संस्कृत सूची|संस्कृत साहित्य|उपनिषद| गरुडोपनिषत् उपनिषद बृहज्जाबालोपनिषत् जाबालदर्शनोपनिषत् कौषीतकिब्राह्मणोपनिषत् महानारायणोपनिषत् महोपनिषत् नारदपरिव्राजकोपनिषत् पैङ्गलोपनिषत् श्रीशिवोपनिषत् श्वेताश्वतरोपनिषत् सुबालोपनिषत् तेजोबिन्दूपनिषत् त्रिपाद्विभूतिमहानारायणोपनिषत् वराहोपनिषत् योगकुण्डल्युपनिषत् योगशिक्षोपनिषद् आरुणिकोपनिषत् आत्मपूजोपनिषद् बह्वृच उपनिषत् ब्रह्मबिन्दूपनिषत् चाक्षुषोपनिषत् गायत्रीरहस्योपनिषत् गायत्र्युपनिषत् गोरक्ष उपनिषत् जाबाल्युपनिषत् कैवल्योपनिषत् कालाग्निरुद्रोपनिषत् कलिसन्तरन कौलोपनिषत् क्षुरिकोपनिषत् कुण्डिकोपनिषत् मैत्रेय्युपनिषत् मुक्तिका उपनिषद् पञ्चब्रह्मोपनिषत् परमहंस-परिव्राजक प्राणाग्निहोत्रोपनिषत् रुद्रहृदयोपनिषत् श्रीरामकृष्ण परमहंसोपनिषदं रुद्राक्षजाबालोपनिषत् याज्ञिक्युपनिषद् भस्मजाबालोपनिषत् भिक्षुकोपनिषत् ब्रह्मबिन्दु दत्तात्रेयोपनिषत् मन्त्रिकोपनिषत् मुद्गलोपनिषत् मुक्तिकोपनिषत् नारायणोपनिषद् रुद्रहृदयोपनिषत् रुद्राक्षजाबालोपनिषत् सामरहस्योपनिषत् संन्यासोपनिषत् सर्वसारोपनिषत् सावित्र्युपनिषत् शाण्डिल्योपनिषत् शरभोपनिषत् शाट्यायनीयोपनिषत् शुकरहस्योपनिषत् स्कन्दोपनिषत् सूर्योपनिषत् वज्रसूचिका उपनिषद् वास्तुसूत्रोपनिषद् वासुदेवोपनिषत् योगचूडामण्युपनिषत् योगतत्त्वोपनिषत् त्रिशिखिब्राह्मणोपनिषत् अक्षमालिकोपनिषत् अक्ष्युपनिषत् अथर्वशिखोपनिषत् अथर्वशिरउपनिषद् अमृत-बिन्दु उपनिषद् अमृतनादोपनिषत् अवधूतोपनिषत् अव्यक्तोपनिषत् आत्मोपनिषत् आरुणेयोपनिषद् आर्षेयोपनिषत् इतिहासोपनिषत् ईशावास्योपनिषद्भाष्यम् एकाक्शरोपनिश्हत् कठरुद्रोपनिषत् कलिसन्तरणोपनिषत् गरुडोपनिषत् गर्भोपनिषद् गणपत्यथर्वशीर्षोपनिषत् तारसारोपनिषत् त्रिपुरातापिन्युपनिषत् दक्षिणामूर्त्युपनिषत् देवी उपनिषत् नादबिन्दूपनिषत् निरालम्बोपनिषत् निरुक्तोपनिषत् निर्वाणोपनिषत् पञ्चब्रह्मोपनिषत् पाशुपतब्रह्मोपनिषत् प्रणवोपनिषत् बह्वृचोपनिषत् ब्रह्मविद्योपनिषत् ब्रह्मोपनिषद् याज्ञवल्क्योपनिषत् सीतोपनिषत् सौभाग्यलक्ष्म्युपनिषत् हयग्रीवोपनिषत् अन्नपूर्णोपनिषत् आत्मबोधोपनिषत् ऐतरेयोपनिषद् कृष्णोपनिषत् कौषीतकिब्राह्मणोपनिषत् गोपालतापिन्युपनिषत् गोपालोत्तरतापिन्युपनिषद तैत्तरीयोपनिषद्भाष्यम् ब्राहृनन्दवल्ली भृगुवल्ली नारायणपूर्वतापिनीयोपनिषत् नारायणोत्तरतापिनीयोपनिषत् नारायणोपनिषद् नृसिंहतापिन्युपनिषत् नृसिंहोत्तरतापिन्युपनिषत् सरस्वतीरहस्योपनिषत् सुबालोपनिषत् ईशोपनिषत् केन उपनिषद् कठोपनिषत् प्रश्नोपनिषत् मुण्डकोपनिषत् माण्डुक्योपनिषत् तैत्तिरीयोपनिषत् ऐतरेय उपनिषत् छान्दोग्योऽपनिषद् ब्रह्मोद्पनिष जाबालोपनिषत् हंसोपनिषत् योग-कुण्डलिनि उपनिषद् सर्वसारोपनिषत् रामरहस्योपनिषत् रामतापिन्युपनिषत् वासुदेवोपनिषत् शाण्डिल्योपनिषत् शारीरकोपनिषत् योगशिखोपनिषत् संन्यासोपनिषत् सावित्र्युपनिषद् मैत्रायण्युपनिषत् मुद्गलोपनिषत् महावाक्योपनिषत् महानारायणोपनिषत् मन्त्रिकोपनिषत् मण्डलब्राह्मणोपनिषत् भिक्षुकोपनिषत् भावोपनिषत् बृहज्जाबालोपनिषत् पैङ्गलोपनिषत् सुबालोपनिषत् आरुणिकोपनिषत् बह्वृच उपनिषत् सरस्वतीरहस्योपनिषत् गरुडोपनिषत् श्वेताश्वतरोपनिषत् दत्तात्रेयोपनिषत् हयग्रीवोपनिषत् शाट्यायनीयोपनिषत् वराहोपनिषत् याज्ञवल्क्योपनिषत् कृष्णोपनिषत् मैत्रेय्युपनिषत् नृसिंहतापिन्युपनिषत् गोपालतापिन्युपनिषत् वज्रसूचिका उपनिषद् शरभोपनिषत् आत्मबोधोपनिषत् त्रिशिखिब्राह्मणोपनिषत् नादबिन्दूपनिषत् ब्रह्मविद्योपनिषत् योगतत्त्वोपनिषत् दक्षिणामूर्त्युपनिषत् ध्यानबिन्दूपनिषत् योगचूडामण्युपनिषत् अक्ष्युपनिषत् अथर्वशिखोपनिषत् अथर्वशिरउपनिषत् अध्यात्मोपनिषत् अमृतनादोपनिषत् अमृतबिन्दु उपनिषद् तेजोबिन्दूपनिषत् पाशुपतब्रह्मोपनिषत् परमहंसोपनिषत् परब्रह्मोपनिषत् निर्वाणोपनिषत् देवी उपनिषत् त्रिपुरोपनिषत् निरालम्बोपनिषत् तुरीयातीतोपनिषत् तारसारोपनिषत् गर्भोपनिषत् गणपत्युपनिषत् क्षुरिकोपनिषत् कौषीतकिब्राह्मणोपनिषत् कठरुद्रोपनिषत् एकाक्षरोपनिषत् अव्यक्तोपनिषत् अवधूतोपनिषत् अन्नपूर्णोपनिषत् अक्षमालिकोपनिषत् अद्वयतारकोपनिषत् आत्मोपनिषत् त्रिपुरातापिन्युपनिषत् गरुडोपनिषत् आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic wisdom. Tags : sanskritupanishadvedउपनिषदवेदसंस्कृत गरुडोपनिषत् Translation - भाषांतर विषं ब्रह्मातिरिक्तं स्यादमृतं ब्रह्ममात्रकम् ।ब्रह्मातिरिक्तं विषवद्ब्रह्ममात्रं खगेडहम् ॥ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥भद्रं पश्येमाक्षभिर्यजत्राः ॥स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ॥व्यशेम देवहितं यदायुः ॥स्वस्ति न इन्द्रो वृद्धश्रवाः ॥स्वस्ति नः पूषा विश्ववेदाः ॥स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥स्वस्ति नो बृहस्पतिर्दधातु ॥ॐ शान्तिः शान्तिः शान्तिः ॥हरिः ॐ ॥गारुडब्रह्मविद्यां प्रवक्ष्यामि यां ब्रह्मा विद्यांनारदाय प्रोवाच नारदो बृहत्सेनाय बृहत्सेन इन्द्राय इन्द्रोभरद्वाजाय भरद्वाजो जीवत्कामेभ्यः शिष्येभ्यः प्रायच्छत् ।अस्याः श्रीमहागरुडब्रह्मविद्याया ब्रह्मा ऋषिः ।गायत्री छन्दः ।श्रीभगवान्महागरुडो देवता ।श्रीमहागरुडप्रीत्यर्थे ममसकलविषविनाशनार्थे जपे विनियोगः ।ॐ नमो भगवते अङ्गुष्ठाभ्यां नमः ।श्री महागरुडाय तर्जनीभ्यां स्वाहा ।पक्षीन्द्राय मध्यमाभ्यां वषट् ।श्रीविष्णुवल्लभाय अनामिकाभ्यां हुम् ।त्रैलोक्य परिपूजिताय कनिष्ठिकाभ्यां वौषट् ।उग्रभयङ्करकालानलरूपाय करतलकरपृष्ठाभ्यां फट् ।एवं हृदयादिन्यासः ।भूर्भुवः सुवरोमिति दिग्बन्धः ।ध्यानम् ।स्वस्तिको दक्षिणं पादं वामपादं तु कुञ्चितम् ।प्राञ्जलीकृतदोर्युग्मं गरुडं हरिवल्लभम् ॥१॥अनन्तो वामकटको यज्ञसूत्रं तु वासुकिः ।तक्षकाः कटिसूत्रं तु हारः कार्कोट उच्यते ॥२॥पद्मो दक्षिणकर्णे तु महापद्मस्तु वामके ।शङ्खः शिरःप्रदेशे तु गुलिकस्तु भुजान्तरे ॥३॥पौण्ड्रकालिकनागाभ्यां चामराभ्यां स्वीजितम् ।एलापुत्रकनागाद्यैः सेव्यमानं मुदान्वितम् ॥४॥कपिलाक्षं गरुत्मन्तं सुवर्णसदृशप्रभम् ।दीर्घबाहुं बृहत्स्कन्धं नादाभरणभूषितम् ॥५॥आजानुतः सुवर्णाभमाकट्योस्तुहिनप्रभम् ।कुङ्कुमारुणमाकण्ठं शतचन्द्र निभाननम् ॥६॥नीलाग्रनासिकावक्त्रं सुमहच्चारुकुण्डलम् ।दंष्ट्राकरालवदनं किरीटमुकुटोज्ज्वलम् ॥७॥कुङ्कुमाअरुणसर्वाङ्गं कुन्देन्दुधवलाननम् ।विष्णुवाह नमस्तुभ्यं क्षेमं कुरु सदा मम ॥८॥एवं ध्यायेत्त्रिसन्ध्यासु गरुडं नागभूषणम् ।विषं नाशयते शीघ्रं तूलरशिमिवानलः ॥९॥ओमीमों नमो भगवते श्रीमहागरुडाय पक्षीन्द्रायविष्णुवल्लभाय त्रैलोक्यपरिपूजिताय उग्रभयंकरकालानलरूपायवज्रनखाय वज्रतुण्डाय वज्रदन्ताय वज्रदंष्ट्रायवज्रपुच्छाय वज्रपक्षालक्षितशरीराय ओमीकेह्येहिश्रीमहागरुडाप्रतिशासनास्मिन्नाविशाविश दुष्टानांविषं दूषयदूषय स्पृष्टानां नाशयनाशयदन्दशूकानां विषं दारयदारय प्रलीनं विषंप्रणाशयप्रणाशय सर्वविषं नाशयनाशय हनहनदहदह पचपच भस्मीकुरुभस्मीकुरु हुं फट् स्वाहा ॥चन्द्रमण्डलसंकाश सूर्यमण्डलमुष्टिक ।पृथ्वीमण्डलमुद्राङ्ग श्रीमहागरुडाय विषं हरहर हुं फट् स्वाहा ॥ॐ क्षिप स्वाहा ॥ओमीं सचरति सचरति तत्कारी मत्कारी विषाणां च विषरूपिणीविषदूषिणी विषशोषणी विषनाशिनी विषहारिणीहतं विषं नष्टं विषमन्तःप्रलीनं विषं प्रनष्टंविषं हतं ते ब्रह्मणा विषं हतमिन्द्रस्य वज्रेण स्वाहा ॥ॐ नमो भगवते महागरुडाय विष्णुवाहनायत्रैलोक्यपरिपूजिताय वज्रनखवज्रतुण्डाय वज्रपक्षालंकृत-शरीराय एह्येहि महागरुड विषं छिन्धिच्छिन्धिआवेशयावेशय हुं फट् स्वाहा ॥सुपर्णोऽसि गरुत्मान्त्रिवृत्ते शिरो गायत्रं चक्षुः स्तोम आत्मासाम ते तनूर्वामदेव्यं बृहद्रथन्तरे पक्षौ यज्ञायज्ञियंपुच्छं छन्दांस्यङ्गानि धिष्णिया शफा यजूंषि नाम ॥सुपर्णोऽसि गरुत्मान्दिवं गच्छ सुवः पत ओमीं ब्रह्मविद्या-ममावास्यायां पौर्णमास्यां पुरोवाच सचरति सचरतितत्कारी मत्कारी विषनाशिनी विषदूषिणी विषहारिणी हतंविषं नष्टं विषं प्रनष्टं विषं हतमिन्द्रस्य वज्रेण स्वाहा ॥तस्र्यम् ।यद्यनन्तकदूतोऽसि यदि वानन्तकः स्वयं सचरति सचरतितत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं नष्टंविषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्यवज्रेण स्वाहा ॥यदि वाअसुकिदूतोऽसि यदि वा वासुकिः स्वयं सचरति सचरतितत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषंनष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणाविषमिन्द्रस्य वज्रेण स्वाहा यदि वा तक्षकः स्वयं सचरतिसचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषंनष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ब्रह्मणाविषमिन्द्रस्य वज्रेण स्वाहा ॥यदि कर्कोटकदूतोऽसि यदि वा कर्कोटकः स्वयं सचरति सचरतितत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं नष्टं विषंहतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥यदि पद्मकदूतोऽसि यदि वा पद्मकः स्वयं सचरति सचरतितत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषंनष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणाविषमिन्द्रस्य वज्रेण स्वाहा ॥यदि महापद्मकदूतोऽसि यदि वा महापद्मकः स्वयंसचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतंविषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणाविषमिन्द्रस्य वज्रेण स्वाहा ॥यदि शङ्खकदूतोऽसि यदि वा शङ्खकः स्वयंसचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणीहतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषंहतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥यदि गुलिकदूतोऽसि यदि वा गुलिकः स्वयं सचरति सचरतितत्कारी मत्कारी विषनाशिनी विषदूषिणी विषहारिणीहतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषंहतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥यदि पौण्ड्रकालिकदूतोऽसि यदि वा पौण्ड्रकालिकः स्वयंसचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणीविषहारिणी हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेणविषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥यदि नागकदूतोऽसि यदि वा नागकः स्वयं सचरति सचरतितत्कारी मत्कारी विषनाशिनी विषदूषिणी विषहारिणी हतंविषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं तेब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥यदि लूतानां प्रलूतानां यदि वृश्चिकानां यदि घोटकानांयदि स्थावरजङ्गमानां सचरति सचरति तत्कारी मत्कारीविषनाशिनी विषदूषिणी विषहारिणी हतं विषं नष्टंविषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्यवज्रेण स्वाहा ॥अनन्तवासुकितक्षककर्कोटकपद्मकमहापद्मक-शङ्खकगुलिकपौण्ड्रकालिकनागक इत्येषां दिव्यानांमहानागानां महानागादिरूपाणां विषतुण्डानां विषदन्तानांविषदंष्ट्राणां विषाङ्गानां विषपुच्छानां विश्वचाराणांवृश्चिकानां लूतानां प्रलूतानां मूषिकाणां गृहगौलिकानांगृहगोधिकानां घ्रणासानां गृहगिरिगह्वरकालानलवल्मीकोद्भूतानांतार्णानां पार्णानां काष्ठदारुवृक्षकोटरस्थानांमूलत्वग्दारुनिर्यासपत्रपुष्पफलोद्भूतानां दुष्टकीटकपिश्वान-मार्जारजंबुकव्याघ्रवराहाणां जरायुजाण्डजोद्भिज्जस्वेदजानांशस्त्रबाणक्षतस्फोटव्रणमहाव्रणकृतानां कृत्रिमाणामन्येषांभूतवेतालकूष्माण्डपिशाचप्रेतराक्षसयक्षभयप्रदानांविषतुण्डदंष्ट्रानां विषाङ्गानां विषपुच्छानां विषाणांविषरूपिणी विषदूषिणी विषशोषिणी विषनाशिनी विषहारिणीहतं विषं नष्टं विषमन्तःप्रलीनं विषं प्रनष्टं विषं हतं तेब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ।य इमां ब्रह्मविद्याममावास्यायांपठेच्छृणुयाद्वा यावज्जीवं न हिंसन्ति सर्पाः ।अष्टौ ब्राह्मणान्ग्राहयित्वा तृणेन मोचयेत् ।शतं ब्राह्मणान्ग्राहयित्वा चक्षुषा मोचयेत् ।सहस्रं ब्राह्मणान्ग्राहयित्वा मनसा मोचयेत् ।सर्पाञ्जले न मुञ्चन्ति ।तृणे न मुञ्चन्ति ।काष्ठे न मुञ्चन्तीत्याह भगवान्ब्रह्मेत्युपनिषत् ॥ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥भद्रं पश्येमाक्षभिर्यजत्राः ॥स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ॥व्यशेम देवहितं यदायुः ॥स्वस्ति न इन्द्रो वृद्धश्रवाः ॥स्वस्ति नः पूषा विश्ववेदाः ॥स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥स्वस्ति नो बृहस्पतिर्दधातु ॥ॐ शान्तिः शान्तिः शान्तिः ॥हरिः ॐ तत्सत् ॥इति श्रीगारुडोपनिषत्समाप्ता ॥ N/A References : N/A Last Updated : January 11, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP