संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
रामरहस्योपनिषत्

रामरहस्योपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.

Upanishad are highly philosophical and metaphysical part of Vedas.


॥ रामरहस्योपनिषत् ॥

कैवल्यश्रीस्वरूपेण राजमानं महोऽव्ययम् । प्रतियोगिविनिर्मुक्तं श्रीरामपदमाश्रये ॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः । व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ रहस्यं रमतपतं वासुदेवं च मुद्गलम् । शाण्डिल्यं पैङ्गलं भिक्षुं महच्छारीरकं शिखा ॥१॥

सनकाद्या योगिवर्या अन्ये च ऋषयस्तथा । प्रह्लादाद्या विष्णुभक्ता हनूमन्तमथाब्रुवन् ॥२॥

वायुपुत्र महाबाहो किंतत्त्वं ब्रह्मवादिनाम् । पुराणेष्वष्टादशसु स्मृतिष्वष्टादशस्वपि ॥३॥

चतुर्वेदेषु शास्त्रेषु विद्यास्वाध्यात्मिकेऽपि च । सर्वेषु विद्यादानेषु विघ्नसूर्येशशक्तिषु । एतेषु मध्ये किं तत्त्वं कथय त्वं महाबल ॥४॥

हनूमान्होवाच ॥ भो योगीन्द्राश्चैव ऋषयो विष्णुभक्तास्तथैव च । श्रुणुध्वं मामकीं वाचं भवबन्धविनाशिनीम् ॥५॥

एतेषु चैव सर्वेषु तत्त्वं च ब्रह्म तारकम् । राम एव परं ब्रह्म तत्त्वं श्रीरामो ब्रह्म तारकम् ॥ ६॥

वायुप्त्रेणोक्तास्ते योगीन्द्रा ऋषयो विष्णुभक्ता हनूमन्तं पप्रच्छुः रामस्याङ्गानि नो ब्रूहीति । हनूमान्होवाच ।

वायुपुत्रं विघ्नेशं वाणीं दुर्गां क्षेत्रपालकं सूर्यं चन्द्रं नारायणं नारसिंहं वायुदेवं वाराहं तत्सर्वान्त्समात्रान्त्सीतं

लक्ष्मणं शत्रुघ्नं भरतं विभीषणं सुग्रीवमङ्गदं जाम्बवन्तं प्रणवमेतानि रामस्याङ्गानि जानीथाः ।

तान्यङ्गानि विना रामो विघ्नकरो भवति । पुनर्वायुपुत्रेणोक्तास्ते हनूमन्तं पप्रच्छुः ।

आञ्जनेय महाबल विप्राणां गृहस्थानां प्रणवाधिकारः कथं स्यादिति । स होवाच श्रीराम एवोवाचेति ।

येषामेव षडक्षराधिकारो वर्तते तेषां प्रणवाधिकारः स्यान्नान्येषाम् ।

केवलमकारोकारमकारार्धमात्रासहितं प्रणवमूह्य यो राममन्त्रं जपति तस्य शुभकरोऽहं स्याम् ।

तस्य प्रणवस्थाकारस्योकारस्य मकरास्यार्धमात्रायाश्च ऋषिश्छन्दो देवता तत्तद्वर्णावर्णावस्थानं

स्वरवेदाग्निगुणानुच्चार्यान्वहं प्रणवमन्त्रद्द्विगुणं जप्त्वा पश्चाद्राममन्त्रं यो जपेत् स रामो भवतीति

रामेणोक्तास्तस्माद्रामाङ्गं प्रणवः कथित इति ॥

॥ विभीषण उवाच ॥ सिंहासने समासीनं रामं पौलस्त्यसूदनम् । प्रणम्य दण्डवद्भूमौ पौलस्त्यो वाक्यमब्रवीत् ॥७॥

रघुनाथ महाबाहो केवलं कथितं त्वया । अङ्गानां सुलभं चैव कथनीयं च सौलभम् ॥८॥

श्रीराम उवाच ।

अथ पञ्च दण्डकानि पितृघ्नो मातृघ्नो ब्रह्मघ्नो गुरुहननः कोटियतिघ्नोऽनेककृतपापो

यो मम षण्णवतिकोटिनामानि जपति स तेभ्यः पापेभ्यः प्रमुच्यते ।

स्वयमेव सच्चिदानन्दस्वरूपो भवेन्न किम् । पुनरुवाच विभीषणः । तत्राप्य शक्तोऽयं किं करोति । स होवाचेमम् ।

कैकसेय पुरश्चरणविधावशक्तो यो मम महोपनिषदं मम गीतां मन्नामसहस्रं मद्विश्वरूपं ममाष्टोत्तरशतं रामशताभिधानं

नारदोक्तस्तवराजं हनूमत्प्रोक्तं मन्त्रराजात्मकस्तवं सीतास्तवं च रामषडक्षरीत्यादिभिर्मन्त्रैर्यो मां नित्यं स्तौति

तत्सदृशो भवेन्न किं भवेन्न किम् ॥ इति प्रथमोऽध्यायः ॥१॥

सनकाद्या मुनयो हनूमन्तं पप्रच्छुः । आञ्जनेय महाबल तारकब्रह्मणो रामचन्द्रस्य मन्त्रग्रामं नो ब्रूहीति ।

हनूमान्होवाच ।

वह्निस्थं शयनं विष्णोरर्धचन्द्रविभूषितम् । एकाक्षरो मनुः प्रोक्तो मन्त्रराजः सुरद्रुमः ॥१॥

ब्रह्मा मुनिः स्याद्गायत्रं छन्दो रामस्य देवता । दीर्घार्धेन्दुयुजाङ्गानि कुर्याद्वह्न्यात्मनो मनोः ॥२॥

बीजशक्त्यादि बीजेन इष्टार्थे विनियोजयेत् । सरयूतीरमन्दारवेदिकापञ्कजासने ॥३॥

श्यामं विरासनासीनं ज्ञानमुद्रोपशोभितम् । वामोरुन्यस्ततद्धस्तं सीतालक्ष्मणसंयुतम् ॥४॥

अवेक्षमाणमात्मानमात्मन्यमिततेजसम् । शुद्धस्फटिकसंकाशं केवलं मोक्षकाङ्क्षया ॥५॥

चिन्तयन्परमात्मानं भानुलक्षं जपेन्मनुम् । वह्निर्नारायणो नाड्यो जाठरः केवलोऽपि च ॥ ६॥

द्व्यक्षरो मन्त्रराजोऽयं सर्वाभीष्टप्रदस्ततः । एकाक्षरोक्तमृष्यादि स्यादाद्येन षडङ्गकम् ॥७॥

तारमायारमानङ्गवाक्स्वबीजैश्च षड्विधः , त्र्यक्षरो मन्त्रराजः स्यात्सर्वाभीष्टफलप्रदः ॥८॥

द्व्यक्षरश्चन्द्रभद्रान्तो द्विविधश्चतुरक्षरः । ऋष्यादि पूर्ववज्ज्ञेयमेतयोश्च विचक्षणैः ॥९॥

सप्रतिष्ठौ रमौ वायौ हृत्पञ्चार्णो मनुर्मतः । विश्वामित्रऋषिः प्रोक्तः पङ्क्तिश्छन्दोऽस्य देवता ॥१०॥

रामभद्रो बीजशक्तिः प्रथमार्णमिति क्रमात् । भ्रूमध्ये हृदि नाभ्यूर्वोः पादयोर्विन्यसेन्मनुम् ॥११॥

षडङ्गं पूर्ववद्विद्यान्मन्त्रार्णैर्मनुनास्त्रकम् । मध्ये वनं कल्पतरोर्मूले पुष्पलतासने ॥१२॥

लक्ष्मणेन प्रगुणितमक्ष्णः कोणेन सायकम् । अवेक्षमाणं जानक्या कृतव्यजनमीश्वरम् ॥१३॥

जटाभारलसच्छीर्षं श्यामं मुनिगणावृतम् । लक्ष्मणेन धृतच्छत्रमथवा पुष्पकोपरि ॥१४॥

दशाअस्यमथनं शान्तं ससुग्रीवविभीषणम् । एवं लब्ध्वा जयार्थी तु वर्णलक्षं जपेन्मनुम् ॥१५॥

स्वकामशक्तिवाग्लक्ष्मीस्तवाद्याः पञ्चवर्णकाः । षडक्षरः षड्विधः स्याच्चतुर्वर्गफलप्रदः ॥१६॥

पञ्चाशन्मातृकामन्त्रवर्णप्रत्येकपूर्वकम् । लक्ष्मीवाङ्मन्मथादिश्च तारादिः स्यादनेकधा ॥१७॥

श्रीमायामन्मथैकैक बीजाद्यन्तर्गतो मनुः । चतुर्वर्णः स एव स्यात्षड्वर्णो वाञ्छितप्रदः ॥१८॥

स्वाहान्तो हुंफडन्तो वा नत्यन्तो वा भवेदयम् । अष्टाविंशत्युत्तरशतभेदः षड्वर्ण ईरितः ॥१९॥

ब्रह्मा संमोहनः शक्तिर्दक्षिणामूर्तिरेव च । अगस्त्यश्च शिवः प्रोक्ता मुनयोऽक्रमादिमे ॥२०॥

छन्दो गायत्रसंज्ञं च श्रीरामश्चैव देवता । अथवा कामबीजादेर्विश्वामित्रो मुनिर्मनोः ॥२१॥

छन्दो देव्यादिगायत्री रामभद्रोऽस्य देवता । बीजशक्ती यथापूर्वं षड्वर्णान्विन्यसेत्क्रमात् ॥२२॥

ब्रह्मरन्ध्रे भ्रुवोर्मध्ये हृन्नाभ्यूरुषु पादयोः । बीजैः षड्दीर्घयुक्तैर्वा मन्त्रार्णैवा षडङ्गकम् ॥२३॥

कालाभोधरकान्तिकान्तमनिशं वीरासनाध्यासितं

मुद्रां ज्ञानमयीं दधानमपरं हस्तांबुजं जानुनि ।

सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं

पश्यन्तं मुकुटाङ्गदादिविविधाकल्पोज्ज्वलाङ्गं भजे ॥२४॥

श्रीरामश्चन्द्रभद्रान्तो ङेन्तो नतियुतो द्विधा । सप्ताक्षरो मन्त्रराजः सर्वकामफलप्रदः ॥२५॥

तारादिसहितः सोऽपि द्विविधोऽष्टाक्षरो मतः । तारं रामश्चतुर्थ्यतः क्रोडास्त्रं वह्नितल्पगा ॥२६॥

अष्टार्णोऽयं परो मन्त्रो ऋष्यादिः स्यात्षडर्णवत् । पुनरष्टाक्षरस्याथ राम एव ऋषिः स्मृतः ॥२७॥

गायत्रं छन्द इत्यस्य देवता राम एव च । तारं श्रीबीजयुग्मं च बीजशक्त्यादयो मताः ॥२८॥

षडङ्गं च ततः कुर्यान्मन्त्रार्णैरेव बुद्धिमान् । तारं श्रीबीजयुग्मं च रामाय नम उच्चरेत् ॥२९॥

ग्लौंमों बीजं वदेन्मायां हृद्रामाय पुनश्च ताम् । शिवोमाराममन्त्रोऽयं वस्वर्णस्तु वसुप्रदः ॥३०॥

ऋषिः सदाशिवः प्रोक्तो गायत्रं छन्द उच्यते । शिवोमारामचन्द्रोऽत्र देवता परिकीर्तितः ॥३१॥

दीर्घया माययाङ्गानि तारपञ्चार्णयुक्तया । रामं त्रिनेत्रं सोमार्धधारिणं शूलिनं परम् । भस्मोद्धूलितसर्वाङ्गं कपर्दिनमुपास्महे ॥३२॥

रामाभिरामां सौन्दर्यसीमां सोमावतंसिकाम् । पाशाङ्कुशधनुर्बाणधरां ध्यायेत्त्रिलोचनाम् ॥३३॥

ध्यायन्नेवं वर्णलक्षं जपतर्पणतत्परः । बिल्वपत्रैः फलैः पुष्पैस्तिलाज्यैः पङ्कजैर्हुनेत् ॥३४॥

स्वयमायान्ति निधयः सिद्धयश्च सुरेप्सिताः । पुनरष्टाक्षरस्याथ ब्रह्मगायत्र राघवाः ॥३५॥

ऋष्यादयस्तु विज्ञेयाः श्रीबीजं मम शक्तिकम् । तत्प्रीत्यै विनियोगश्च मन्त्रार्णैरङ्गकल्पना ॥३६॥

केयूराङ्गदकङ्कणैर्मणिगतैर्विद्योतमानं सदा

रामं पार्वणचन्द्रकोटिसदृशच्छत्रेण वै राजितम् ।

हेमस्तम्भसहस्रषोडशयुते मध्ये महामण्डपे

देवेशं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥३७॥

किं मन्त्रैर्बहुभिर्विनश्वरफलैरायाससाध्यैर्वृता

किंचिल्लोभवितानमात्रविफलैः संसारदुःखावहैः ।

एकः सन्नपि सर्वमन्त्रफलदो लोभादिदोषोज्झितः

श्रीरामः शरणं ममेति सततं मन्त्रोऽयमष्टाक्षरः ॥३८॥

एवमष्टाक्षरः सम्यक् सप्तधा परिकीर्तितः । रामसप्ताक्षरो मन्त्र आद्यन्ते तारसंयुतः ॥३९॥

नवार्णो मन्त्रराजः स्याच्छेषं षड्वर्णवन्न्यसेत् । जानकीवल्लभं ङेन्तं वह्नेर्जायाहुमादिकम् ॥४०॥

दशाक्षरोऽयं मन्त्रः स्यात्सर्वाभीष्टफलप्रदः । दशाक्षरस्य मन्त्रस्य वसिष्ठोऽस्य ऋषिर्विराट् ॥४१॥

छन्दोऽस्य देवता रामः सीतापाणिपरिग्रहः । आद्यो बीजं द्विठः शक्तिः कामेनाङ्गक्रिया मता ॥४२॥

शिरोललाटभ्रूमध्ये तालुकर्णेषु हृद्यपि । नाभूरुजानुपादेषु दशार्णान्विन्यसेन्मनोः ॥४३॥

अयोध्यानगरे रत्नचित्रे सौवर्णमण्डपे । मन्दारपुष्पैराबद्धविताने तोरणाञ्चिते ॥४४॥

सिंहासने समासीनं पुष्पकोपरि राघवम् । रक्षोभिर्हरिभिर्देवैर्दिव्ययानगतैः शुभैः ॥४५॥

संस्तूयमानं मुनिभिः प्रह्वैश्च परिसेवितम् । सीतालङ्कृतवामाङ्गं लक्ष्मणेनोपसेवितम् ॥४६॥

श्यामं प्रसन्नवदनं सर्वाभरणभूषितम् । ध्यायन्नेवं जपेन्मन्त्रं वर्णलक्षमनन्यधीः ॥४७॥

रामं ङेन्तं धनुष्पाणयेऽन्तः स्याद्वह्निसुन्दरी । दशाक्षरोऽयं मन्त्रः स्यान्मुनिर्ब्रह्मा विराट् स्मृतः ॥४८॥

छन्दस्तु देवता प्रोक्तो रामो राक्षसमर्दनः । शेषं तु पूर्ववत्कुर्याच्चापबाणधरं स्मरेत् ॥४९॥

तारमायारमानङ्गवाक्स्वबीजैश्च षड्विधः । दशार्णो मन्त्रराजः स्याद्रुद्रवर्णात्मको मनुः ॥५०॥

शेषं षडर्णवज्ज्ञेयं न्यासध्यानादिकं बुधैः । द्वादशाक्षरमन्त्रस्य श्रीराम ऋषिरुच्यते ॥५१॥

जगती छन्द इत्युक्तं श्रीरामो देवता मतः । प्रणवो बीजमित्युक्तः क्लीं शक्तिर्ह्रीं च कीलकम् ॥५२॥

मन्त्रेणाङ्गानि विन्यस्य शिष्टं पूर्ववदाचरेत् । तारं मायां समुच्चार्य भरताग्रज इत्यपि ॥५३॥

रामं क्लीं वह्निजायान्तं मन्त्रोयं द्वादशाक्षरः । ॐ हृद्भगवते रामचन्द्रभद्रौ च ङेयुतौ ॥५४॥

अर्कार्णो द्विविधोऽप्यस्य ऋषिध्यानादिपूर्ववत् । छन्दस्तु जगती चैव मन्त्रार्णैरङ्गकल्पना ॥५५॥

श्रीरामेति पदं चोक्त्वा जयराम ततः परम् । जयद्वयं वदेत्प्राज्ञो रामेति मनुराजकः ॥५६॥

त्रयोदशार्ण ऋष्यादि पूर्ववत्सर्वकामदः । पदद्वयद्विरावृत्तेरङ्गं ध्यानं दशार्णवत् ॥५७॥

तारादिसहितः सोऽपि स चतुर्दशवर्णकः । त्रयोदशार्णमुच्चार्य पश्चाद्रामेति योजयेत् ॥५८॥

स वै पञ्चदशार्णस्तु जपतां कल्पभूरुहः । नमश्च सीतापतये रामायेति हनद्वयम् ॥५९॥

ततस्तु कवचास्त्रान्तः षोडशाक्षर ईरितः । तस्यागस्त्यऋषिश्छन्दो बृहती देवता च सः ॥ ६०॥

रां बीजं शक्तिरस्त्रं च कीलकं हुमितीरितम् । द्विपञ्चत्रिचतुर्वर्णैः सर्वैरङ्गं न्यसेत्क्रमात् ॥ ६१॥

तारादिसहितः सोऽपि मन्त्रः सप्तदशाक्षरः । तारं नमो भगवते रां ङेन्तं महा ततः ॥ ६२॥

पुरुषाय पदं पश्चाद्धृदन्तोऽष्टदशाक्षरः । विश्वामित्रो मुनिश्छन्दो गायत्रं देवता च सः ॥ ६३॥

कामादिसहितः सोऽपि मन्त्र एकोनविंशकः । तारं नामो भगवते रामायेति पदं वदेत् ॥ ६४॥

सर्वशब्दं समुच्चार्य सौभाग्यं देहि मे वदेत् । वह्निजायां तथोच्चार्य मन्त्रो विंशार्णको मतः ॥ ६५॥

तारं नमो भगवते रामाय सकलं वदेत् । आपन्निवारणायेति वह्निजायां ततो वदेत् ॥ ६६॥

एकविंशार्णको मन्त्रः सर्वाभीष्टफलप्रदः । तारं रमा स्वबीजं च ततो दाशरथाय च ॥ ६७॥

ततः सीतावल्लभाय सर्वाभीष्टपदं वदेत् । ततो दाय हृदन्तोऽयं मन्त्रो द्वाविंशदक्षरः ॥ ६८॥

तारं नमो भगवते वीररामाय संवदेत् । कल शत्रून् हन द्वन्द्वं वह्निजायां ततो वदेत् ॥ ६९॥

त्रयोविंशाक्षरोमन्त्रः सर्वशत्रुनिबर्हणः । विश्वामित्रो मुनिः प्रोक्तो गायत्रीछन्द उच्यते ॥७०॥

देवता वीररामोऽसौ बीजाद्याः पूर्ववन्मताः । मूलमन्त्रविभागेन न्यासान्कृत्वा विचक्षणः ॥७१॥

शरं धनुषि सन्धाय तिष्ठन्तं रावणोन्मुखम् । वज्रपाणिं रथारूढं रामं ध्यात्वा जपेन्मनुम् ॥७२॥

तारं नमो भगवते श्रीरामाय पदं वदेत् । तारकब्रह्मणे चोक्त्वा मां तारय पदं वदेत् ॥७३॥

नमस्तारात्मको मन्त्रश्चतुर्विंशतिमन्त्रकः । बीजादिकं यथा पूर्वं सर्वं कुर्यात्षडर्णवत् ॥७४॥

कामस्तारो नतिश्चैव ततो भगवतेपदम् । रामचन्द्राय चोच्चार्य सकलेति पदं वदेत् ॥७५॥

जनवश्यकरायेति स्वाहा कामात्मको मनुः । सर्ववश्यकरो मन्त्रः पञ्चविंशतिवर्णकः ॥७६॥

आदौ तारेण संयुक्तो मन्त्रः षड्विंशदक्षरः । अन्तेऽपि तारसंयुक्तः सप्तविंशतिवर्णकः ॥७७॥

तारं नमो भगवते रक्षोघ्नविशदाय च । सर्वविघ्नान्त्समुच्चार्य निवारय पदद्वयम् ॥७८॥

स्वाहान्तो मन्त्रराजोऽयमष्टाविंशतिवर्णकः । अन्ते तारेण संयुक्त एकोनत्रिंशदक्षरः ॥७९॥

आदौ स्वबीजसंयुक्तस्त्रिंशद्वर्णात्मको मनुः । अन्तेऽपि तेन संयुक्त एकत्रिंशात्मकः स्मृतः ॥८०॥

रामभद्र महेश्वास रघुवीर नृपोत्तम । भो दशास्यान्तकास्माकं श्रियं दापय देहि मे ॥८१॥

आनुष्टुभ ऋषी रामश्छन्दोऽनुष्टुप्स देवता । रां बीजमस्य यं शक्तिरिष्टार्थे विनियोजयेत् ॥८२॥

पादं हृदि च विन्यस्य पादं शिरसि विन्यसेत् । शिखायां पञ्चभिर्न्यस्य त्रिवर्णैः कवचं न्यसेत् ॥८३॥

नेत्रयोः पञ्चवर्णैश्च दापयेत्यस्त्रमुच्यते । चापबाणधरं श्यामं ससुग्रीवबिभीषणम् ॥८४॥

हत्वा रावणमायान्तं कृतत्रैलोक्यरक्षणम् । रामचन्द्रं हृदि ध्यात्वा दशलक्षं जपेन्मनुम् ॥८५॥

वदेद्दाशरथायेति विद्महेति पदं ततः । सीतापदं समुद्धृत्य वल्लभाय ततो वदेत् ॥८६॥

धीमहीति वदेत्तन्नो रामश्चापि प्रचोदयात् तारादिरेषा गायत्री मुक्तिमेव प्रयच्छति ॥८७॥

मायादिरपि वैदुष्ट्यं रामादिश्च श्रियःपदम् । मदनेनापि संयुक्तः स मोहयति मेदिनीम् ॥८८॥

पञ्च त्रीणि षडर्णैश्च त्रीणि चत्वारि वर्णकैः । चत्वारि च चतुर्वर्णैरङ्गन्यासं प्रकल्पयेत् ॥८९॥

बीजध्यानादिकं सर्वं कुर्यात्षड्वर्णवत्क्रमात् । तारं नमो भगवते चतुर्थ्या रघुनन्दनम् ॥९०॥

रक्षोघ्नविशदं तद्वन्मधुरेति वदेत्ततः । प्रसन्नवदनं ङेन्तं वदेदमिततेजसे ॥९१॥

बलरामौ चतुर्थ्यन्तौ विष्णुं ङेन्तं नतिस्ततः । प्रोक्तो मालामनुः सप्तचत्वारिंशद्भिरक्षरैः ॥९२॥

ऋषिश्छन्दो देवतादि ब्रह्मानुष्टुभराघवाः । सप्तर्तुसप्तदश षड्रुद्रसंख्यैः षडङ्गकम् ॥९३॥

ध्यानं दशाक्षरं प्रोक्तं लक्षमेकं जपेन्मनुम् । श्रियं सीतां चतुर्थ्यन्तां स्वाहान्तोऽयं षडक्षरः ॥९४॥

जनकोऽस्य ऋषिश्छन्दो गायत्री देवता मनोः । सीता भगवती प्रोक्ता श्रीं बीजं नतिशक्तिकम् ॥९५॥

कीलं सीता चतुर्थ्यन्तमिष्टार्थे विनियोजयेत् । दीर्घस्वरयुताद्येन षडङ्गानि प्रकल्पयेत् ॥९६॥

स्वर्णाभामम्बुजकरां रामालोकनतत्पराम् । ध्यायेत्षट्कोणमध्यस्थरामाङ्कोपरि शोभिताम् ॥९७॥

लकारं तु समुद्धृत्य लक्ष्मणाय नमोन्तकः । अगस्त्यऋषिरस्याथ गायत्रं छन्द उच्यते ॥९८॥

लक्ष्मणो देवता प्रोक्तो लं बीजं शक्तिरस्य हि । नमस्तु विनियोगो हि पुरुषार्थ चतुष्टये ॥९९॥

दीर्घभाजा स्वबीजेन षडङ्गानि प्रकल्पयेत् । द्विभुजं स्वर्णरुचिरतनुं पद्मनिभेक्षणम् ॥१००॥

धनुर्बाणधरं देवं रामाराधनतत्परम् । भकारं तु समुद्धृत्य भरताय नमोन्तकः ॥१०१॥

अगस्त्यऋषिरस्याथ शेषं पूर्ववदाचरेत् । भरतं श्यामलं शान्तं रामसेवापरायणम् ॥१०२॥

धनुर्बाणधरं वीरं कैकेयीतनयं भजे । शं बीजं तु समुद्धृत्य शत्रुघ्नाय नमोन्तकः ।

ऋष्यादयो यथापूर्वं विनियोगोऽरिनिग्रहे ॥१०३॥

द्विभुजं स्वर्णवर्णाभं रामसेवापरायणम् । लवणासुरहन्तारं सुमित्रातनयं भजे ॥१०४॥

हृं हनुमांश्चतुर्थ्यन्तं हृदन्तो मन्त्रराजकः । रामचन्द्र ऋषिः प्रोक्तो योजयेत्पूर्ववत्क्रमात् ॥१०५॥

द्विभुजं स्वर्णवर्णाभं रामसेवापरायणम् । मौञ्जीकौपीनसहितं मां ध्यायेद्रामसेवकम् ॥ इति॥१०६॥

इति रमरहस्योपनिषदि द्वितीयोऽध्यायः ॥२॥

सनकाद्या मुनयो हनूमन्तं पप्रच्छुः ।

आञ्जनेय महाबल पूर्वोक्तमन्त्राणां पूजापीठमनुब्रूहीति । हनुमान् होवाच । आदौ षट्कोणम् ।

तन्मध्ये रामबीजं सश्रीकम् । तदधोभागे द्वितीयान्तं साध्यम् । बीजोर्ध्वभागे षष्ठ्यन्तं साधकम् ।

पार्श्वे दृष्टिबीजे तत्परितो जीवप्राणशक्तिवश्यबीजानि । तत्सर्वं सन्मुखोन्मुखाभ्यां प्रणवाभ्यां वेष्टनम् ।

अग्नीशासुरवायव्यपुरःपृष्ठेषु षट्कोणेषु दीर्घभाञ्जि । हृदयादिमन्त्राः क्रमेण ।

रां रीं रूं रैं रौं रः इति दीर्घभाजि तद्युक्तहृदयाद्यस्त्रान्तम् । षट्कोणपार्श्वे रमामायाबीजे । कोणाग्रे वाराहं हुमिति ।

तद्बीजान्तराले कामबीजम् । परितो वाग्भवम् । ततो वृत्तत्रयं साष्टपत्रम् । तेषु दलेषु स्वरानष्टवर्गान्प्रतिदलं मालामनुवर्णषट्कम् ।

अन्ते पञ्चाक्षरम् । तद्दलकपोलेष्वष्टवर्णान् । पुनरष्टदलपद्मम् । तेषु दलेषु नारायणाष्टाक्षरो मन्त्रः ।

तद्दलकपोलेषु श्रीबीजम् । ततो वृत्तम् । ततो द्वादशदलम् । तेषु दलेषु वासुदेवद्वादशाक्षरो मन्त्रः ।

तद्दलकपोलेष्वादिक्षान्तान् । ततो वृत्तम् । ततः षोडशदलम् । तेषु दलेषु हुं फट् नतिसहितरामद्वादशाक्षरम् ।

तद्दलकपोलेषु मायाबीजम् । सर्वत्र प्रतिकपोलं द्विरावृत्त्या ह्रं स्रं भ्रं ब्रं भ्रमं श्रुं ज्रम् । ततो वृत्तम् । ततो द्वात्रिंशद्दलपद्मम् ।

तेषु दलेषु नृसिंहमन्त्रराजानुष्टुभमन्रः । तद्दलकपोलेश्वष्टव- स्वेकादशरुद्रद्वादशादित्यमन्त्राः प्रणवादिनमोन्ता- श्चतुर्थ्यन्ताः क्रमेण ।

तद्बहिर्वषट्कारं परितः । ततो रेखात्रययुक्तं भूपुरम् । द्वादशदिक्षु राश्यादिभूषितम् । अष्टनागैरधिष्ठितम् ।

चतुर्दिक्षु नारसिंहबीजम् । विदिक्षु वाराहबीजम् । एतत्सर्वात्मकं यन्त्रं सर्वकामप्रदं मोक्षप्रदं च ।

एकाक्षरादिनवाक्षरान्तानामेतद्यन्त्रं भवति । तद्दशावरणात्मकं भवति । षट्कोणमध्ये साङ्गं राघवं यजेत् ।

षट्कोणेष्वङ्गैः प्रथमा वृतिः । अष्टदलमूले आत्माद्यावरणम् । तदग्रे वासुदेवाद्यावरणम् । द्वितीयाष्टदलमूले घृष्टाद्यावरणम् ।

तदग्रे हनूमदाद्यावरणम् । द्वादशदलेषु वसिष्ठाद्यावरणम् । षोडशदलेशु नीलाद्यावरणम् । द्वात्रिंशद्दलेषु ध्रुवाद्यावरणम् ।

भूपुरान्तरिन्द्राद्यावरणम् । तद्बहिर्वज्राद्यावरणम् । एवमभ्यर्च्य मनुं जपेत् ॥

अथ दशाक्षरादिद्वात्रिंशदक्षरान्तानां मन्त्राणां पूजापीठमुच्यते । आदौ षट्कोणम् । तन्मध्ये स्वबीजम् ।

तन्मध्ये साध्यनामानि । एवं कामबीजवेष्टनम् । तं शिष्टेन नवार्णेन वेष्टनम् । षट्कोणेषु षडङ्गान्यग्नीशासुरवायव्यपूर्वपृष्ठेषु ।

तत्कपोलेषु श्रीमाये । कोणाग्रे क्रोधम् । ततो वृत्तम् । ततोऽष्टदलम् । तेषु दलेषु षट्संख्यया मालामनुवर्णान् ।

तद्दलकपोलेषु षोडश स्वराः । ततो वृत्तम् । तत्परित आदिक्षान्तम् । तद्बहिर्भूपुरम् साष्टशूलाग्रम् ।

दिक्षु विदिक्षु नारसिंहवाराहे । एतन्महायन्त्रम् । आधारशक्त्यादिवैष्णवपीठम् । अङ्गैः प्रथमा वृतिः ।

मध्ये रामम् । वामभागे सीताम् । तत्पुरतः शार्ङ्गं शरं च । अष्टदलमूले हनुमदादिद्वितीयावरणम् ।

घृष्ट्यादितृतीयावरणम् । इन्द्रादिभिश्चतुर्थी । वज्रादिभिः पञ्चमी । एतद्यन्त्राराधन- पूर्वकं दशाक्षरादिमन्त्रं जपेत् ।

॥ इति रामरहस्योपनिषदि तृतीयोऽध्यायः ॥३॥

सनकाद्या मुनयो हनूमन्तं पप्रच्छुः । श्रीराममन्त्राणां पुरश्चरणविधिमनुब्रूहीति । हनूमान्होवाच ।

नित्यं त्रिषवणस्नायी पयोमूलफलादिभुक् । अथवा पायसाहारो हविष्यान्नाद एव वा ॥१॥

षड्सैश्च परित्यक्तः स्वाश्रमोक्तविधिं चरन् । वनितादिषु वाक्कर्ममनोभिर्निःस्पृहः शुचिः ॥२॥

भूमिशायी ब्रह्मचारी निष्कामो गुरुभक्तिमान् । स्नानपूजाजपध्यानहोमतर्पणतत्परः ॥३॥

गुरूपदिष्टमार्गेण ध्यायन्राममनन्यधीः । सूर्येन्दुगुरुदीपादिगोब्राह्मणसमीपतः ॥४॥

श्रीरामसन्निधौ मौनी मन्त्रार्थमनुचिन्तयन् । व्याघ्रचर्मासने स्थित्वा स्वस्तिकाद्यासनक्रमात् ॥५॥

तुलसीपारिजातश्रीवृक्षमूलादिकस्थले । पद्माक्षतुलसीकाष्ठरुद्राक्षकृतमालया ॥ ६॥

मातृकामालया मन्त्री मनसैव मनुं जपेत् । अभ्यर्च्य वैष्णवे पीठे जपेदक्षरलक्षकम् ॥७॥

तर्पयेत्तद्दशांशेन पायसात्तद्दशांशतः । जुहुयाद्गोघृतेनैव भोजयेत्तद्दशांशतः ॥८॥

ततः पुष्पाञ्जलिं मूलमन्त्रेण विधिवच्चरेत् । ततः सिद्धमनुर्भूत्वा जीवन्मुक्तो भवेन्मुनिः ॥९॥

अणिमादिर्भजत्येनं यूनं वरवधूरिव । ऐहिकेषु च कार्येषु महापत्सु च सर्वदा ॥१०॥

नैव योज्यो राममन्त्रः केवलं मोक्षसाधकः । ऐहिके समनुप्राप्ते मां स्मरेद्रामसेवकम् ॥११॥

यो रामं संस्मरेन्नित्यं भक्त्या मनुपरायणः । तस्याहमिष्टसंसिद्ध्यै दीक्षितोऽस्मि मुनीश्वराः ॥१२॥

वाञ्छितार्थं प्रदास्यामि भक्तानां राघवस्य तु । सर्वथा जागरूकोऽस्मि रामकार्यधुरन्धरः ॥१३॥

इति रामरहस्योपनिषदि चतुर्थोऽध्यायः ॥४॥ सनकाद्या मुनयो हनूमन्तं पप्रच्छुः । श्रीराममन्त्रार्थमनुब्रूहीति ।

हनूमान्होवाच । सर्वेषु राममन्त्रेषु मन्त्रराजः षडक्षरः । एकधाय द्विधा त्रेधा चतुर्धा पञ्चधा तथा ॥१॥

षट्सप्तधाष्टधा चैव बहुधायं व्यवस्थितः । षडक्षरस्य माहात्म्यं शिवो जानाति तत्त्वतः ॥२॥

श्रीराममन्त्रराजस्य सम्यगर्थोऽयमुच्यते । नारायणाष्टाक्षरे च शिवपञ्चाक्षरे तथा ।

सार्थकार्णद्वयं रामो रमन्ते यत्र योगिनः । रकारो वह्निवचनः प्रकाशः पर्यवस्यति ॥३॥

सच्चिदानन्दरूपोऽस्य परमात्मार्थ उच्यते । व्यञ्जनं निष्कलं ब्रह्म प्राणो मायेति च स्वरः ॥४॥

व्यञ्जनैः स्वरसंयोगं विद्धि तत्प्राणयोजनम् । रेफो ज्योतिर्मये तस्मात्कृतमाकरयोजनम् ॥५॥

मकारोऽभ्युदयार्थत्वात्स मायेति च कीर्त्यते । सोऽयं बीजं स्वकं यस्मात्समायं ब्रह्म चोच्यते ॥ ६॥

सबिन्दुः सोऽपि पुरुषः शिवसूर्येन्दुरूपवान् । ज्योतिस्तस्य शिखा रूपं नादः सप्रकृतिर्मतः ॥७॥

प्रकृतिः पुरुषश्चोभौ समायाद्ब्रह्मणः स्मृतौ । बिन्दुनादात्मकं बीजं वह्निसोमकलात्मकम् ॥८॥

अग्नीषोमात्मकं रूपं रामबीजे प्रतिष्ठितम् । यथैव वटबीजस्थः प्राकृतश्च महाद्रुमः ॥९॥

तथैव रामबीजस्थं जगदेतच्चराचरम् । बीजोक्तमुभयार्थत्वं रामनामनि दृश्यते ॥१०॥

बीजं मायाविनिर्मुक्तं परं ब्रह्मेति कीर्त्यते । मुक्तिदं साधकानां च मकारो मुक्तिदो मतः ॥११॥

मारूपत्वादतो रामो भुक्तिमुक्तिफलप्रदः । आद्यो र तत्पदार्थः स्यान्मकरस्त्वंपदार्थवान् ॥१२॥

तयोः संयोजनमसीत्यर्थे तत्त्वविदो विदुः । नमस्त्वमर्थो विज्ञेयो रामस्तत्पदमुच्यते ॥१३॥

असीत्यर्थे चतुर्थी स्यादेवं मन्त्रेषु योजयेत् । तत्त्वमस्यादिवाक्यं तु केवलं मुक्तिदं यतः ॥१४॥

भुक्तिमुक्तिप्रदं चैतत्तस्मादप्यतिरिच्यते । मनुष्वेतेषु सर्वेषामधिकारोऽस्ति देहिनाम् ॥१५॥

मुमुक्षूणां विरक्तानां तथा चाश्रमवासिनाम् । प्रणवत्वात्सदा ध्येयो यतीनां च विशेषतः । राममन्त्रार्थविज्ञानी जीवन्मुक्तो न संशयः ॥१६॥

य इमामुपनिषदमधीते सोऽग्निपूतो भवति । स वायुपूतो भवति । सुरापानात्पूतो भवति । स्वर्णस्तेयात्पूतो भवति ।

ब्रह्महत्यापूतो भवति । स राममन्त्राणां कृतपुरश्चरणो रामचन्द्रो भवति । तदेतदृचाभ्युक्तम् ।

सदा रामोऽहमस्मीति तत्त्वतः प्रवदन्ति ये । न ते संसारिणो नूनं राम एव न संशयः ॥

ॐ सत्यमित्युपनिषत् ॥ ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥

॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इति श्रीरमरहस्योपनिषत्समाप्ता॥

N/A

N/A
Last Updated : December 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP