TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
सर्वसारोपनिषत्

सर्वसारोपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.

Upanishad are highly philosophical and metaphysical part of Vedas.


सर्वसारोपनिषत्

॥ सर्वसारोपनिषत् ॥

समस्तवेदान्तसारसिद्धान्तार्थकलेवरम् । विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥

सर्वसारं निरालम्बं रहस्यं वज्रसूचिकम् । तेजोनादध्यानविद्यायोगतत्त्वात्मबोधकम् ॥

ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

कथं बन्धः कथं मोक्षः का विद्या काऽविद्येति । जाग्रत् स्वप्नसुषुप्ति तुरीयं च कथम् ।

अन्नमय प्राणमय मनोमय विज्ञानमय् आनन्दमयकोशाः कथम् ।

कर्ता जीवः पञ्चवर्गः क्षेत्रज्ञः साक्षी कूटस्थः अन्तर्यामी कथम् । प्रत्यगात्मा परात्मा माया चेति कथम् ? ॥१॥

आत्मा ईश्वर जीवः अनात्मनां देहादीनाम् आत्मत्वेन अभिमन्यते सोऽभिमान आत्मनो बन्धः । तन्निवृत्तिर्मोक्षः ॥२॥

या तद् अभिमानं कारयति सा अविद्या । सोऽभिमानो यया निवर्तते सा विद्या ॥३॥

मनआदि चतुर्दशकरणैः पुष्कलैः आदित्याद्यनुगृहीतैः शब्दादीन्विषयान् स्थूलान् यद् उपलभते तद् आत्मनो जागरणम् ।

तद् वासनासहितैः चतुर्दशकरणैः शब्दादि अभावेऽपि वासनामयाञ् छब्दादीन्यदोपलभते तद् आत्मनः स्वप्नम् ।

चतुर्दशकरणा उपरमाद् विशेषविज्ञानाभावाद् यदा शब्दादीन्नोपलभते तदात्मनः सुषुप्तम् ।

अवस्थात्रय भावाभावसाक्षी स्वयंभावरहितं नैरन्तर्यं चैतन्यं यदा तदा तुरीयं चैतन्यमित्युच्यते ॥४॥

अन्नकार्याणां कोशानां समूहो अन्नमयः कोश इत्युच्यते ।

प्राणादि चतुर्दशवायुभेदा अन्नमयकोशे यदा वर्तन्ते तदा प्राणमयः कोश इत्युच्यते ।

एतत् कोशद्वय संसक्तं मनादि चतुर्दशकरणैः आत्मा शब्दादि विषय सङ्कल्पादीन्धर्मान् यदा करोति तदा मनोमयः कोश इत्युच्यते ।

एतत् कोशत्रय संसक्तं तद्गत विशेषज्ञो यदा भासते तदा विज्ञानमयः कोश इत्युच्यते ।

एतत् कोशचतुष्टयं संसक्तं स्वकारणाज्ञाने वटकणिकायाम् इव वृक्षो यदा वर्तते तद् आनन्दमयः कोश इत्युच्यते ॥५॥

सुखदुःखबुद्ध्या श्रेयोऽन्तः कर्ता यदा तदा इष्टविषये बुद्धिः सुखबुद्धिः अनिष्टविषये बुद्धिर्दुःखबुद्धिः ।

शब्द स्पर्श रूप रस गन्धाः सुखदुःखहेतवः ।

पुण्यपाप कर्मानुसारी भूत्वा प्राप्त शरीरसंयोगम् अप्राप्तशरीरसंयोगम् इव कुर्वाणो यदा दृश्यते तदोपहितजीव इत्युच्यते ॥६॥

मन आदिश्च प्राणादिश्च इच्छादिश्च सत्त्वादिश्च पुण्यादिश्च एते पञ्चवर्गा इति एतेषां पञ्चवर्गाणां धर्मीभूतात्मा ज्ञानादृते न

विनश्यत् इआत्मसन्निधौ नित्यत्वेन प्रतीयमान आत्मोपाधिः यः तल्लिङ्गशरीरं हृद्ग्रन्थिरित्युच्यते ॥७॥

तत्र यत्प्रकाशते चैतन्यं स क्षेत्रज्ञ इत्युच्यते ॥८॥

ज्ञातृ ज्ञान ज्ञेयानाम् आविर्भाव तिरोभावज्ञाता स्वयम् आविर्भाव तिरोभावरहितः स्वयंज्योतिः साक्षीत्युच्यते ॥९॥

ब्रह्मादिपिपीलिकापर्यन्तं सर्व प्राणि बुद्धिषु अवशिष्टतय उपलभ्यमानः सर्वप्राणि-बुद्धिस्थो यदा तदा कूटस्थ इत्युच्यते ॥१०॥

कूटस्थः अपहितभेदानां स्वरूपलाभहेतुर्भूत्वा मणिगणे सूत्रमिव सर्वक्षेत्रेषु अनुस्यूतत्वेन यदा काश्यते आत्मा तदान्तर्यामीत्युच्यते ॥११॥

सत्यं ज्ञानमनन्तमानन्दं सर्वोपाधिविनिर्मुक्तं कटकमुकुटादि उपाधिरहित सुवर्णघनवद् विज्ञान

चिन्मात्रस्वभावात्मा यदा भासते तदा त्वं पदार्थः प्रत्यगात्मा इति उच्यते । सत्यं ज्ञानमनन्तं ब्रह्म । सत्यमविनाशि ।

अविनाशि नाम देशकालवस्तु निमित्तेषु विनश्यत्सु यन्न विनश्यति तदविनाशि ।

ज्ञानं नाम उत्पत्ति विनाशरहितं नैरन्तर्यं चैतन्यं ज्ञानमित्युच्यते । अनन्तं नाम मृद्विकारेषु मृदिव स्वर्णविकारेषु

स्वर्णमिव तन्तुविकारेषु तन्तुरिव अव्यक्तादि सृष्टिप्रपञ्चेषु पूर्णं व्यापकं चैतन्यम् अनन्तमित्युच्यते ।

आनन्दं नाम सुखचैतन्यस्वरूपो अपरिमितानन्द समुद्रो अवशिष्टसुखस्वरूपश्च आनन्द इत्युच्यते ॥१२॥

एतद्वस्तुचतुष्टयं यस्य लक्षणं देशकाल वस्तु निमित्तेषु आव्यभिचारी तत्पदार्थः परमात्मेत्युच्यते ॥ ३॥

त्वं पदार्थाद् औपाधिकात् तत् पदार्थाद् औपाधिक भेदाद् विलक्षणम् आकाशवत् सूक्ष्मं केवलं सत्तामात्र स्वभावं परं ब्रह्म इति उच्यते ॥१४॥

माया नाम अनादिः अन्तवती प्रमाणाप्रमाणसाधारणा न सती नासती न सदसती स्वयमधिका विकाररहिता

निरूप्यमाणा सतीतरलक्षणशून्या सा माया इति उच्यते ।

अज्ञानं तुच्छाप्यसती कालत्रयेऽपि पामराणां वास्तवी च सत्त्वबुद्धिः लौकिकानाम् इदम् इत्थम् इति अनिर्वचनीया वक्तुं न शक्यते ॥१५॥

नाहं भवाम्यहं देवो नेन्द्रियाणि दशैव तु । न बुद्धिर्न मनः शश्वन् न अहङ्कारः तथैव च ॥१६॥

अप्राणो हि अमनाः शुभ्रो बुद्ध्यादीनां हि सर्वदा । साक्ष्यहं सर्वदा नित्यः चिन्मात्रोऽहं न संशयः ॥१७॥

नाहं कर्ता नैव भोक्ता प्रकृतेः साक्षिरूपकः । मत्सान्निध्यात् प्रवर्तन्ते देहाद्या अजडा इव ॥१८॥

स्थाणुर्नित्यः सदानन्दः शुद्धो ज्ञानमयोऽमलः । आत्माहं सर्वभूतानां विभुः साक्षी न संशयः ॥१९॥

ब्रह्मैवाहं सर्ववेदान्तवेद्यं नाहं वेद्यं व्योमवातादिरूपम् । रूपं नाहं नाम नाहं न कर्म ब्रह्मैवाहं सच्चिदानन्दरूपम् ॥२०॥

नाहं देहो जन्ममृत्यु कुतो मे नाहं प्राणः क्षुत्पिपासे कुतो मे ।

नाहं चेतः शोकमोहौ कुतो मे नाहं कर्ता बन्धमोक्षौ कुतो म इत्युपनिषत् ॥२१॥

ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

॥ ॐ शान्तिः शान्तिः शान्तिः ॥

Translation - भाषांतर
N/A

N/A
Last Updated : 2008-12-14T13:07:51.0530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

put option

  • विक्रय विकल्पाधिकार 
  • Stock -exch. (the purchase of the right to sell certain shares at an agreed price, usually in three months time) 
  • विक्रय विकल्प 
  • Stock-exch. (the purchase of the right to sell certain shares at an agreed price, usually in three months time) विक्रय विकल्पाधिकार 
More meanings
RANDOM WORD

Did you know?

घरातील देव्हार्‍यात कोणते देव पूजावेत आणि कोणते नाही?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 717,751
  • Total Pages: 47,439
  • Dictionaries: 46
  • Hindi Pages: 4,555
  • Words in Dictionary: 325,781
  • Marathi Pages: 28,417
  • Tags: 2,707
  • English Pages: 234
  • Sanskrit Pages: 14,232
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.