TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
क्षुरिकोपनिषत्

क्षुरिकोपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.

Upanishad are highly philosophical and metaphysical part of Vedas.


क्षुरिकोपनिषत्

॥ क्षुरिकोपनिषत् ॥ कृष्ण यजुर्वेद,योग उपनिषद्

॥ कैवल्यनाडीकान्तस्थपराभूमिनिवासिनम् । क्षुरिकोपनिषद्योगभासुरं राममाश्रये ॥

ॐ सहनाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ क्षुरिकां सम्प्रवक्ष्यामि धारणां योगसिद्धये । यं प्राप्य न पुनर्जन्म योगयुक्तस्य जायते ॥१॥

वेदतत्त्वार्थविहितं यथोक्तं हि स्वयंभुवा । निःशब्दं देशमास्थाय तत्रासनमवस्थितः ॥२॥

कूर्मोऽङ्गानीव संहृत्य मनो हृदि निरुध्य च । मात्राद्वादशयोगेन प्रणवेन शनैः शनैः ॥३॥

पूरयेत्सर्वमात्मानं सर्वद्वारं निरुध्य च । उरोमुखकटिग्रीवं किञ्चिद्भूदयमुन्नतम् ॥४॥

प्राणान्सन्धारयेत्तस्मिनासाभ्यन्तरचारिणः । भूत्वा तत्र गतः प्राणः शनैरथ समुत्सृजेत् ॥५॥

स्थिरमात्रादृढं कृत्वा अङ्गुष्ठेन समाहितः । द्वे गुल्फे तु प्रकुर्वीत जङ्घे चैव त्रयस्त्रयः ॥६॥

द्वे जानुनी तथोरुभ्यां गुदे शिश्ने त्रयस्त्रयः । वायोरायतनं चात्र नाभिदेशे समाश्रयेत् ॥७॥

तत्र नाडी सुषुम्ना तु नाडीभिर्बहुभिर्वृता ॥ अणु रक्तश्च पीताश्च कृष्णास्ताम्रा विलोहिताः ॥८॥

अतिसूक्ष्मां च तन्वीं च शुक्लां नाडीं समाश्रयेत् । तत्र संचारयेत्प्राणानूर्णनाभीव तन्तुना ॥९॥

ततो रक्तोत्पलाभासं पुरुषायतनं महत् दहरं पुण्डरीकं तद्वेदान्तेषु निगद्यते ॥१०॥

तद्भित्त्वा कण्ठमायाति तां नाडीं पूरयन्यतः । मनसस्तु क्षुरं गृह्य सुतीक्ष्णं बुद्धिनिर्मलम् ॥११॥

पादस्योपरि यन्मध्ये तद्रूपं नाम कृन्तयेत् । मनोद्वारेण तीक्ष्णेन योगमाश्रित्य नित्यशः ॥१२॥

इन्द्रवज्र इति प्रोक्तं मर्मजङ्घानुकीर्तनम् । तद्ध्यानबलयोगेन धारणाभिर्निकृन्तयेत् ॥१३॥

ऊर्वोर्मध्ये तु संस्थाप्य मर्मप्राणविमोचनम् । चतुरभ्यासयोगेन छिन्देदनभिशङ्कितः ॥१४॥

ततः कण्ठान्तरे योगी समूहन्नाडिसञ्चयम् । एकोत्तरं नाडिशतं तासां मध्ये वराः स्मृताः ॥१५॥

सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी । इडा तिष्ठति वामेन पिङ्गला दक्षिणेन च ॥१६॥

तयोर्मध्ये वरं स्थानं यस्तं वेद स वेदवित् । द्वासप्ततिसहस्राणि प्रतिनाडीषु तैतिलम् ॥१७॥

छिद्यते ध्यानयोगेन सुषुम्नैका न छिद्यते । योगनिर्मलधारेण क्षुरेणानलवर्चसा ॥१८॥

छिन्देन्नाडीशतं धीरः प्रभावादिह जन्मनि । जातीपुष्पसमायोगैर्यथा वास्यति तैतिलम् ॥१९॥

एवं शुभाशुभैर्भावैः सा नाडीति विभावयेत् । तद्भाविताः प्रपद्यन्ते पुनर्जन्मविवर्जिताः ॥२०॥

तपोविजितचित्तस्तु निःशब्दं देशमास्थितः । निःसङ्गतत्त्वयोगज्ञो निरपेक्षः शनैः शनैः ॥२१॥

पाशं छित्त्वा यथा हंसो निर्विशङ्कं खमुत्क्रमेत् । छिन्नपाशस्तथा जीवः संसारं तरते सदा ॥२२॥

यथा निर्वाणकाले तु दीपो दग्ध्वा लयं व्रजेत् । तथा सर्वाणि कर्माणि योगी दग्ध्वा लयं व्रजेत् ॥२३॥

प्राणायामसुतीक्ष्णेन मात्राधारेण योगवित् । वैराग्योपलघृष्टेन छित्त्वा तं तु न बध्यते ॥२४॥

अमृतत्वं समाप्नोति यदा कामात्स मुच्यते । सर्वेषणाविनिर्मुक्तश्छित्त्वा तं तु न बध्यत इत्युपनिषत् ॥

॥ ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ ॥ इति क्षुरिकोपनिषत्समाप्ता ॥

Translation - भाषांतर
N/A

N/A
Last Updated : 2008-12-14T13:08:59.1600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पटवारी

  • m  An officer of a village. The office corresponds with that of कुळकर्णी. 
RANDOM WORD

Did you know?

भक्त आणि भक्ती या संकल्पना स्पष्ट कराव्यात.
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.