वा मां हविर्भुजं ध्यात्वा

वसन्तकालमाज्यं ध्यात्वा ग्रीष्ममिध्मं ध्यात्वा शरदृतुं रसं ध्यात्वैवमग्नौ हुत्वाङ्ग- स्पर्शात्कलेवरो वज्रं हीष्यते ।

ततः स्वकार्यान्सर्व- प्राणिजीवान्सृष्ट्वा पश्वाद्याः प्रादुर्भविष्यन्ति । ततः स्थावरजङ्गमात्मकं जगद्भविष्यति ।

एतेन जीवात्मनोर्योगेन मोक्षप्रकारश्च कथित इत्यनुसन्धेयम् । य इमं सृष्टियज्ञं जानाति मोक्षप्रकारं च सर्वमायुरेति ॥२॥

एको देवो बहुधा निविष्ट अजायमानो बहुधा विजायते । तमेतमग्निरित्यध्वर्यव उपासते । यजुरित्येष हीदं सर्वं युनक्ति ।

सामेति छन्दोगाः । एतस्मिन्हीदं सर्वं प्रतिष्ठितम् । विषमिति सर्पाः । सर्प इति सर्पविदः । ऊर्गिति देवाः । रयिरिति मनुष्याः ।

मायेत्यसुराः । स्वधेति पितरः । देवजन इति देवजनविदः । रूपमिति गन्धर्वाः । गन्धर्व इति अप्सरसः । तं यथायथोपासते तथैव भवति ।

तस्माद्ब्राह्मणः पुरुषरूपं परंब्रह्मैवाहमिति भावयेत् । तद्रूपो भवति । य एवं वेद ॥३॥

तद्ब्रह्म तापत्रयातीतं षट्कोशविनिर्मुक्तं षडूर्मिवर्जितं पञ्चकोशातीतं षड्भावविकारशून्यमेवमादि- सर्वविलक्षणं भवति ।

तापत्रयं त्वाध्यात्मिकाधिभौति- काधिदैविकं कर्तृकर्मकार्यज्ञातृज्ञानज्ञेय- भोक्तृभोगभोग्यमिति त्रिविधम् ।

त्वङ्मांसशोणितास्थि- स्नायुमज्जाः षट्कोशाः । कामक्रोधलोभमोहमद- मात्सर्यमित्यरिषड्वर्गः ।

अन्नमयप्राणमयमनोमय- विज्ञानमयानन्दमया इति पञ्चकोशाः । प्रियात्मजननवर्धनपरिणामक्षयनाशाः षड्भावाः ।

अशनायापिपासाशोकमोहजरामरणानीति षडूर्मयः । कुलगोत्रजातिवर्णाश्रमरूपाणि षड् भ्रमाः । एतद्योगेन परमपुरुषो जीवो भवति नान्यः ।

य एतदुपनिषदं नित्यमधीते सोऽग्निपूतो भवति । स वायुपूतो भवति । स आदित्यपूतो भवति । अरोगी भवति । श्रीमांश्च भवति ।

पुत्रपौत्रादिभिः समृद्धो भवति । विद्वांश्च भवति । महापातकात्पूतो भवति । सुरापानात्पूतो भवति । अगम्यागमनात्पूतो भवति ।

मातृगमनात्पूतो भवति । दुहितृस्नुषाभिगमनात्पूतो भवति । स्वर्णस्तेयात्पूतो भवति । वेदिजन्महानात्पूतो भवति ।

गुरोरशुश्रूषणात्पूतो भवति । अयाज्ययाजनात्पूतो भवति । अभक्ष्यभक्षणात्पूतो भवति । उग्रप्रतिग्रहात्पूतो भवति ।

परदारगमनात्पूतो भवति । कामक्रोधलोभमोहेर्ष्यादिभिरबाधितो भवति । सर्वेभ्यः पापेभ्यो मुक्तो भवति ।

इह जन्मनि पुरुषो भवति तस्मादेत- त्पुरुषसूक्तार्थमतिरहस्यं राजगुह्यं देवगुह्यं गुह्यादपि गुह्यतरं नादीक्षितायोपदिशेत् ।

नानूचानाय । नायज्ञशीलाय । नावैष्णवाय । नायोगिने । न बहुभाषिणे । नाप्रियवादिने । नासंवत्सरवेदिने । नातुष्टाय ।

नानधीतवेदायोपदिशेत् । गुरुरप्येवंविच्छुचौ देशे पुण्यनक्षत्रे प्राणानायम्य पुरुषं ध्यायन्नुपसन्नाय शिष्याय दक्षिणकर्णे पुरुषसूक्तार्थमुपदिशेद्विद्वान् ।

न बहुशो वदेत् । यातयामो भवति । असकृत्कर्णमुपदिशेत् । एतत्कुर्वाणोऽध्येताध्यापकश्च इह जन्मनि पुरुषो भवतीत्युपनिषत् ॥

ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठित- माविरावीर्म एधि ॥

वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥

तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

॥ इति मुद्गलोपनिषत्समाप्ता ॥

N/A

N/A
Last Updated : December 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP