TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
निरालम्बोपनिषत्

निरालम्बोपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.

Upanishad are highly philosophical and metaphysical part of Vedas.


निरालम्बोपनिषत्

॥ निरालम्बोपनिषत् ॥ शुक्ल यजुर्वेद,सामान्य उपनिषद्

यत्रालम्बालम्बिभावो विद्यते न कदाचन । ज्ञविज्ञसम्यग्ज्ञालम्बं निरालम्बं हरिं भजे ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ नमः शिवाय गुरवे सच्चिदानन्द मूर्तये । निष्प्रपञ्चाय शान्ताय निरालम्बाय तेजसे ॥

निरालम्बं समाश्रित्य सालम्बं विजहाति यः । स संन्यासी च योगी च कैवल्यं पदमश्नुते ।

एषमज्ञानजन्तूनां समस्तारिष्टशान्तये । यद्यद्बोद्धव्यमखिलं तदाशङ्क्य ब्रवीम्यहम् ॥

किं ब्रह्म । क ईश्वरः । को जीवः । का प्रकृतिः । कः परमात्मा । को ब्रह्मा । को विष्णुः । को रुद्रः । क इन्द्रः ।

कः शमनः । कः सूर्यः । कश्चन्द्रः । के सुराः । के असुराः । के पिशाचाः । के मनुष्याः । काः स्त्रियः । के पश्वादयः ।

किं स्थावरम् । के ब्राह्मणादयः । का जातिः । किं कर्म । किमकर्म । किं ज्ञानम् । किमज्ञानम् । किं सुखम् ।

किं दुःखम् । कः स्वर्गः । को नरकः । को बन्धः । को मोक्षः । क उपास्यः । कः शिष्यः । को विद्वान् । को मूढः ।

किमासुरम् । किं तपः । किं परमं पदम् । किं ग्राह्यम् । किमग्राह्यम् । कः संन्यासीत्याहशङ्क्याह ब्रह्मेति ।

स होवाच महदहङ्कारपृथिव्यप्तेजोवाय्वाकाशत्वेन बृहद्रूपेणाण्डकोशेन कर्मज्ञानार्थरूपतया

भासमानमद्वितीयमखिलोपाधिविनिर्मुक्तं तत्सकलशक्त्युपबृंहितमनाद्यनन्तं शुद्धं शिवं शान्तं निर्गुणमित्यादि- वाच्यमनिर्वाच्यं चैतन्यं ब्रह्म ॥

ईश्वर इति च ॥ ब्रह्मैव स्वशक्तिं प्रकृत्यभिधेयामाश्रित्य लोकान्सृष्ट्वा प्रविश्यान्तर्यामित्वेन ब्रह्मादीनां बुद्धीन्द्रियनियन्तृत्वादीश्वरः ॥

जीव इति च ब्रह्मविष्ण्वीशानेन्द्रादीनां नामरूपद्वारा स्थूलोऽहमिति मिथ्याध्यासवशाज्जीवः ।

सोऽहमेकोऽपि देहारम्भकभेदवशाद्बहुजीवः । प्रकृतिरिति च ब्रह्मणः सकाशान्नानाविचित्रजगन्निर्माण- सामार्थ्यबुद्धिरूपा ब्रह्मशक्तिरेव प्रकृतिः ।

परमात्मेति च देहादेः परतरत्वद्ब्राह्मैव परमात्मा स ब्रह्मा स विष्णुः स इन्द्रः स शमनः स सूर्यः स चन्द्रस्ते सुरास्ते

असुरास्ते पिशाचास्ते मनुष्यास्ताः स्त्रियस्ते पश्वादयस्तत्स्थावरं ते ब्राह्मणादयः । सर्वं खल्विदं ब्रह्म नेह नानास्ति किञ्चन ।

जातिरिति च । न चर्मणो न रक्तस्य न मांसस्य न चास्थिनः । न जातिरात्मनो जातिर्व्यवहारप्रकल्पिता ।

कर्मेति च क्रियमाणेन्द्रियैः कर्मण्यहं करोमीत्यध्यात्मनिष्ठतया कृतं कर्मैव कर्म ।

अकर्मेति च कर्तृत्वभोक्तृत्वा- द्यहङ्कारतया बन्धरूपं जन्मादिकारणं नित्यनैमित्तिकयागव्रततपोदानादिषु फलाभिसन्धानं यत्तदकर्म ।

ज्ञानमिति च देहेन्द्रियनिग्रहसद्गुरूपासन- श्रवणमनननिदिध्यासनैर्यद्यदृग्दृश्यस्वरूपं सर्वान्तरस्थं सर्वसमं

घटपटादिपदार्थ- मिवाविकारं विकारेषु चैतन्यं विना किञ्चिन्नास्तीति साक्षात्कारानुभवो ज्ञानम् ।

अज्ञानमिति च रज्जौ सर्पभ्रान्तिरिवाद्वितीये सर्वानुस्यूते सर्वमये ब्रह्मणि देवतिर्यङ्नरस्थावरस्त्रीपुरुषवर्णाश्रम- बन्धमोक्षोपाधिनानात्मभेदकल्पित ज्ञानमज्ञानम् ।

सुखमिति च सच्चिदानन्दस्वरूपं ज्ञात्वानन्दरूपा या स्थितिः सैव सुखम् । दुःखमिति अनात्मरूपः विषयसङ्कल्प एव दुःखम् । स्वर्ग इति च सत्संसर्गः स्वर्गः ।

नरक इति च असत्संसारविषयजनसंसर्ग एव नरकः । बन्ध इति च अनाद्यविद्यावासनया जातोऽहमि- त्यादिसङ्कल्पो बन्धः ।

पितृमातृसहोदरदारापत्य- गृहारामक्षेत्रममता संसारावरणसङ्कल्पो बन्धः । कर्तृत्वाद्यहङ्कारसङ्कल्पो बन्धः ।

अणिमाद्यष्टैश्व- र्याशासिद्धसङ्कल्पो बन्धः । देवमनुष्याद्युपासना- कामसङ्कल्पो बन्धः । यमाद्यष्टाङ्गयोगसङ्कल्पो बन्धः ।

वर्णाश्रमधर्मकर्मसङ्कल्पो बन्धः । आज्ञाभयसंशयात्मगुणसङ्कल्पो बन्धः । यागव्रत- तपोदानविधिविधानज्ञानसम्भवो बन्धः ।

केवलमोक्षा- पेक्षासङ्कल्पो बन्धः । सङ्कल्पमात्रसंभवो बन्धः । मोक्ष इति च नित्यानित्यवस्तुविचारादनित्यसंसारसुख- दुःखविषयसमस्तक्षेत्रममताबन्धक्षयो मोक्षः ।

उपास्य इति च सर्वशरीरस्थचैतन्यब्रह्मप्रापको गुरुरुपास्यः । शिष्य इति च विद्याध्वस्तप्रपञ्चावगाहितज्ञानावशिष्टं ब्रह्मैव शिष्यः ।

विद्वानिति च सर्वान्तरस्थस्वसंविद्रूपवि- द्विद्वान् । मूढ इति च कर्तृत्वाद्यहङ्कारभावारूढो मूढः ।

आसुरमिति च ब्रह्मविष्ण्वीशानेन्द्रादीना- मैश्वर्यकामनया निरशनजपाग्निहोत्रादि- ष्वन्तरात्मानं सन्तापयति चात्युग्रराग- द्वेषविहिंसा दम्भाद्यपेक्षितं तप आसुरम् ।

तप इति च ब्रह्म सत्यं जगन्मिथ्येत्यपरोक्ष- ज्ञानाग्निना ब्रह्माद्यैश्वर्याशासिद्धसङ्कल्प- बीजसन्तापं तपः ।

परमं पदमिति च प्राणेन्द्रियाद्यन्तःकरणगुणादेः परतरं सच्चिदानन्दमयं नित्यमुक्तब्रह्मस्थानं परमं पदम् ।

ग्राह्यमिति च देशकालवस्तु- परिच्छेदराहित्यचिन्मात्रस्वरूपं ग्राह्यम् । अग्राह्यमिति च स्वस्वरूपव्यतिरिक्तमायामय- बुद्धीन्द्रियगोचरजगत्सत्यत्वचिन्तनमग्राह्यम् ।

संन्यासीति च सर्वधर्मान्परित्यज्य निर्ममो निरहङ्कारो भूत्वा ब्रह्मेष्टं शरणमुपगम्य तत्त्वमसि अहं ब्रह्मास्मि सर्वं खल्विदं

ब्रह्म नेह नानास्ति किञ्चनेत्यादिमहावाक्यार्था- नुभवज्ञानाद्ब्रह्मैवाहमस्मीति निश्चित्य निर्विकल्पसमाधिना स्वतन्त्रो

यतिश्चरति स संन्यासी स मुक्तः स पूज्यः स योगी स परमहंसः सोऽवधूतः स ब्राह्मण इति ।

इदं निरालम्बोपनिषदं योऽधीते गुर्वनुग्रहतः सोऽग्निपूतो भवति स वायुपूतो भवति न स पुनरावर्तते न स पुनरावर्तते पुनर्नाभिजायते पुनर्नाभिजायत इत्युपनिषत् ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ इति निरालम्बोपनिषत्समाप्ता ॥

Translation - भाषांतर
N/A

N/A
Last Updated : 2008-12-14T13:08:53.5600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

high handed

  • अरेरावीचा 
RANDOM WORD

Did you know?

विवाह जमवतांना गुणमेलनाचे महत्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.