TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
गोपालतापिन्युपनिषत्

गोपालतापिन्युपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.

Upanishad are highly philosophical and metaphysical part of Vedas.


गोपालतापिन्युपनिषत्

॥गोपालतापिन्युपनिषत् ॥ अथर्व वेद,वैष्णव उपनिषद्

श्रीमत्पञ्चपदागारं सविशेषतयोज्ज्वलम् । प्रतियोगिविनिर्मुक्तं निर्विशेषं हरिं भजे ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥भद्रं पश्येमाक्षभिर्यजत्राः ॥स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ॥व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः ॥स्वस्ति नः पूषा विश्ववेदाः ॥स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥गोपालतापनं कृष्णं याज्ञवल्क्यं वराहकम् । शाट्यायनी हयग्रीवं दत्तात्रेयं च गारुडम् ॥

हरिः ॐ सच्चिदानन्दरूपय कृष्णायाक्लिष्टकर्मणे । नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥मुनयो ह वै ब्राह्मणमूचुः ।

कः परमो देवः कुतो मृत्युर्बिभेति । कस्य विज्ञानेनाखिलं विज्ञातं भवति । केनेदं विश्वं संसरतीति । तदुहोवाच ब्राह्मणः ।

कृष्णो वै परमं दैवतम् । गोविन्दान्मृत्युर्बिभेति । गोपीजनवल्लभज्ञानेनैतद्विज्ञातं भवति । स्वाहेदं विश्वं संसरतीति ।

तदुहोचुः । कः कृष्णः । गोविन्दश्च कोऽसाविति । गोपीजनवल्लभश्च कः । का स्वाहेति । तानुवाच ब्राह्मणः ।

पापकर्षणो गोभूमिवेदवेदितो गोपीजनविद्याकलापप्रेरकः । तन्माया चेति सकलं परं ब्रह्मैव तत् ।

यो ध्यायति रसति भजति सोऽमृतो भवतीति । ते होचुः । किं तद्रूपं किं रसनं किमाहो तद्भजनं तत्सर्वं विविदिषतामाख्याहीति ।

तदुहोवाच हैरण्यो गोपवेषमभ्रामं कल्पद्रुमाश्रितम् । तदिह श्लोका भवन्ति ॥सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् ।

द्विभुजं ज्ञानमुद्राढ्यं वनमालिनमीश्वरम् ॥१॥

गोपगोपीगवावीतं सुरद्रुमतलाश्रितम् । दिव्यालंकरणोपेतं रत्नपङ्कजमध्यगम् ॥२॥

कालिन्दीजलकल्लोलसङ्गिमारुतसेवितम् । चिन्तयञ्चेतसा कृष्णं मुक्तो भवति संसृतेः ॥३॥

इति॥तस्य पुना रसनमितिजलभूमिं तु संपाताः । कामादि कृष्णायेत्येकं पदम् । गोविन्दायेति द्वितीयम् ।

गोपीजनेति तृतीयम् । वल्लभेति तुरीयम् ।

स्वाहेति पञ्चममिति पञ्चपदं जपन्पञ्चाङ्गं द्यावाभूमी सूर्याचन्द्रमसौ तद्रूपतया ब्रह्म संपद्यत इति ।

तदेष श्लोकः क्लीमित्येतदादावादाय कृष्णाय गोविन्दाय गोपीजनवल्लभायेति बृहन्मानव्यासकृदुच्चरेद्योऽसौ गतिस्तस्यास्ति मङ्क्षु नान्या गतिः स्यादिति ।

भक्तिरस्य भजनम् । एतदिहामुत्रोपाधिनैराश्ये- नामुष्मिन्मनःकल्पनम् । एतदेव च नैष्कर्म्यम् । कृष्णं तं विप्रा बहुधा यजन्ति

गोविन्दं सन्तं बहुधा आराधयन्ति ।

गोपीजनवल्लभो भुवनानि दध्रे

स्वाहाश्रितो जगदेतत्सुरेताः ॥१॥

वायुर्यथैको भुवनं प्रविष्टो

जन्येजन्ये पञ्चरूपो बभूव ।

कृष्णस्तदेकोऽपि जगद्धितार्थं

शब्देनासौ पञ्चपदो विभाति ॥२॥

इति॥

ते होचुरुपासनमेतस्य परमात्मनो गोविन्दस्याखिलाधारिणो ब्रूहीति । तानुवाच यत्तस्य पीठं हैरण्याष्टपलाशमम्बुजं तदन्तराधिकानलास्त्रयुगं

तदन्तरालाद्यर्णाखिलबीजं कृष्णाय नम इति बीजाढ्यं सब्रह्मा ब्राह्मणमादायानङ्गगायत्रीं यथावदालिख्य भूमण्डलं शूलवेष्टितं

कृत्वाङ्गवासुदेवादि- रुक्मिण्यादिस्वशक्तिं नन्दादिवसुदेवादिपार्थादिनिध्यादिवीतं यजेत्सन्ध्यासु प्रतिपत्तिभिरुपचारैः । तेनास्याखिलं भवत्यखिलं भवतीति ॥२॥

तदिह श्लोका भवन्ति । एको वशी सर्वगः कृष्ण ईड्य

एकोऽपि सन्बहुधा यो विभाति ।

तं पीठं येऽनुभजन्ति धीरा-

स्तेषां सिद्धिः शाश्वती नेतरेषाम् ॥३॥

नित्यो नित्यानां चेतनश्चेतनाना-

मेको बहूनां यो विदधाति कामान् ।

तं पीठगं येऽनुभजन्ति धीरा-

स्तेषां सुखं शाश्वतं नेतरेषाम् ॥४॥

एतद्विष्णोः परमं पदं ये

नित्योद्युक्तास्तं यजन्ति न कामात् ।

तेषामसौ गोपरूपःप्रयत्ना-

त्प्रकाशयेदात्मपदं तदेव ॥५॥

यो ब्रह्माणं विदधाति पूर्वं

यो विद्यां तस्मै गोपयति स्म कृष्णः ।

तं ह देवमात्मबुद्धिप्रकाशं

मुमुक्षुः शरणं व्रजेत् ॥६॥

ओङ्कारेणान्तरितं ये जपन्ति

गोविन्दस्य पञ्चपदं मनुम् ।

तेषामसौ दर्शयेदात्मरूपं

तस्मान्मुमुक्षुरभ्यसेन्नित्यशान्तिः ॥७॥

एतस्मा एव पञ्चपदादभूव-

न्गोविन्दस्य मनवो मानवानाम् ।

दशार्णाद्यास्तेऽपि संक्रन्दनाद्यै-

रभ्यस्यन्ते भूतिकामैर्यथावत् ॥८॥

पप्रच्छुस्तदुहोवाच ब्रह्मसदनं चरतो मे ध्यातः स्तुतः परमेश्वरः परार्धान्ते सोऽबुध्यत । कोपदेष्टा मे पुरुषः पुरस्तादाविर्बभूव ।

ततः प्रणतो मायानुकूलेन हृदा मह्यमष्टादशार्णस्वरूपं सृष्टये दत्त्वान्तर्हितः । पुनस्ते सिसृक्षतो मे प्रादुरभूवन् ।

तेष्वक्षरेषु विभज्य भविष्यज्जगद्रूपं प्राकाशयम् । तदिह कादाकालात्पृथिवीतोऽग्निर्बिन्दोरिन्दुस्तत्संपातात्तदर्क इति ।

क्लींकारादजस्रं कृष्णादाकाशं खाद्वायुरुत्तरात्सुरभिविद्याः प्रादुरकार्षमकार्षमिति । तदुत्तरात्स्त्रीपुंसादिभेदं सकलमिदं सकलमिदमिति ॥३॥

एतस्यैव यजनेन चन्द्रध्वजो गतमोहमात्मानं वेदयति । ओङ्कारालिकं मनुमावर्तयेत् । सङ्गरहितोभ्यानयत् ।

तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् । तस्मादेनं नित्यमावर्तवेन्नित्यमावर्तयेदिति । ॥४॥

तदाहुरेके यस्य प्रथमपदाद्भूमिर्द्वितीयपदाज्जलं तृतीयपदात्तेजश्चतुर्थपदाद्वायुश्चरमपदाद्व्योमेति ।

वैष्णवं पञ्चव्याहृतिमथं मन्त्रं कृष्णावभासकं कैवल्यस्य सृत्यै सततमावर्तयेत्सततमावर्तयेदिति ॥५॥

तदत्र गाथाः यस्य चाद्यपदाद्भूमिर्द्वितीयात्सलिलोद्भवः । तृतीयात्तेज उद्भूतं चतुर्थाद्गन्धवाहनः ॥१॥

पञ्चमादम्बरोत्पत्तिस्तमेवैकं समभ्यसेत् । चन्द्रध्वजोऽगमद्विष्णोः परमं पदमव्ययम् ॥२॥

ततो विशुद्धं विमलं विशोक-

मशेषलोभादिनिरस्तसङ्गम् ।

यत्तत्पदं पञ्चपदं तदेव

स वासुदेवो न यतोऽन्यदस्ति ॥३॥

तमेकं गोविन्दं सच्चिदानन्दविग्रहं पञ्चपदं वृन्दावनसुरभूरुहतलासीनं सततं मरुद्गणोऽहं परमया स्तुत्या स्तोष्यामि ॥

ॐ नमो विश्वस्वरूपाय विश्वस्थित्यन्तहेतवे । विश्वेश्वराय विश्वाय गोविन्दाय नमोनमः ॥१॥

नमो विज्ञानरूपाय परमानन्दरूपिणे । कृष्णाय गोपीनाथाय गोविन्दाय नमोनमः ॥२॥

नमः कमलनेत्राय नमः कमलमालिने । नमः कमलनाभाय कमलापतये नमः ॥३॥

बर्हापीडाभिरामाय रामायाकुण्ठमेधसे । रमामानसहंसाय गोविन्दाय नमोनमः ॥४॥

कंसवंशविनाशाय केशिचाणूरघातिने । वृषभध्वजवन्द्याय पार्थसारथये नमः ॥५॥

वेणुनादविनोदाय गोपालायाहिमर्दिने । कालिन्दीकूललोलाय लोलकुण्डलधारिणे ॥६॥

पल्लवीवदनाम्भोजमालिने नृत्तशालिने । नमः प्रणतपालाय श्रीकृष्णाय नमोनमः ॥७॥

नमः पापप्रणाशाय गोवर्धनधराय च । पूतनाजीवितान्ताय तृणावर्तासुहारिणे ॥८॥

निष्कलाय विमोहाय शुद्धायाशुद्धवैरिणे । अद्वितीयाय महते श्रीकृष्णाय नमोननमः ॥९॥

प्रसीद परमानन्द प्रसीद परमेश्वर । आधिव्याधिभुजङ्गेन दष्टं मामुद्धर प्रभो ॥१०॥

श्रीकृष्ण रुक्मिणीकान्त गोपीजनमनोहर । संसारसागरे मग्नं मामुद्धर जगद्गुरो ॥११॥

केशव क्लेशहरण नारायण जनार्दन । गोविन्द परमानन्द मां समुद्धर माधव ॥१२॥

अथैवं स्तुतिभिराराधयामि । तथा यूयं पञ्चपदं जपन्तः श्रीकृष्णं ध्यायन्तः संसृतिं तरिष्यथेति होवाच हैरण्यगर्भः ।

अमुं पञ्चपदं मनुमार्तयेयेद्यः स यात्यनायासतः केवलं तत्पदं तत् । अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षदिति ।

तस्मात्कृष्ण एव परमं देवस्तं ध्यायेत् । तं रसयेत् । तं यजेत् । तं भजेत् । ॐ तत्सदित्युपनिषत् ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥भद्रं पश्येमाक्षभिर्यजत्राः ॥स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ॥व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः ॥स्वस्ति नः पूषा विश्ववेदाः ॥स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥इति गोपालपूर्वतापिन्युपनिषत्समाप्ता ॥

ॐ एकदा हि व्रजस्त्रियः सकामाः शर्वरीमुषित्वा सर्वेश्वरं गोपालं कृष्णमूचिरे ।

उवाच ताः कृष्ण अमुकस्मै ब्राह्मणाय भैक्ष्यं दातव्यमिति दुर्वासस इति । कथं यास्यामो जलं तीर्त्वा यमुनायाः ।

यतः श्रेयो भवति कृष्णेति ब्रह्मचारीत्युक्त्वा मार्गं वो दास्यति । यं मां स्मृत्वाऽगाधा गाधा भवति । यं मां स्मृत्वाऽपूतः पूतो भवति ।

यं मां स्मृत्वाऽव्रती व्रती भवति । यं मां स्मृत्वा सकामो निष्कामो भवति । यं मां स्मृत्वाऽश्रोत्रियः श्रोत्रियो भवति ।

यं मां स्मृत्वाऽगाधतः स्पर्शरहितापि सर्वा सरिद्गाधा भवति ।

श्रुत्वा तद्वाक्यं हि वै रौद्रं स्मृत्वा तद्वाक्येन तीर्त्वा तत्सौर्यां हि वै गत्वाश्रमं पुण्यतमं हि वै नत्वा मुनिं श्रेष्ठतमं हि वै रौद्रं चेति ।

दत्त्वास्मै ब्राह्मणाय क्षीरमयं घृतमयमिष्टतमं हि वै मृष्टतमं हि तुष्टः स्नात्वा भुक्त्वा हित्वशिषं प्रयुज्यान्नं ज्ञात्वादात् ।

कथं यास्यामो तीर्त्वा सौर्याम् । स होवाच मुनिर्दुर्वासनं मां स्मृत्वा वो दास्यतीति मार्गम् ।

तासां मध्ये हि श्रेष्ठा गान्धर्वी ह्युवाच तं तं हि वै तामिः । एवं कथं कृष्णो ब्रह्मचारी । कथं दुर्वासनो मुनिः ।

तां हि मुख्यां विधाय पूर्वमनुकृत्वा तूष्णीमासुः । शब्दवानाकाशः शब्दाकाशाभ्यां भिन्नः । तस्मिन्नाकाशस्तिष्ठति ।

आकाशे तिष्ठति स ह्याकाशस्तं न वेद । स ह्यात्मा । अहं कथं भोक्ता भवामि । रूपवदिदं तेजो रूपाग्निभ्यां भिन्नम् ।

तस्मिन्नग्निस्तिष्ठति । अग्नौ तिष्ठति अग्निस्तं न वेद । स ह्यात्मा । अहं कथं भोक्ता भवामि ।

रसवत्य आपो रसाद्भ्यां भिन्नाः । तास्वापस्तिष्ठन्ति । अप्सु भूमिर्गन्धभूमिभ्यां भिन्ना । तस्यां भूमिस्तिष्ठति ।

भूमौ तिष्ठति । भूमिस्तं न वेद । स ह्यात्मा । अहं कथं भोक्ता भवामि । इदं हि मनसैवेदं मनुते । तानिदं हि गृह्णाति ।

यत्र सर्वमात्मैवाभूत्तत्र कुत्र वा मनुते । कथं वा गच्छतीति । स ह्यात्मा । अहं कथं भोक्ता भवामि ।

अयं हि कृष्णो यो हि प्रेष्ठः शरीरद्वयकारणं भवति । द्वा सुपर्णा भवतो ब्रह्मणोऽहं संभूतस्तथेतरो भोक्ता भवति ।

अन्यो हि साक्षी भवतीति । वृक्षधर्मे तौ तिष्ठतः । अतोओ भोक्तभोक्तारौ । पूर्वो हि भोक्ता भवति ।

तथेतरोऽभोक्ता कृष्णो भवतीति । यत्र विद्याविद्ये न विदाम । विद्याविद्याभ्यां भिन्नो विद्यामयो हि यः कथं विषयी भवतीति ।

यो ह वै कामेन कामान्कामयते स कामी भवति । यो ह वै त्वकामेन कामान्कामयते सोऽकामी भवति ।

जन्मजराभ्यां भिन्नः स्थाणुरयमच्छेद्योऽयं योऽसौ सूर्ये तिष्ठति योऽसौ गोषु तिष्ठति । योऽसौ गोपान्पालयति ।

योऽसौ सर्वेषु देवेषु तिष्ठति । योऽसौ सर्वैर्देवैर्गीयते । योऽसौ सर्वेषु भूतेष्वाविश्य भूतानि विदधाति स वो हि स्वामी भवति ।

सा होवाच गान्धर्वी । कथं वास्मासु जातो गोपालः कथं वा ज्ञातोऽसौ त्वया मुने कृष्णः । को वास्य मन्त्रः किं स्थानम् ।

कथं वा देवक्या जातः । को वास्य जायाग्रामो भवति । कीदृशी पूजास्य गोपालस्य भवति ।

साक्षात्प्रकृति- परोऽयमात्मा गोपालः कथं त्ववतीर्णो भूम्यां हि वै सा गान्धर्वी मुनिमुवाच ।

स होवाच तां हि वै पूर्वं नारायणो यस्मिंल्लोका ओताश्च प्रोताश्च तस्य हृत्पद्माजातोऽब्जयोनिस्तपस्तपस्तप्त्वा तस्मै ह वरं ददौ ।

स कामप्रश्नमेव वव्रे । तं हास्मै ददौ । स होवाचाब्जयोनिः यो वावताराणां मध्ये श्रेष्ठोऽवतारः को भवति । येन लोकास्तुष्टा भवन्ति ।

यं स्मृत्वा मुक्ता अस्मात्संसाराद्भवन्ति । कथं वास्यावतारस्य ब्रह्मता भवति । स होवाच तं हि वै नारायणो देवः ।

सकाम्या मेरोः शृङ्गे यथा सप्तपुर्यो भवन्ति तथा निष्काम्याः सकाम्या भूगोपालचक्रे सप्तपुर्यो भवन्ति ।

तासां मध्ये साक्षाद्ब्रह्म गोपालपुरी भवति । सकाम्या निष्काम्या देवानां सर्वेषां भूतानां भवति । अथास्य भजनं भवति ।

यथा हि वै सरसि पद्मं तिष्ठति तथा भूम्यां तिष्ठति । चक्रेण रक्षिता मथुरा ।

तस्माद्गोपालपुरी भवति बृहद्बृहद्वनं मधोर्मधुवनं तालस्तालवनं काम्यं काम्यवनं बहुला बहुलवनं कुमुदः कुमुदवनं खदिरः खदिरवनं

भद्रो भद्रवनं भाण्डीर इति भाण्डीरवनं श्रीवनं लोहवनं वृन्दावनमेतैरावृता पुरी भवति ।

तत्र तेष्वेव गगनेश्वेवं देवा मनुष्या गन्धर्वा नागाः किंनरा गायन्ति नृत्यन्तीति ।

तत्र द्वादशादित्या एकादश रुद्रा अष्टौ वसवः सप्त मुनयो ब्रह्मा नारदश्च पञ्च विनायका वीरेश्वरो रुद्रेश्वरोऽम्बिकेश्वरो

गणेश्वरो नीलकण्ठेश्वरो विश्वेश्वरो गोपालेश्वरो भद्रेश्वर इत्यष्टावन्यानि लिङ्गानि चतुर्विंशतिर्भवन्ति ।

द्वे वने स्तः कृष्णवनं भद्रवनम् । तयोरन्तर्द्वादश वनानि पुण्यानि पुण्यतमानि । तेश्वेव देवास्तिष्ठन्ति । सिद्धाः सिद्धिं प्राप्ताः ।

तत्र हि रामस्य राममूर्तिः प्रद्युम्नस्य प्रद्युम्नमूर्तिरनिरुद्धस्य- अनिरुद्धमूर्तिः कृष्णस्य कृष्णमूर्तिः ।

वनेश्वेवं मथुरास्वेवं द्वादश मूर्तयो भवन्ति । एकां हि रुद्रा यजन्ति । द्वितीयां हि ब्रह्मा यजति । तृतीयां ब्रह्मजा यजन्ति ।

चतुर्थीं मरुतो यजन्ति । पञ्चमीं विनायका यजन्ति । षष्ठीं च वसवो यजन्ति । सप्तमीमृषयो यजन्ति । नवमीमप्सरसो यजन्ति ।

दशमी वै ह्यन्तर्धाने तिष्ठति । एकादशीति- स्वपदानुगा । द्वादशीति भूम्यां तिष्ठति । तां हि ये यजन्ति ते मृत्युं तरन्ति ।

मुक्तिं लभन्ते । गर्भजन्मजरामरणतापत्रयात्मकदुःखं तरन्ति । तदप्येते श्लोका भवन्ति । संप्राप्य मथुरा रम्यां सदा ब्रह्मादिवन्दिताम् ।

शङ्खचक्रगदाशार्ङ्गरक्षितां मुसलादिभिः ॥१॥यत्रासौ संस्थितः कृष्णः स्त्रीभिः शक्त्या समाहितः । रमानिरुद्धप्रद्युम्नै रुक्मिण्या सहितो विभुः ॥२॥

चतुःशब्दो भवेदेको ह्योंकारश्च उदाहृतः । तस्मादेव परो रजसेति सोऽहमित्यवधार्यात्मानं गोपालोऽहमिति भावयेत् ।

स मोक्षमश्नुते । स ब्रह्मत्वमधिगच्छति । स ब्रह्मविद्भवति । स गोपाञ्जीवानात्मत्वेन सृष्टिपर्यन्तमालाति ।

स गोपालो ह्यों भवति । तत्सत्सोऽहम् । परं ब्रह्म कृष्णात्मको नित्यानन्दैक्यस्वरूपः सोऽहम् । तत्सद्गोपालोऽहमेव ।

परं सत्यमबाधितं सोऽहमित्यत्मानमादाय मनसैक्यं कुर्यात् । आत्मानं गोपालोऽहमिति भावयेत् । स एवाव्यक्तोऽनन्तो नित्यो गोपालः ।

मथुरायां स्थितिर्ब्रह्मन्सर्वदा मे भविष्यति । शङ्खचक्रगदापद्मवनमालाधरस्य वै ॥१॥

विश्वरूपं परंज्योतिः स्वरूपं रूपवर्जितम् । मथुरामण्डले यस्तु जम्बूद्वीपे स्थितोऽपि वा ॥२॥

योऽर्चयेत्प्रतिमां मां च स मे प्रियतरो भुवि । तस्यामधिष्ठितः कृष्णरूपी पूज्यस्त्वया सदा ॥३॥

चतुर्धा चास्यावतारभेदत्वेन यजन्ति माम् । युगानुवर्तिनो लोका यजन्तीह सुमेधसः ॥४॥

गोपालं सानुजं कृष्णं रुक्मिण्या सह तत्परम् । गोपालोऽहमजो नित्यः प्रद्युम्नोऽहं सनातनः ॥५॥

रामोऽहमनिरुद्धोऽहमात्मानं चार्चयेद्बुधः । मयोक्तेन स धर्मेण निष्कामेन विभागशः ॥६॥

तैरहं पूजनीयो हि भद्रकृष्णनिवासिभिः । तद्धर्मगतिहीना ये तस्यां मयि परायणाः ॥७॥

कलिना ग्रसिता ये वै तेषां तस्यामवस्थितिः । यथा त्वं सह पुत्रैस्तु यथा रुद्रो गणैः सह ॥८॥

यथा श्रियाभियुक्तोऽहं तथा भक्तो मम प्रियः । स होवाचाब्जयोनिश्चतुर्भिर्देवैः कथमेको देवः स्यात् ।

एकमक्षरं यद्विश्रुतमनेकाक्षरं कथं संभूतम् । स होवाच हि तं पूर्वमेकमेवाद्वितीयं ब्रह्मासीत् । तस्मादव्यक्तमेकाक्षरम् ।

तस्मदक्षरान्महत् । महतोऽहङ्कारः । तस्मादहङ्कारात्पञ्च तन्मात्राणि । तेभ्यो भूतानि । तैरावृतमक्षरम् ।

अक्षरोऽहमोंकारोऽयमजरोऽमरोऽभयोऽमृतो ब्रह्माभयं हि वै । स मुक्तोऽहमस्मि । अक्षरोऽहमस्मि ।

सत्तामात्रं चित्स्वरूपं प्रकाशं व्यापकं तथा ॥९॥एकमेवाद्वयं ब्रह्म मायया च चतुष्टयम् । रोहिणीतनयो विश्व अकाराक्षरसंभवः ॥१०॥

तैजसात्मकः प्रद्युम्न उकाराक्षरसंभवः । प्राज्ञात्मकोऽनिरुद्धोऽसौ मकाराक्षरसंभवः ॥११॥

अर्धमात्रात्मकः कृष्णो यस्मिन्विश्वं प्रतिष्ठितम् । कृष्णात्मिका जगत्कर्त्री मूलप्रकृती रुक्मिणी ॥१२॥

व्रजस्त्रीजनसंभूतः श्रुतिभ्यो ज्ञानसंगतः । प्रणवत्वेन प्रकृतित्वं वदन्ति ब्रह्मवादिनः ॥१३॥

तस्मादोंकारसंभूतो गोपालो विश्वसंस्थितः । क्लीमोंकारस्यैकतत्वं वदन्ति ब्रह्मवादिनः ॥१४॥

मथुरायां विशेषेण मां ध्यायन्मोक्षमश्नुते । अष्टपत्रं विकसितं हृत्पद्मं तत्र संस्थितम् ॥१५॥

दिव्यध्वजातपत्रैस्तु चिह्नितं चरणद्वयम् । श्रीवत्सलाञ्छनं हृत्स्थं कौस्तुभं प्रभया युतम् ॥१६॥

चतुर्भुजं शङ्खचक्रशार्ङ्गपद्मगदान्वितम् । सुकेयूरान्वितं बाहुं कण्ठमालसुशोभितम् ॥१७॥

द्युमत्किरीटमभयं स्फुरन्मकरकुण्डलम् । हिरण्मयं सौम्यतनुं स्वभक्तायाभयप्रदम् ॥१८॥

ध्यायेन्मनसि मां नित्यं वेणुशृङ्गधरं तु वा । मथ्यते तु जगत्सर्वं ब्रह्मज्ञानेन येन वा ॥१९॥

मत्सारभूतं यद्यत्स्यान्मथुरा सा निगद्यते । अष्टदिक्पालकैर्भूमिपद्मं विकसितं जगत् ॥२०॥

संसारार्णवसंजातं सेवितं मम मानसे । चन्द्रसूर्यत्विषो दिव्या ध्वजा मेरुर्हिरण्मयः ॥२१॥

आतपत्रं ब्रह्मलोकमथोर्ध्वं चरणं स्मृतम् । श्रीवत्सस्य स्वरूपं तु वर्तते लाञ्छनैः सह ॥२२॥

श्रीवत्सलक्षणं तस्मात्कथ्यते ब्रह्मवादिभिः । येन सूर्याग्निवाक्चन्द्रतेजसा स्वस्वरूपिणा ॥२३॥

वर्तते कौस्तुभाख्यमणिं वदन्तीशमानिनः । सत्त्वं रजस्तम इति अहंकारश्चतुर्भुजः ॥२४॥

पञ्चभूतात्मकं शङ्खं करे रजसि संस्थितम् । बालस्वरूपमित्यन्तं मनश्चक्रं निगद्यते ॥२५॥

आद्या माया भवेच्छार्ङ्गं पद्मं विश्वं करे स्थितम् । आद्या विद्या गदा वेद्या सर्वदा मे करे स्थिता ॥२६॥

धर्मार्थकामकेयूरैर्दिव्यैर्दिव्यमयेरितैः । कण्ठं तु निर्गुणं प्रोक्तं माल्यते आद्ययाऽजया ॥२७॥

माला निगद्यते ब्रह्मंस्तव पुत्रैस्तु मानसैः । कूटस्थं सत्त्वरूपं च किरीटं प्रवदन्ति माम् ॥२८॥

क्षीरोत्तरं प्रस्फुरन्तं कुण्डलं युगलं स्मृतम् । ध्यायेन्मम प्रियं नित्यं स मोक्षमधिगच्छति ॥२९॥

स मुक्तो भवति तस्मै स्वात्मानं तु ददामि वै । एतत्सर्वं मया प्रोक्तं भविष्यद्वै विधे तव ॥३०॥

स्वरूपं द्विविधं चैव सगुणं निर्गुणात्मकम् ॥३१॥

स होवाचाब्जयोनिः । व्यक्तीनां मूर्तीनां प्रोक्तानां कथं चाभरणानि भवन्ति । कथं वा देवा यजन्ति ।

रुद्रा यजन्ति । ब्रह्मा यजति । ब्रह्मजा यजन्ति । विनायका यजन्ति । द्वादशादित्या यजन्ति । वसवो यजन्ति ।

गन्धर्वा यजन्ति । सपदानुगा अन्तर्धाने तिष्ठन्ति । कां मनुष्या यजन्ति ।

सहोवाच तं हि वै नारायणो देव आद्या व्यक्ता द्वादश मूर्तयः सर्वेषु लोकेषु सर्वेषु देवेषु सर्वेषु मनुष्येषु तिष्ठन्तीति ।

रुद्रेषु रौद्री ब्रह्माणीषु ब्राह्मी देवेषु दैवी मनुष्येषु मानवी विनायकेषु विघ्नविनाशिनी आदित्येषु ज्योतिर्गन्धर्वेषु

गान्धर्वी अप्सरःस्वेवं गौर्वसुष्वेवं काम्या अन्तर्धानेष्वप्रकाशिनी आविर्भावतिरोभावा स्वपदे तिष्ठन्ति ।

तामसी राजसी सात्त्विकी मानुषी विज्ञानघन आनन्दसच्चिदानन्दैकरसे भक्तियोगे तिष्ठति ।

ॐ प्राणात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै प्राणात्मने नमोनमः ॥१॥

ॐ श्रीकृष्णाय गोविन्दाय गोपीजनवल्लभाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै नमोनमः ॥२॥

ॐअपानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै अपानात्मने नमोनमः ॥३॥

ॐ श्रीकृष्णायानिरुद्धाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥४॥

ॐ व्यानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै व्यानात्मने नमोनमः ॥५॥

ॐ श्रीकृष्णाय रामाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥६॥

ॐउदानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै उदानात्मने नमोनमः ॥७॥

ॐ श्रीकृष्णाय देवकीनन्दनाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥८॥

ॐ समानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै समानात्मने नमोनमः ॥९॥

ॐ श्रीगोपालाय निजस्वरूपाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥१०॥

ॐ योऽसौ प्रधानात्मा गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥११॥

ॐ योऽसाविन्द्रियात्मा गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥१२॥

ॐ योऽसौ भूतात्मा गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥१३॥

ॐ योऽसावुत्तमपुरुषो गोपाल ॐ तत्सद्भूर्भुवः सुवस्तमै वै नमोनमः ॥१४॥

ॐ योऽसौ ब्रह्म परं वै ब्रह्म ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥१५॥

ॐ योऽसौ सर्वभूतात्मा गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै नमोनमः ॥१६॥

ॐ जाग्रत्स्वप्नसुषुप्तितुरीयतुरीयातीतोऽन्तर्यामी गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥१७॥

एको देवः सर्वभूतेषु गूढः

सर्वव्यापी सर्वभूतान्तरात्मा ।

कर्माध्यक्षः सर्वभूताधिवासः

साक्षी चेता केवलो निर्गुणश्च ॥१८॥

रुद्राय नमः । आदित्याय नमः । विनायकाय नमः । सूर्याय नमः । विद्यायै नमः । इन्द्राय नमः । अग्नये नमः ।

यमाय नमः । निरृतये नमः । वरुणाय नमः । वायवे नमः । कुबेराय नमः । ईशानाय नमः । सर्वेभ्यो देवेभ्यो नमः ।

दत्त्वा स्तुतिं पुण्यतमां ब्रह्मणे स्वस्वरूपिणे । कर्तृत्वं सर्वभूतानामन्तर्धानो बभूव सः ॥१९॥

ब्रह्मणे ब्रह्मपुत्रेभ्यो नारदात्तु श्रुतं मुने । तथा प्रोक्तं तु गान्धर्वि गच्छ त्वं स्वालयान्तिकम् ॥२०॥

इति॥ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥भद्रं पश्येमाक्षभिर्यजत्राः ॥स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ॥व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः ॥स्वस्ति नः पूषा विश्ववेदाः ॥स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥हरिः ॐ तत्सत् ॥इति गोपालोत्तरतापिन्युपनिषत्समाप्ता ॥

Translation - भाषांतर
N/A

N/A
Last Updated : 2011-10-12T09:15:35.4430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

choriocapillaries

  • स्त्री./अ.व. रंजितपटल- केशिका 
RANDOM WORD

Did you know?

मनुष्य देहाचे प्रकार किती व कोणते?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.