संस्कृत सूची|संस्कृत साहित्य|उपनिषद| अव्यक्तोपनिषत् उपनिषद बृहज्जाबालोपनिषत् जाबालदर्शनोपनिषत् कौषीतकिब्राह्मणोपनिषत् महानारायणोपनिषत् महोपनिषत् नारदपरिव्राजकोपनिषत् पैङ्गलोपनिषत् श्रीशिवोपनिषत् श्वेताश्वतरोपनिषत् सुबालोपनिषत् तेजोबिन्दूपनिषत् त्रिपाद्विभूतिमहानारायणोपनिषत् वराहोपनिषत् योगकुण्डल्युपनिषत् योगशिक्षोपनिषद् आरुणिकोपनिषत् आत्मपूजोपनिषद् बह्वृच उपनिषत् ब्रह्मबिन्दूपनिषत् चाक्षुषोपनिषत् गायत्रीरहस्योपनिषत् गायत्र्युपनिषत् गोरक्ष उपनिषत् जाबाल्युपनिषत् कैवल्योपनिषत् कालाग्निरुद्रोपनिषत् कलिसन्तरन कौलोपनिषत् क्षुरिकोपनिषत् कुण्डिकोपनिषत् मैत्रेय्युपनिषत् मुक्तिका उपनिषद् पञ्चब्रह्मोपनिषत् परमहंस-परिव्राजक प्राणाग्निहोत्रोपनिषत् रुद्रहृदयोपनिषत् श्रीरामकृष्ण परमहंसोपनिषदं रुद्राक्षजाबालोपनिषत् याज्ञिक्युपनिषद् भस्मजाबालोपनिषत् भिक्षुकोपनिषत् ब्रह्मबिन्दु दत्तात्रेयोपनिषत् मन्त्रिकोपनिषत् मुद्गलोपनिषत् मुक्तिकोपनिषत् नारायणोपनिषद् रुद्रहृदयोपनिषत् रुद्राक्षजाबालोपनिषत् सामरहस्योपनिषत् संन्यासोपनिषत् सर्वसारोपनिषत् सावित्र्युपनिषत् शाण्डिल्योपनिषत् शरभोपनिषत् शाट्यायनीयोपनिषत् शुकरहस्योपनिषत् स्कन्दोपनिषत् सूर्योपनिषत् वज्रसूचिका उपनिषद् वास्तुसूत्रोपनिषद् वासुदेवोपनिषत् योगचूडामण्युपनिषत् योगतत्त्वोपनिषत् त्रिशिखिब्राह्मणोपनिषत् अक्षमालिकोपनिषत् अक्ष्युपनिषत् अथर्वशिखोपनिषत् अथर्वशिरउपनिषद् अमृत-बिन्दु उपनिषद् अमृतनादोपनिषत् अवधूतोपनिषत् अव्यक्तोपनिषत् आत्मोपनिषत् आरुणेयोपनिषद् आर्षेयोपनिषत् इतिहासोपनिषत् ईशावास्योपनिषद्भाष्यम् एकाक्शरोपनिश्हत् कठरुद्रोपनिषत् कलिसन्तरणोपनिषत् गरुडोपनिषत् गर्भोपनिषद् गणपत्यथर्वशीर्षोपनिषत् तारसारोपनिषत् त्रिपुरातापिन्युपनिषत् दक्षिणामूर्त्युपनिषत् देवी उपनिषत् नादबिन्दूपनिषत् निरालम्बोपनिषत् निरुक्तोपनिषत् निर्वाणोपनिषत् पञ्चब्रह्मोपनिषत् पाशुपतब्रह्मोपनिषत् प्रणवोपनिषत् बह्वृचोपनिषत् ब्रह्मविद्योपनिषत् ब्रह्मोपनिषद् याज्ञवल्क्योपनिषत् सीतोपनिषत् सौभाग्यलक्ष्म्युपनिषत् हयग्रीवोपनिषत् अन्नपूर्णोपनिषत् आत्मबोधोपनिषत् ऐतरेयोपनिषद् कृष्णोपनिषत् कौषीतकिब्राह्मणोपनिषत् गोपालतापिन्युपनिषत् गोपालोत्तरतापिन्युपनिषद तैत्तरीयोपनिषद्भाष्यम् ब्राहृनन्दवल्ली भृगुवल्ली नारायणपूर्वतापिनीयोपनिषत् नारायणोत्तरतापिनीयोपनिषत् नारायणोपनिषद् नृसिंहतापिन्युपनिषत् नृसिंहोत्तरतापिन्युपनिषत् सरस्वतीरहस्योपनिषत् सुबालोपनिषत् ईशोपनिषत् केन उपनिषद् कठोपनिषत् प्रश्नोपनिषत् मुण्डकोपनिषत् माण्डुक्योपनिषत् तैत्तिरीयोपनिषत् ऐतरेय उपनिषत् छान्दोग्योऽपनिषद् ब्रह्मोद्पनिष जाबालोपनिषत् हंसोपनिषत् योग-कुण्डलिनि उपनिषद् सर्वसारोपनिषत् रामरहस्योपनिषत् रामतापिन्युपनिषत् वासुदेवोपनिषत् शाण्डिल्योपनिषत् शारीरकोपनिषत् योगशिखोपनिषत् संन्यासोपनिषत् सावित्र्युपनिषद् मैत्रायण्युपनिषत् मुद्गलोपनिषत् महावाक्योपनिषत् महानारायणोपनिषत् मन्त्रिकोपनिषत् मण्डलब्राह्मणोपनिषत् भिक्षुकोपनिषत् भावोपनिषत् बृहज्जाबालोपनिषत् पैङ्गलोपनिषत् सुबालोपनिषत् आरुणिकोपनिषत् बह्वृच उपनिषत् सरस्वतीरहस्योपनिषत् गरुडोपनिषत् श्वेताश्वतरोपनिषत् दत्तात्रेयोपनिषत् हयग्रीवोपनिषत् शाट्यायनीयोपनिषत् वराहोपनिषत् याज्ञवल्क्योपनिषत् कृष्णोपनिषत् मैत्रेय्युपनिषत् नृसिंहतापिन्युपनिषत् गोपालतापिन्युपनिषत् वज्रसूचिका उपनिषद् शरभोपनिषत् आत्मबोधोपनिषत् त्रिशिखिब्राह्मणोपनिषत् नादबिन्दूपनिषत् ब्रह्मविद्योपनिषत् योगतत्त्वोपनिषत् दक्षिणामूर्त्युपनिषत् ध्यानबिन्दूपनिषत् योगचूडामण्युपनिषत् अक्ष्युपनिषत् अथर्वशिखोपनिषत् अथर्वशिरउपनिषत् अध्यात्मोपनिषत् अमृतनादोपनिषत् अमृतबिन्दु उपनिषद् तेजोबिन्दूपनिषत् पाशुपतब्रह्मोपनिषत् परमहंसोपनिषत् परब्रह्मोपनिषत् निर्वाणोपनिषत् देवी उपनिषत् त्रिपुरोपनिषत् निरालम्बोपनिषत् तुरीयातीतोपनिषत् तारसारोपनिषत् गर्भोपनिषत् गणपत्युपनिषत् क्षुरिकोपनिषत् कौषीतकिब्राह्मणोपनिषत् कठरुद्रोपनिषत् एकाक्षरोपनिषत् अव्यक्तोपनिषत् अवधूतोपनिषत् अन्नपूर्णोपनिषत् अक्षमालिकोपनिषत् अद्वयतारकोपनिषत् आत्मोपनिषत् त्रिपुरातापिन्युपनिषत् अव्यक्तोपनिषत् आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic wisdom. Tags : sanskritupanishadvedउपनिषदवेदसंस्कृत अव्यक्तोपनिषत् Translation - भाषांतर स्वाज्ञानासुरराड्ग्रासस्वज्ञाननरकेसरी ।प्रतियोगिविनिर्मुक्तं ब्रह्ममात्रं करोतु माम् ॥ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथोबलमिन्द्रियाणि च ॥सर्वाणि सर्वं ब्रह्मोपनिषदं माहंब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्तेमयि सन्तु ते मयि सन्तु ॥ॐ शान्तिः शान्तिः शान्तिः ॥हरिः ॐ । पुरा किलेदं न किंचन्नासीन्न द्यौर्नान्तरिक्षंन पृथिवी केवलं ज्योतीरूपमनाद्यनन्तमनण्वस्थूलरूपमरूपंरूपवदविज्ञेयं ज्ञानरूपमानन्दमयमासीत् ।तदनन्यत्तद्द्वेधाभूद्धरितमेकं रक्तमपरम् ।तत्र यद्रक्तं तत्पुंसो रूपमभूत् । यद्धरितं तन्मायायाः ।तौ समगच्छतः । तयोर्वीर्यमेवमनन्दत् । तदवर्धत ।तदण्डमभूधैमम् । तत्परिणममानमभूत् । ततःपरमेष्ठी व्यजायत । सोऽभिजिज्ञासत किं मे कुलं किं मेकृत्यमिति । तं ह वागदृश्यमानाभ्युवाच भोभो प्रजापतेत्वमव्यक्तादुत्पन्नोऽसि व्यक्तं ते कृत्यमिति । किमव्यक्तंयस्मादहमासिषम् । किं तद्व्यक्तं यन्मे कृत्यमिति ।साब्रवीदविज्ञेयं हि तत्सौम्य तेजः । यदविज्ञेयं तदव्यक्तम् ।तच्चेज्जिज्ञाससि मावगच्छेति । स होवाच कैषा त्वंब्रह्मवाग्यदसि शंसात्मानमिति । सा त्वब्रवीत्तपसा मांविजिज्ञासस्वेति । स ह सहस्रं समा ब्रह्मचर्यमध्युवासाध्युवास ॥१॥अथापश्यदृचमानुष्टुभीं परमां विद्यांयस्याङ्गान्यन्ये मन्त्राः । यत्र ब्रह्म प्रतिष्ठितम् ।विश्वेदेवाः प्रतिष्ठिताः । यस्तां न वेद किमन्यैर्वेदैःकरिष्यति । तां विदित्वा स च रक्तं जिज्ञासयामास ।तामेवमनूचानां गायन्नासिष्ट । सहस्रं समाआद्यन्तनिहितोङ्कारेण पदान्यगायत् । सहस्रंसमास्तथैवाक्षरशः । ततोऽपश्यज्ज्योतिर्मयंश्रियालिङ्गितं सुपर्णरथं शेषफणाच्छदितमौलिंमृगमुखं नरवपुषं शशिसूर्यहव्यवाहनात्मकनयनत्रयम् ।ततः प्रजापतिः प्रणिपपात नमोनम इति । तथैवर्चाथ तमस्तौत् ।उग्रमित्याह उग्रः खलु वा एष मृगरूपत्वात् । वीरमित्याहवीरो वा एष वीर्यवत्त्वात् । महाविष्णुमित्याह महतां वा अयंमहान्रोदसी व्याप्य स्थितः । ज्वलन्तमित्याह ज्वलन्निव खल्वसाववस्थितः ।सर्वतोमुखमित्याह सर्वतः खल्वयं मुखवान्विश्वरूपत्वात् ।नृसिंहमित्याह यथा यजुरेवैतत् । भीषणमित्याह भीषा वाअस्मादादित्य उदेति भीतश्चन्द्रमा भीतो वायुर्वाति भीतोऽग्निर्दहतिभीतः पर्जन्यो वर्षति । भद्रमित्याह भद्रः खल्वयं श्रिया जुष्टः ।मृत्योर्मृत्युमित्याह मृत्योर्वा अयं मृत्युरमृतत्वं प्रजानामन्नादानाम् ।नमामीत्याह यथा यजुरेवैतत् । अहमित्याह यथा यजुरेवैतत् ॥२॥अथ भगवांस्तमब्रवीत्प्रजापते प्रीतोऽहं किं तवेप्सितंतदाशंसेति । स होवाच भगवन्नव्यक्तादुत्पन्नोऽस्मिव्यक्तं मम कृत्यमिति पुराश्रावि । तत्राव्यक्तं भवानित्यज्ञायिव्यक्तं मे कथयेति । व्यक्तं वै विश्वं चराचरात्मकम् ।यद्व्यज्यते तद्व्यक्तस्य व्यक्तत्वमिति । स होवाच न शक्नोमिजगत्स्रष्टुमुपायं मे कथयेति । तमुवाच पुरुषः प्रजापतेशृणु सृष्टेरुपायं परमं यं विदित्वा सर्वं ज्ञास्यसि ।सर्वत्र शक्ष्यसि सर्वं करिष्यसि । मय्यग्नौ स्वात्मानंहविर्ध्यायेत्तयैवानुष्टुभर्चा । ध्यानयज्ञोऽयमेव ।एतद्वै महोपनिषद्देवानां गुह्यम् । न ह वा एतस्य साम्नानर्चा न यजुषार्थो नु विद्यते । य इमा वेद स सर्वान्कामानवाप्यसर्वांल्लोकाञ्जित्वा मामेवाभ्युपैति न स पुनरावर्तते य एवं वेदेति ॥३॥प्रजापतिस्तं यज्ञायं वसीयांसमात्मानं मन्यमानोमनोयज्ञेनेजे । सप्रणवया तयैवर्चा हविर्ध्यात्वात्मानमात्मन्यग्नौ जुहुयात् । सर्वमजानात्सर्वत्राशकत्सर्वमकरोत् ।य एवंविद्वानिमं ध्यानयज्ञमनुतिष्ठेत्स सर्वज्ञोऽनन्तशक्तिःसर्वकर्ता भवति । स सर्वां।cल्लोकाञ्जित्वा ब्रह्म परं प्राप्नोति ॥४॥अथ प्रजापतिर्लोकान्सिसृक्षमाणस्तस्या एव विद्याया यानित्रिंशदक्षराणि तेभ्यस्त्रीं।cल्लोकान् । अथ द्वे द्वे अक्षरेताभ्यामुभयतो दधार । तस्या एवर्चो द्वात्रिंशद्भिरक्षरैस्तान्देवान्निर्ममे । सर्वैरेव स इन्द्रोऽभवत् । तस्मादिन्द्रोदेवानामधिकोऽभवत् । य एवं वेद समानानामधिको भवेत् ।तस्या एकादशभिः पादैरेकादश रुद्रान्निर्ममे । तस्याएकादशभिरेकादशादित्यान्निर्ममे । सर्वैरेव स विष्णुरभवत् ।तस्माद्विष्णुरादित्यानामधिकोऽभवत् । य एवं वेद समानानामधिकोभवेत् । स चतुर्भिश्चतुर्भिरक्षरैरष्टौ वसूनजनयत् ।स तस्या आद्यैर्द्वादशभिरक्षरैर्ब्राह्मणमजनयत् ।दशभिर्दशभिर्विट्क्षत्रे । तस्माद्ब्राह्मणो मुख्यो भवति ।एवं तन्मुख्यो भवति य एवं वेद ।तूष्णीं शूद्रमजनयत्तस्माच्छूद्रो निर्विद्योऽभवत् ।न वेदं इवा न नक्तमासीदव्यावृतम् ।स प्रजापतिरानुष्टुभाभ्यामर्धर्चाभ्यामहोरात्रावकल्पयत् ।ततो व्यैच्छत् व्येवास्मा उच्छति । अथो तम एवापहते ।ऋग्वेदमस्या आद्यात्पादादकल्पयत् । यजुर्द्वितीयात् ।साम तृतीयात् । अथर्वाङ्गिरसश्चतुर्थात् यदष्टाक्षरपदातेन गायत्री । यदेकादशपदा तेन त्रिष्टुप् ।यच्चतुष्पदा तेन जगती यद्द्वात्रिंशदक्षरा तेनानुष्टुप् ।सा वा एषा सर्वाणि छन्दांसि । य इमां सर्वाणि छन्दांसि वेद ।सर्वं जगदानुष्टुभ एवोत्पन्नमनुष्टुप्प्रतिष्ठितंप्रतितिष्ठति यश्चैवं वेद ॥५॥अथ यदा प्रजाः सृष्टा न जायन्ते प्रजापतिः कथंन्विमाः प्रजाः सृजेयमिति चिन्तयन्नुग्रमितीमामृचंगातुमुपाक्रामत् । ततः प्रथमपादादुग्ररूपो देवःप्रादुरभूत् एकः श्यामः पुरतो रक्तः पिनाकी स्त्रीपुंसरूपस्तंविभज्य स्त्रीषु तस्य स्त्रीरूपं पुंसि च पुंरूपं व्यधात् ।उभाभ्यानंशाभ्यां सर्वमादिष्टः । ततः प्रजाः प्रजायन्ते ।य एवं वेद प्रजापतेः सोऽपि त्र्यम्बक इमामृचमुद्गायन्नुद्ग्रथितजटाकलापः प्रत्यग्ज्योतिष्यात्मन्येव रन्तारमिति ।इन्द्रो वै किल देवानामनुजावर आसीत् । तं प्रजापतिरब्रवीद्गच्छदेवानामधिपतिर्भवेति । सोऽगच्छत् । तं देवा ऊचुरनुजावरोऽसित्वमस्माकं कुतस्त्वाधिपत्यमिति । स प्रजापतिमभ्येत्योवाचैवंदेवा ऊचुरनुजावरस्य कुतस्तवाधिपत्यमिति । तं प्रजापतिरिन्द्रंत्रिकलशैरमृतपूर्णैरानुष्टुभाभिमन्त्रितैरभिषिच्य तंसुदर्शनेन दक्षिणतो ररक्ष पाञ्चजन्येन वामतो द्वयेनैवसुरक्षितोऽभवत् । रौक्मे फलके सूर्यवर्चसि मन्त्रमानुष्टुभंविन्यस्य तदस्य कण्ठे प्रत्यमुञ्चत् । ततः सुदुर्निरीक्षोऽभवत् ।तस्मै विद्यामानुष्टुभीं प्रादात् । ततो देवास्तमाधिपत्यायानुमेनिरे ।स स्वराडभूत् । य एवं वेद स्वराड् भवेत् । सोऽमन्यत पृथिवीमपिकथमपां जयेयमिति । स प्रजापतिमुपाधावत् ।तस्मात्प्रजापतिः कमठाकारमिन्द्रनागभुजगेन्द्राधारंभद्रासनं प्रादात् । स पृथिवीमभ्यजयत् । ततः सउभयोर्लोकयोरधिपतिरभूत् । य एवं वेदोभयोर्लोकयोरधिपतिर्भवति ।स पृथिवीं जयति यो वा अप्रतिष्ठितं शिथिलं भ्रातृवेभ्योवसीयान्भवति यश्चैवं वेद यश्चैवं वेद ॥६॥य इमां विद्यामधीते स सर्वान्वेदानधीते । स सर्वैः क्रतुभिर्यजते ।स सर्वतीर्थेषु स्नाति । स महापातकोपपातकैः प्रमुच्यते । सब्रह्मवर्चसं महदाप्नुयात् । आब्रह्मणः पूर्वानाकल्पाऽश्चोत्तरांश्चवंशान्पुनीते । नैनमपस्मारादयो रोगा आदिधेयुः । सयक्षाःसप्रेतपिशाचा अप्येनं स्पृष्ट्वा दृष्ट्वा श्रुत्वा वापापिनः पुण्यां।cल्लोकानवाप्नुयुः । चिन्तितमात्रादस्य सर्वेऽर्थाःसिद्ध्येयुः । पितरमिवैनं सर्वे मन्यन्ते । राजानश्चास्यादेशकारिणोभवन्ति । न चाचार्यव्यतिरिक्तं श्रेयांसं दृष्ट्वा नमस्कुर्यात् ।न चास्मादुपावरोहेत् । जीवन्मुक्तश्च भवति । देहान्ते तमसः परंधाम प्राप्नुयात् । यत्र विराण् नृसिंहोऽवभासते तत्र खलूपासते ।तत्स्वरूपध्यानपरा मुनय आकल्पान्ते तस्मिन्नेवात्मनि लीयन्ते । न चपुनरावर्तन्ते । न चेमां विद्यामश्रद्दधानाय ब्रूयान्नासूयावतेनानूचानाय नाविष्णुभक्ताय नानृतिने नातपसे नादान्तायनाशान्ताय नादीक्षिताय नाधर्मशीलाय न हिंसकाय नाब्रह्मचारिणइत्येषोपनिषत् ॥ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथोबलमिन्द्रियाणि च ॥सर्वाणि सर्वं ब्रह्मोपनिषदं माहंब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्तेमयि सन्तु ते मयि सन्तु ॥ॐ शान्तिः शान्तिः शान्तिः ॥हरिः ॐ तत्सत् ॥इत्यव्यक्तोपनिषत्समाप्ता ॥ N/A References : N/A Last Updated : January 11, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP