TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
अद्वयतारकोपनिषत्

अद्वयतारकोपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.

Upanishad are highly philosophical and metaphysical part of Vedas.


अद्वयतारकोपनिषत्

॥ अद्वयतारकोपनिषत् ॥ शुक्ल यजुर्वेद,संन्यास उपनिषद्

॥ श्रीः ॥

उपनिषद्ब्रह्मयोगिविरचितं विवरणम्

श्रीमदप्पयशिवाचार्यविरचितभाष्योपेता

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ।

व्याख्येयो विषयः तदधिकारी च

अथातोऽद्वयतारकोपनिषदं व्याख्यास्यामः । यतये जितेन्द्रियाय शमादिषड्गुणपूर्णाय ॥१॥

श्रीमद्विश्वाधिष्ठानपरमहंससद्गुरुरामचन्द्राय नमः

द्वैतासम्भवविज्ञानसंसिद्धाद्वयतारकं । तारकब्रह्मेति गितं वन्दे श्रीरामवैभवं ॥

इह खलु शुक्लयजुर्वेदप्रविभक्तेयं अद्वयतारकोपनिषत् राजयोगसर्वस्वं प्रकटयन्ती ब्रह्मात्रपर्यवसन्ना दृश्यते ।

अस्याः स्वल्पग्रन्थतो विवरणमारभ्यते । अत्र यथोक्ताधिकार्युद्देशेन श्रुतयः तारकयोगमुपदिशन्तीत्याह --अथेति ॥

अथ कर्मोपासनाकाण्डद्वयनिरूपणानन्तरं यतः तेन पुरुषार्थासिद्धिः अतः तदर्थं यत्र स्वातिरेकेण द्वयं न विद्यते

तत् अद्वयं ब्रह्म तन्मात्रबोधिनी विद्या तारकोपनिषत् तां श्रुतयो वयं व्याख्यास्यामः । कस्मा अधिकारिण इत्यत आह --यतय इति ।

स्वाश्रमानुष्ठनपूर्वकं देशिकंउखतो वेदन्तश्रवणं ततो युक्तिभिः श्रुत्यविरुद्धाभिः मननं च कृत्वा निदिध्यसानाय यतत इति यतिः ।

अजितेन्द्रियस्य यतित्वं कुत इत्यत आह --जितेन्द्रियायेति । जितेन्द्रियस्य यतित्वोपपत्तेः ।

अरिषड्वर्गाक्रान्तस्य जितेन्द्रियता कुत इत्यत आह -- शमादिषड्गुणपूर्णायेति ।

शमादिषड्गुणसम्पत्तेः अरिषड्वर्गोपरतिपूर्वकत्वात् ।

एवं साधनवते श्रुतयः तारकयोगमुपदिशन्तीत्यर्थः ॥१॥

योगोपाय तत्फलम्

चित्स्वरूपोऽहमिति सदा भवयन् सम्यङ्निमीलिताक्षः किञ्चिदुन्मीलिताक्षो वाऽन्तर्दृष्ट्या

भ्रूदहरादुपरि सच्चिदानन्दतेजःकूटरूपं परं ब्रह्मावलोकयन् तद्रूपो भवति ॥२॥

एवं निदिध्यसानोपायतत्फलमाह --चिदिति ॥ योगी स्वान्तः चिद्रूपोऽस्मीति भवयनर्धोन्मीलितलोचनः

भ्रूमध्यादौ सच्चिदानन्दमात्रं ब्रह्माहमस्मीत्यालोकयन्तद्रूपस्तारकरूपो भवति ॥२॥

अद्वयतारकपदार्थौ

गर्भजन्मजरामरणभयात्संतारयति तस्मात्तारकमिति ।

जीवेश्वरौ मायिकाविति विज्ञाय सर्वविशेषं नेति नेतीति विहाय यदवशिष्यते ततद्वयं ब्रह्म ॥३॥

किं तारकमित्यताह --गर्भेति ॥ ज्योतिर्लिङ्गं भ्रुवोर्मध्ये नित्यं ध्यायेत्सदा यतिः ।

इति श्रुतिसिद्धज्योतिर्लिङ्गस्य प्रत्यग्रूपत्वेन स्वाज्ञविकल्पितगर्भासादिसंसारतारकत्वात्तारकं प्रत्यगात्मेत्यर्थः ।

जीवेशभेदे सति प्रत्यगभिन्नब्रह्मभावः कुत इत्याशङ्क्य तयोर्भेदस्य मायिकत्वेन मिथ्यात्वात्ततो यच्छिष्यते तदेव ब्रह्मेत्याह --जीवेति ॥३॥

लक्ष्यत्रयानुसन्धानविधिः

तत्सिद्ध्यै लक्ष्यत्रयानुसंधानं कर्तव्यं ॥४॥

तदधिगमोपायः कथमित्यत आह तत्सिद्ध्या इति ॥४॥

रिच्छिन्नज्योतीरूपलक्ष्यानुसन्धानस्यापि चित्तशुद्धिफलकत्वम्

मूर्तामूर्तात्मकं यत्र तारकद्वयमुच्यते । ज्योतिर्दर्शनमार्गोक्तिं व्यख्यास्येऽद्वयतारकं ॥

ननु --जीवेश्वरौ मायिकाविति विज्ञाय सर्वविशेषं नेति नेतीति विहाय यदवशिष्यते ततद्वयं ब्रह्म इति यदुक्तं तद् युक्तमेव ।

अपि तु --तत्सिद्ध्यै लक्ष्यत्रयानुसंधानं कर्तव्यं इत्येतदयुक्तं । कुतः लक्ष्यत्रयस्य च देहान्तर्गतत्वेन परिच्छिन्नज्योतिःस्वरूपतया स्वयमपरिच्छिन्नत्वाभावात् ।

अद्वयब्रह्म हि अपरिच्छिन्नं महाकाशवत् प्रसिद्धं । तत्सिद्ध्यै परिच्छिन्नलक्ष्यत्रयानुसन्धानं कथं साधनं स्यात् ।

अपरिच्छिन्नब्रह्मसिद्ध्यै हि अपरिच्छिन्नब्रह्मध्यानं कर्तव्यं । अतः इह विरुद्धमुक्तिमिति चेत् --सत्यमेवैतत् ।

तथापि उक्तलक्ष्यत्रयानुसन्धानद्वारा संशुद्धचित्त्स्यैव वाक्यार्थश्रवणमननसंस्कृतान्तःकरणवशीकरणपूर्वकाप्

अरिच्छिन्न- ब्रह्मात्मैक्यानुसन्धानकरणसामर्थ्यसंभवात् । अन्यथा देहमध्यगतज्योतिर्दर्शनहीनत्य

वाक्यादिश्रवणादिप्रवृत्त्यसंभवाच्च परिच्छिन्नानुसन्धानं युक्तिमित्यनुसन्धानं ॥१-४॥

अन्तर्लक्ष्यलक्षणम्

देहमध्ये ब्रह्मनाडी सुषुम्ना सूर्यरूपिणी पूर्णचन्द्राभा वर्तते । सा तु मूलाधारादारभ्य ब्रह्मरन्ध्रगामिनी भवति ।

तन्मध्ये तटित्कोटिसमानकान्त्या मृणालसूत्रवत् सुक्ष्माङ्गी कुण्ण्दलिनीति प्रसिद्धाऽस्ति ।

तां दृष्ट्वा मनसैव नरः सर्वपापविनाशद्वारा मुक्तो भवति । फालोर्ध्वगललाटविशेषमण्डले निरन्तरं तेजस्तारकयोगविस्फुरणेन पश्यति चेत् सिद्धो भवति ।

तर्जन्यग्रोन्मीलितकर्णरन्ध्रद्वये तत्र फूत्कारशब्दो जायते । तत्र स्थिते मनसि चक्षुर्मध्यगतनीलज्योतिस्स्थलं विलोक्य अन्तर्दृष्ट्या निरतिशयसुखं प्राप्नोति ।

एवं हृदये पश्यति । एवमन्तर्लक्ष्यलक्षणं मुमुक्षुभिरुपास्यं ॥५॥

अन्तर्बाह्यमध्यभेदेन लक्ष्यं त्रिविधं । तत्र अन्तर्लक्ष्यलक्षणं तदभ्यासफलं चाह --देहेति ॥

यदा कुण्डलिनी प्राणदृष्टिमनोग्निभिः मूलाधारत्रिकोणाग्रालङ्कारसुषुम्नाऽधोवक्त्रं विभिद्य तन्मध्ये प्रविशति

तदा बाह्यान्तःप्रपञ्चविस्मरणपूर्वकं मुन्यन्तःकरणं निर्विकल्पब्रह्मपदं भजति । मुनिः निर्विकल्पज्ञानात् विकल्पात् मुक्तो भवतीत्यर्थः ।

तत्सिद्ध्युपायः कः इत्यत आह --फालेति । तद्गतसुखानुभवोपायं वदन् अन्तर्लक्ष्यं उपसंहरति -- तर्जनीति ।

सुखं प्राप्नोति न केवलं कर्णरन्ध्रद्वये एवं हृदये ॥५॥

बहिर्लक्ष्यलक्षणम्

अथ बहिर्लक्ष्यलक्षणं । नासिकाग्रे चतुर्भिः षड्भिरष्टभिः दशभिः द्वादशभिः क्रमात् अङ्गुलालन्ते

नीलद्युतिश्यामत्वसदृग्रक्तभङ्गीस्फुरत्पीतवर्णद्वयोपेतं व्योम यदि पश्यति स तु योगी भवति ।

चलदृष्ट्या व्योमभागवीक्षितुः पुरुषस्य दृष्ट्यग्रे ज्योतिर्मयूखा वर्तते । तद्दर्शनेन योगी भवति ।

तप्तकाञ्चनसङ्काशज्योतिर्मयूखा अपाङ्गान्ते भूमौ वा पश्यति तद्दृष्टिः स्थिरा भवति । शिर्षोपरि द्वादशाङ्गुलसमीक्षितुः अमृतत्वं भवति ।

यत्र कुत्र स्थितस्य शिरसि व्योमज्योतिर्दृष्टं चेत् स तु योगी भवति ॥६॥

बहिर्लक्ष्यलक्षणमाह --अथेति । योगी भवति इत्यादिकृत्स्नोपनिषत् प्रायशो मण्डलब्राह्मणोपनिषद्व्याख्यानेन व्याख्यातं स्यादिति मन्तव्यं ॥६॥

मध्यलक्ष्यलक्षणम्

अथ मध्यलक्ष्यलक्षणं प्रातश्चित्रादिवर्णाखण्डसूर्यचक्रवत् वह्निज्वालावलीवत् तद्विहीनान्तरिक्षवत् पश्यति ।

तदाकाराकारितया अवतिष्ठति । तद्भूयोदर्शनेन गुणरहिताकाशं भवति । विस्फुरत्तारकाकारदीप्यमानगाढतमोपमं परमाकाशं भवति ।

कालानलसमद्योतमानं महाकाशं भवति । सर्वोत्कृष्टपरमद्युतिप्रद्योतमानं तत्त्वाकाशं भवति । कोटिसूर्यप्रकाशवैभवसङ्काशं सूर्याकशं भवति ।

एवं बाह्याभ्यन्तरस्थव्योमपञ्चकं तारकलक्ष्यं । तद्दर्शी विमुक्तफलस्तादृग्व्योमसमानो भवति । तस्मात्तारक एव लक्ष्यममनस्कफलप्रदं भवति ॥७॥

अन्तर्बाह्यलक्ष्यस्वरूपमुक्त्वा मध्यलक्ष्यस्वरूपमाह --अथेति । तद्दर्शी विमुक्तस्वाज्ञानतत्कार्यफलः । यस्मादेवं तस्मात् ॥७॥

उक्तानां लक्ष्यत्रयव्योम्नां भौतिकत्वशङ्का

नन्विह अन्तर्लक्ष्यबाह्यलक्ष्यमध्यलक्ष्यलक्षणेषु उच्यमानेषु नीलरक्तपीत्रचित्रादिवर्णयुक्तव्योमदर्शनानि अवगम्यन्ते ।

नैतैः दर्शनैः किञ्चिदपि मुमुक्षोः प्रयोजनं भवितुमर्हति । कुतः नानाविधज्योतिर्विषयकत्वेन भौतिकत्वात् ।

यदि ब्रह्मज्योतिर्दर्शनं स्यात्तदा क्रममुक्त्यै वा तत् उपयुक्तं स्यात् । न तु तदेतत् । ब्रह्मणः एवं नानाविधत्वाभावात् ।

भौतिकानि तु ज्योतींषि उपाधिभेदात् बहुविधानि भवितुमर्हन्ति । तस्मात् प्रपञ्चितलक्षणबहुविधज्योतिर्दर्शनानि सिद्ध्यर्थकानि स्युः ।

उपनिषदां वैयर्थ्यकल्पनानर्हत्वात् । इति चेत् --

तन्निरसनेन एषां मुमुक्षूपयोगित्वनिर्णयः

अत्रोच्यते । निर्विशेषस्य परस्य ब्रह्मण एव एतानि ज्योतींषि इति । कुतः भौतिकज्योतिषं देहाद्बहिः दर्शनीयत्वेन देहान्तदर्शनायोग्यत्वात् ।

प्रत्यगात्मज्योतिषः एकरूपत्वेऽपि विविधनाडीवन्नाडीसम्बन्धवशात् नानावर्णोपपत्तेः ।

यथा एकवृत्तिमानप्यात्मा नानानाडीसम्बन्धवशात् जाग्रत्स्वप्नसुषुप्त्यवस्थाविशेषैः नानाविधः अनुभूयते तद्वत् ।

यद्यपि एतेषां ज्योतिषाम्खण्डत्वेन दर्शनविषयत्वाभात् क्रममुक्त्यै परम्परया सद्योमुक्त्यै वा साधनत्वण् स्यात् ।

न तु साक्षात् सद्योमुक्त्यै । न तु तावता सिद्ध्यार्थकानि मुमुक्षोः अनुपयुक्तानीति वक्तुं युक्तं ॥५-७॥

द्विविधं तारकम्

तत्तारकं द्विविधं पूर्वार्धं तारकमुत्तरार्धममनस्कं चेति । तदेष श्लोको भवेति --

तद्योगं च द्विधा विद्धि पूर्वोत्तरविधानतः । पूर्वं तु तारकं विद्यात् अमनस्कं तदुत्तरमिति ॥८॥

तारकयोगसिद्धिः

तारकयोगस्य सोमसृर्यैक्यदर्शनैकफलकत्वं ।

अक्ष्यन्तस्तारयोः चन्द्रसूर्यप्रतिफलनं भवति । तारकाभ्यां सूर्यचन्द्रमण्डलदर्शनं ब्रह्माण्डमिव पिण्डाण्डशिरोमध्यस्थाकाशे

रवीन्दुमण्डलद्वितयमस्तीति निश्चित्य तारकाभ्यां तद्दर्शनं । अत्राप्युभयैक्यदृष्ट्या मनोयुक्तं ध्यायेत् तद्योगाभावे इन्द्रयप्रवृत्तेरनवकाशात् ।

तस्मातन्तर्दृष्ट्या तारक एवानुसंधेयः ॥९॥

ब्रह्माण्डवत् पिण्डाण्डेऽपि रवीन्दू विद्येते इति निश्चित्य तारकाभ्यां तदैक्यदर्शनतः तारकयोगसिद्धिः भवेदित्याह --अक्षीति ॥

अयोगी यथा ब्रह्माण्डस्थचन्द्रसूर्यौ मनस्सहकृततारकाभ्यां पश्यति तथा योगी स्वमस्तकाकाशविभातरवीन्दुद्वयं मनस्सहकृतताराभ्यां अवलोकयेदित्यर्थः ।

रूपदर्शनस्य चक्षुरधीनत्वात् किं मनसेत्यत आह --तदिति । मनसि अन्यत्र व्यापृते रूपादिग्रहणशक्तिः चक्षुरादेः नास्तीत्यत्र अन्यत्रमना

अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमित्यादिश्रुतेः । यस्मादेवं तस्मात् ॥९॥

ननु निर्गुणाकाशं परमाकाशं महाकाशं तत्त्वाकाशं सूर्याकाशं चेति तारकलक्ष्यं आकाशपञ्चकमभिधीयते ।

अत्र कथं पूर्वोत्तरार्धविभागः इति । अत्रोच्यते । उभयैक्यदृष्ट्या मनोयुक्तं ध्यायेतिति तार एवानुसन्ध्येयः ।

इति च ध्यानयोगाभ्यासस्य विहितत्वात् । तदभ्यासकालः पूर्वार्धः तारकयोगसंज्ञकः तत्फलीभूतज्योतिर्दृशनकालः उत्तरार्धः अमनस्कयोगसंज्ञकः ।

एवमेव च आकाशपञ्चकदर्शने पूर्वोत्तरविभागो मन्तव्यः ॥९॥

मूर्तामूर्तभेदेन द्विविधमनुसन्धेयम्

तारकं द्विविधं मूर्तितारकं अमूर्तितारकं चेति । यतिन्द्रियान्तं तत् मूर्तिमत् । यत् भ्रूयुगातीतं तत् अमूर्तिमत् ।

सर्वत्र अन्तःपदार्थविवेचने मनोयुक्ताभ्यास इष्यते । तारकाभ्यं तदूर्ध्वस्थसत्त्वदर्शनात् मनोयुक्तेन अन्तरीक्षणेन सच्चिदानन्दस्वरूपं ब्रह्मैव ।

तस्मात् शुक्लतेजोमयं ब्रह्मेति सिद्धं । तद्ब्रह्म मनःसहकारिचक्षुषा अन्तर्दृष्ट्या वेद्यं भवति । एवममूर्तितारकमपि ।

मनोयुक्तेन चक्षुषैव दहरादिकं वेद्यं भवति रूपग्रहणप्रयोचनस्य मनश्चक्षुरधीनत्वात् बाह्यवदान्तरेऽपि आत्ममनश्चक्षुःसंयोगेनैव रूपग्रहणकार्योदयात् ।

तस्मान्मनोयुक्ता अन्तर्दृष्टिः तारकप्रकाशाय भवति ॥१०॥

यदनुसन्धेयं तत् कतिविधमित्यत्र तत्तारकं ॥ बाह्यपदार्थविवेचनवत् अन्तःपदार्थविवेचनमपि मनश्चक्षुरधीनमित्याह --सर्वत्रेति ।

तदूर्ध्वस्थसत्त्वदर्शनात् भ्रूमध्योर्ध्वविलसितोत्तरतारकलक्ष्यदर्शनात् । केनैतद्दर्शनीयमित्यत्र मनोयुक्तेनेति ।

ब्रह्मैव उत्तरतारकलक्ष्यमित्यनुसंधेयं । यस्मादेवं तस्मात् । भ्रूमध्यादिस्थलविलसित्शुक्लतेजसो मनःकल्पितत्वेऽपि

ब्रह्मणः सर्वव्यापकत्वेन तत्रापि विद्यमानत्वात् तदेव ब्रह्मेति अभिमतिद्रढिम्ना लीने तत्र मनसि कल्पकसापेक्षकल्पनावैरळये

निर्विकल्पकं ब्रह्मैव अवशिष्यते इत्यर्थः । यत्तेजो मनःकल्पितं तद्ब्रह्म । यस्मादेवं तस्मात् ॥१०॥

मूर्तितारकामूर्तितारकयोश्च इन्द्र्यान्तभ्रूयुगातीतत्वकथनेन सगुणमूर्तिध्यानपरत्वं चावगन्तव्यं ।

सगुणमूर्तिध्यानस्य च निष्कामकृतस्य च क्रममुक्तिचित्तशुद्धिप्रयोजनतया सुप्रसिद्धत्वात् ॥१०॥

तारकयोगस्वरूपं

भ्रूयुगमध्यबिले दृष्टिं तद्द्वारा ऊर्ध्वस्थिततेज आविर्भूतं तारकयोगो भवति ।

तेन सह मनोयुक्तं तारकं सुसंयोज्य प्रयत्नेन भ्रूयुग्मं सावधानतया किञ्चिदूर्ध्वम्त्क्षेपयेत् ।

इति पूर्वतारकयोगः । उत्तरं तु अमूर्तिमतमनस्कमित्युच्यते । तालुमूलोर्ध्वभागे महान् ज्योतिर्मयूखो वर्तते ।

तत् योगिभिर्ध्येयं । तस्मातणिमादिसिद्धिर्भवति ॥११॥

कोऽयं तारकयोग इत्यत्र भ्रूयुगमध्यबिले तत्रत्याज्ञाचक्रे दृष्टियुग्मं संनिवेश्य । सावधानतया विलोकयन् ।

ध्येयं तज्ज्योतिः ब्रह्मेति योगिभिश्चिन्त्यमित्यर्थः । ततः किं भवतीत्यत्र तस्मादिति ॥११॥

प्रकृतयोगे पूर्णमनोविलयाभावेन दृश्यमानज्योतिषः प्रत्यगात्मस्वरूपत्वनिर्णयः

इदं ज्योतिः त्वंपदार्थः आहोस्वित् तत्पदार्थः इति संशीयते । कुतः संशयः त्वंपदार्थविवेचन इति सच्चिदानन्दस्वरूपं ब्रह्मैवेति च उक्तत्वात् ।

अत्रोच्यते । त्वंपदार्थः प्रत्यगात्मैव । ब्रह्मांशत्वात्तु ब्रह्मत्वमुपचर्यते साक्षाद्ब्रह्मयोगो हि मनोवियुक्ताभ्यासरूपः । तत्रैव मनोनाशसम्भवात् ।

मनोयुक्ताभ्यासस्तु प्रकृतः कण्ठरवोक्तः । मनस्सहकारिचक्षुषा वेद्यं भवतीति च । यदि मनसैव वेद्यमित्युक्तं तदा अन्तर्दृष्टेः मनोऽनन्यत्वात् मनसः

ब्रह्मणि विलयसम्भवाच्च अखण्डब्रह्मयोग एव विवक्षितः इति वक्तुं शक्यं । न तु तदस्ति । प्रत्यगात्मयोगे च आन्तरे बाह्यवत्

आत्ममनश्चक्षुस्संयोगेनैव रूपग्रहणकार्योदयः स्यात् । न तु ब्रह्मयोगे तदीयाखण्डसम्यग्दर्शनं चक्षुरधीनं मनोऽदीनं वा भवति ।

चक्षुर्मनसी पृष्ठतः कृत्वा स्वयंप्रकशमानत्वात् । ननु मनोयुक्तान्तर्दृष्टिरित्युक्तत्वात् मनसः अन्तर्दृष्टिद्वारा ब्रह्मणि विलय एव अर्थादवगम्यते इति चेत्र ।

बह्यवदित्युक्तत्वेन प्रकृतयोगे मनोविलयासम्भवात् । तात्कालिकस्तु मनोलयः सुषुप्तस्येव नात्यन्त श्लाध्यतमो भवितुमर्हति ।

यद्वा क्रममुक्तिसाधनीभूतोऽपि स मनोलयः पुनर्जन्मबीजभर्जनाभावात् न नाशापरपर्यायः इत्यवगन्तव्यं ॥११॥

शाम्भवीमुद्रा

अन्तर्बाह्यलक्ष्ये दृष्टौ निमेषोन्मेषवर्जितायां सत्यं सांभवी मुद्रा भवति ।

तन्मुद्रारूढज्ञानिनिवासात् भूमिः पवित्रा भवति । तद्दृष्ट्या सर्वे लोकाः पवित्रा भवन्ति ।

तादृशपरमयोगिपूजा यस्य लभ्यते सोऽपि मुक्तो भवति ॥१२॥

यत्योगिभिः ध्येयमुक्तं पर्यवसाने तदेव सांभवी मुद्रा भवतीत्याह अन्तरिति ॥ मुद्रा भवति इत्यत्र

अन्तर्लक्ष्यं बहिर्दृष्टिः निमेषोन्मेषवर्जिता । एषा सा शाम्भवी मुद्रा सर्वतन्त्रेषु गोपिता ॥

इति श्रुतेः । तन्मुद्रारूढयोगिनं स्तौति --तदिति । पवित्रा भवति इत्यत्र स्वपादन्यासमात्रेण पावयन् वसुधातलं इति स्वरूपदर्शनोक्तेः ।

पवित्रा भवन्ति --स्वेचरा भूचराः सर्वे ब्रह्मविद्दृष्टिगोचराः । सद्य एव विमुच्यन्ते कोटिजन्मार्जितैरघैः ॥

इति श्रुतेः ॥१२॥

अन्तर्लक्ष्यविकल्पाः

अन्तर्लक्ष्यज्वलज्ज्योतिःस्वरूपं भवति । परमगुरूपदेशेन सहस्रारज्वलज्ज्योतिर्वा बुद्धिगुहानिहितचिज्ज्योतिर्वा

षोडशान्तस्थतुरीयचैतन्यं वा अन्तर्लक्ष्यं भवति । तद्दर्शनं सदाचार्यमूलं ॥१३॥

अन्तर्लक्ष्यं विकल्प्य निर्धारयति --परमेति ॥ उक्तविकल्पानां एकार्थपर्यवसायित्वात् तद्दर्शनमूलं किमित्यत्र -- तद्दर्शनमिति ॥१३॥

आचार्यलक्षणम्

आचार्यो वेदसंपन्नो विष्णुभक्तो विमत्सरः । योगज्ञो योगनिष्ठश्च सदा योगात्मकः शुचिः ॥१४॥

गुरुभक्तिसमायुक्तः पुरुष्ज्ञो विशेषतः । एवं लक्षणसंपन्नो गुरुरित्यभिधीयते ॥१५॥

गुशब्दस्त्वन्धकारः स्यात् रुशब्दस्तन्निरोधकः । अन्धकारनिरोधित्वात् गुरुरित्यभिधीयते ॥१६॥

गुरुरेव परं ब्रह्म गुरुरेव परा गतिः । गुरुरेव परा विद्या गुरुरेव परायणं ॥१७॥

गुरुरेव परा काष्ठा गुरुरेव परं धनं । यस्मात्तदुपदेष्टाऽसौ तस्माद्गुरुतरो गुरुरिति ॥१८॥

आचार्यलक्षणमुक्त्वा गुरुशब्दार्थमाह --गुशब्दस्त्विति ॥१४-१८॥

 

परमात्मदर्शनाङ्गभूतप्रत्यगात्मदर्शनस्य सर्वथा अनुपेक्षणीयत्वोद्धोषः

नन्विह तादृशपरमयोगिपूजा यस्य लभ्यते सोऽपि मुक्तो भवतीति एतादृशानि वाक्यानि अर्थवादाः एवस्युः ।

कुतः सहस्रारज्वलज्ज्योतिर्वा -- इत्यादिवाक्योक्तदेहपरिच्छिन्नज्योतिर्मात्रे पर्यवसन्नायाः अस्याः उपनिषद

आद्यन्तपर्यालोचनेऽपि अपरिच्छिन्नब्रह्मात्मैक्ययोगस्य क्वचिदपि अनुक्तत्वात् । इति चेत् -- अत्रोच्यते । सत्यमेवैतत् ।

त्वंपदलक्ष्यार्थसिद्ध्या अहंपदलक्ष्यार्थस्यापि सिद्धित्वेन कैमुतिकन्यायात् ब्रह्मपदार्थसिद्धेः कथं त्वमहंपदार्थयोः भेदः नायं दोषः ।

त्वं पदस्य खण्डप्रत्यगात्मार्थकत्वात् । अहंपदस्य तत्त्वमसिवाक्यार्थज्ञानोदयानन्तरं अखण्डब्रह्मयोगाभ्यासार्थं ग्राह्यत्वेन

अखण्डप्रत्यगात्मार्थकत्वाच्च त्वमहंपदयोः भेदस्य विस्पष्टत्वात् । तस्मादत्र उक्तयोगिनः सद्योमुक्त्यभावेन औपचरिकपरमत्त्वेन च

प्रकृतवाक्यानि अर्थवादा एव । तथापि स्वदेहान्तर्वर्तिज्योतिदर्शनं विना तत्त्वमसि इति उपदिशतामहं ब्रह्मास्मीति वाङ्मात्रेण

प्रलपतां च भ्रान्ततमानां कल्पकोटिष्वपि संसारबन्धान्मोक्षासम्भवात् मोक्षप्रथमसाधनत्वाच्चास्य दर्शनस्य उपेक्षा न कदापि कार्या इति स्थितं ॥१२-१८॥

ग्रन्थाभ्यासफलम्

यः सकृदुच्चारयति तस्य संसारमोचनं भवति । सर्वजन्मकृतं पापं तत्क्षणादेव नश्यति । सर्वान् कामानवाप्नोति ।

सर्वपुरुषार्थसिद्धिर्भवति । य एवं वेदेत्युपनिषत् ॥१९॥

ग्रन्थतदर्थपठनानुसन्धानफलमहा --य इति ॥ कामाकामधियां पठनफलं सर्वकामाप्तिः परमपुरुषार्थाप्तिश्च ।

इत्युपनिषच्छब्दः अद्वयतारकोपनिषत्समाप्त्यर्थः ॥१९॥

श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना । अद्वयोपनिषद्व्याख्या लिखितेश्वरगोचरा । अद्वयोपनिषद्व्याख्याग्रन्थोऽशीतिरितीरितः ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ।

इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे त्रिपञ्चाशत्सङ्ख्यापूरकं अद्वयतारकोपनिषद्विवरणण् संपूर्णं ।

इति श्रीमत्सुन्दरेश्वरताताचार्यशिष्याप्पयशिवाचार्यकृतिषु अद्वयतारकोपनिषद्भाष्यं समाप्तं ॥ ॐ ॥

ॐ श्रीमद्विश्वाधिष्ठनपरमहंससद्गुरुरामचन्द्रार्पणमस्तु ॥

Translation - भाषांतर
N/A

N/A
Last Updated : 2008-12-14T13:09:11.4770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

low voltage

  • निम्न व्होल्टतेचा 
  • निम्न व्होल्टता- 
  • = low pressure 
RANDOM WORD

Did you know?

कापूर जाळण्यामागची संकल्पना काय? कांही फायदे आहेत काय?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.