संस्कृत सूची|संस्कृत साहित्य|उपनिषद| कृष्णोपनिषत् उपनिषद बृहज्जाबालोपनिषत् जाबालदर्शनोपनिषत् कौषीतकिब्राह्मणोपनिषत् महानारायणोपनिषत् महोपनिषत् नारदपरिव्राजकोपनिषत् पैङ्गलोपनिषत् श्रीशिवोपनिषत् श्वेताश्वतरोपनिषत् सुबालोपनिषत् तेजोबिन्दूपनिषत् त्रिपाद्विभूतिमहानारायणोपनिषत् वराहोपनिषत् योगकुण्डल्युपनिषत् योगशिक्षोपनिषद् आरुणिकोपनिषत् आत्मपूजोपनिषद् बह्वृच उपनिषत् ब्रह्मबिन्दूपनिषत् चाक्षुषोपनिषत् गायत्रीरहस्योपनिषत् गायत्र्युपनिषत् गोरक्ष उपनिषत् जाबाल्युपनिषत् कैवल्योपनिषत् कालाग्निरुद्रोपनिषत् कलिसन्तरन कौलोपनिषत् क्षुरिकोपनिषत् कुण्डिकोपनिषत् मैत्रेय्युपनिषत् मुक्तिका उपनिषद् पञ्चब्रह्मोपनिषत् परमहंस-परिव्राजक प्राणाग्निहोत्रोपनिषत् रुद्रहृदयोपनिषत् श्रीरामकृष्ण परमहंसोपनिषदं रुद्राक्षजाबालोपनिषत् याज्ञिक्युपनिषद् भस्मजाबालोपनिषत् भिक्षुकोपनिषत् ब्रह्मबिन्दु दत्तात्रेयोपनिषत् मन्त्रिकोपनिषत् मुद्गलोपनिषत् मुक्तिकोपनिषत् नारायणोपनिषद् रुद्रहृदयोपनिषत् रुद्राक्षजाबालोपनिषत् सामरहस्योपनिषत् संन्यासोपनिषत् सर्वसारोपनिषत् सावित्र्युपनिषत् शाण्डिल्योपनिषत् शरभोपनिषत् शाट्यायनीयोपनिषत् शुकरहस्योपनिषत् स्कन्दोपनिषत् सूर्योपनिषत् वज्रसूचिका उपनिषद् वास्तुसूत्रोपनिषद् वासुदेवोपनिषत् योगचूडामण्युपनिषत् योगतत्त्वोपनिषत् त्रिशिखिब्राह्मणोपनिषत् अक्षमालिकोपनिषत् अक्ष्युपनिषत् अथर्वशिखोपनिषत् अथर्वशिरउपनिषद् अमृत-बिन्दु उपनिषद् अमृतनादोपनिषत् अवधूतोपनिषत् अव्यक्तोपनिषत् आत्मोपनिषत् आरुणेयोपनिषद् आर्षेयोपनिषत् इतिहासोपनिषत् ईशावास्योपनिषद्भाष्यम् एकाक्शरोपनिश्हत् कठरुद्रोपनिषत् कलिसन्तरणोपनिषत् गरुडोपनिषत् गर्भोपनिषद् गणपत्यथर्वशीर्षोपनिषत् तारसारोपनिषत् त्रिपुरातापिन्युपनिषत् दक्षिणामूर्त्युपनिषत् देवी उपनिषत् नादबिन्दूपनिषत् निरालम्बोपनिषत् निरुक्तोपनिषत् निर्वाणोपनिषत् पञ्चब्रह्मोपनिषत् पाशुपतब्रह्मोपनिषत् प्रणवोपनिषत् बह्वृचोपनिषत् ब्रह्मविद्योपनिषत् ब्रह्मोपनिषद् याज्ञवल्क्योपनिषत् सीतोपनिषत् सौभाग्यलक्ष्म्युपनिषत् हयग्रीवोपनिषत् अन्नपूर्णोपनिषत् आत्मबोधोपनिषत् ऐतरेयोपनिषद् कृष्णोपनिषत् कौषीतकिब्राह्मणोपनिषत् गोपालतापिन्युपनिषत् गोपालोत्तरतापिन्युपनिषद तैत्तरीयोपनिषद्भाष्यम् ब्राहृनन्दवल्ली भृगुवल्ली नारायणपूर्वतापिनीयोपनिषत् नारायणोत्तरतापिनीयोपनिषत् नारायणोपनिषद् नृसिंहतापिन्युपनिषत् नृसिंहोत्तरतापिन्युपनिषत् सरस्वतीरहस्योपनिषत् सुबालोपनिषत् ईशोपनिषत् केन उपनिषद् कठोपनिषत् प्रश्नोपनिषत् मुण्डकोपनिषत् माण्डुक्योपनिषत् तैत्तिरीयोपनिषत् ऐतरेय उपनिषत् छान्दोग्योऽपनिषद् ब्रह्मोद्पनिष जाबालोपनिषत् हंसोपनिषत् योग-कुण्डलिनि उपनिषद् सर्वसारोपनिषत् रामरहस्योपनिषत् रामतापिन्युपनिषत् वासुदेवोपनिषत् शाण्डिल्योपनिषत् शारीरकोपनिषत् योगशिखोपनिषत् संन्यासोपनिषत् सावित्र्युपनिषद् मैत्रायण्युपनिषत् मुद्गलोपनिषत् महावाक्योपनिषत् महानारायणोपनिषत् मन्त्रिकोपनिषत् मण्डलब्राह्मणोपनिषत् भिक्षुकोपनिषत् भावोपनिषत् बृहज्जाबालोपनिषत् पैङ्गलोपनिषत् सुबालोपनिषत् आरुणिकोपनिषत् बह्वृच उपनिषत् सरस्वतीरहस्योपनिषत् गरुडोपनिषत् श्वेताश्वतरोपनिषत् दत्तात्रेयोपनिषत् हयग्रीवोपनिषत् शाट्यायनीयोपनिषत् वराहोपनिषत् याज्ञवल्क्योपनिषत् कृष्णोपनिषत् मैत्रेय्युपनिषत् नृसिंहतापिन्युपनिषत् गोपालतापिन्युपनिषत् वज्रसूचिका उपनिषद् शरभोपनिषत् आत्मबोधोपनिषत् त्रिशिखिब्राह्मणोपनिषत् नादबिन्दूपनिषत् ब्रह्मविद्योपनिषत् योगतत्त्वोपनिषत् दक्षिणामूर्त्युपनिषत् ध्यानबिन्दूपनिषत् योगचूडामण्युपनिषत् अक्ष्युपनिषत् अथर्वशिखोपनिषत् अथर्वशिरउपनिषत् अध्यात्मोपनिषत् अमृतनादोपनिषत् अमृतबिन्दु उपनिषद् तेजोबिन्दूपनिषत् पाशुपतब्रह्मोपनिषत् परमहंसोपनिषत् परब्रह्मोपनिषत् निर्वाणोपनिषत् देवी उपनिषत् त्रिपुरोपनिषत् निरालम्बोपनिषत् तुरीयातीतोपनिषत् तारसारोपनिषत् गर्भोपनिषत् गणपत्युपनिषत् क्षुरिकोपनिषत् कौषीतकिब्राह्मणोपनिषत् कठरुद्रोपनिषत् एकाक्षरोपनिषत् अव्यक्तोपनिषत् अवधूतोपनिषत् अन्नपूर्णोपनिषत् अक्षमालिकोपनिषत् अद्वयतारकोपनिषत् आत्मोपनिषत् त्रिपुरातापिन्युपनिषत् कृष्णोपनिषत् आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic wisdom. Tags : sanskritupanishadvedउपनिषदवेदसंस्कृत कृष्णोपनिषत् Translation - भाषांतर कृष्णोपनिषत् ॥ श्री गुरुभ्यो नमः हरिः ॐ ॥यो रामः कृष्णतामेत्य सार्वात्म्यं प्राप्य लीलया ।अतोषयद्देवमौनिपटलं तं नतोऽस्म्यहम् ॥१॥ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।स्थिरैरंगैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।ॐ शान्तिः शान्तिः शान्तिः । ॥ अथ प्रथम खंडः ॥हरिः ॐ । श्रीमहाविष्णुं सच्चिदानन्दलक्षणं रामचन्द्रंदृष्ट्वा सर्वाण्गसुन्दरं मुनयो वनवासिनो विस्मिता बभूवुः ।तं होचुर्नोऽवद्यमवतारान्वै गण्यन्ते आलिण्गामो भवन्तमिति ।भवान्तरे कृष्णावतारे यूयं गोपिका भूत्व मामालिण्गथअन्ये येऽवतारास्ते हि गोपा न स्त्रीश्च नो कुरु । अन्योन्यविग्रहंधार्यं तवाण्गस्पर्शनादिह । शाश्वतस्पर्शयितास्माकंगृण्हीमोऽवतारान्वयम् ॥१॥रुद्रादीनां वचः शृत्वा प्रोवाच भगवान्स्वयम् ।अण्गयण्गं करिष्यामि भवद्वाक्यं करोम्यहम् ॥२॥मोदितास्ते सुरा सर्वे कृतकृत्याधुना वयम् ।यो नन्दः परमानन्दो यशोदो मुक्तिगेहिनी ॥३॥माया सा त्रिविधा प्रोक्ता सत्त्वराजसतामसी ।प्रोक्ता च सात्त्विकी रुद्रे भक्ते ब्रह्मणि राजसी ॥४॥तामसी दैत्यपक्ष्एषु माया त्रेधा ह्युदाहृता ।अजेया वैष्णवी माया जप्येन च सुता पुरा ॥५॥देवकी ब्रह्मपुत्र सा या वेदैरुपगीयते ।निगमो वसुदेवो यो वेदार्थः कृष्णरामयोः ॥६॥स्तुवते सततं यस्तु सोऽवतीर्णो महीतले ।वने वृन्दावने क्रीडण्गोपगोपीसुरैः सह ॥७॥गोप्यो गाव ऋचस्तस्य यष्टिका कमलासनः ।वंशस्तु भगवान् रुद्रः शृण्गमिन्द्रः सगोसुरः ॥८॥गोकुलं वनवैकुण्ठं तापसास्तत्र ते द्रुमाः ।लोभक्रोधादयो दैत्याः कलिकालस्तिरस्कृतः ॥९॥गोपरूपो हरिः साक्षान्मायाविग्रहधारणः ।दुर्बोधं कुहकं तस्य मायया मोहितं जगत् ॥१०॥दुर्जया सा सुरैः सर्वैर्धृष्टिरूपो भवेद्विजः ।रुद्रो येन कृतो वंशस्तस्य माया जगत्कथम् ॥११॥बलं ज्ञानं सुराणां वै तेषां ज्ञानं हृतं क्षणात् ।शेशनागो भवेद्रामः कृष्णो ब्रह्मैव शाश्वतम् ॥१२॥अष्टावष्टसहस्रे द्वे शताधिक्यः स्त्रियस्तथा ।ऋचोपनिषदस्ता वै ब्रह्मरूपा ऋचः स्त्रियाः ॥१३॥द्वेषाश्चाणूरमल्लोऽयं मत्सरो मुष्टिको जयः ।दर्पः कुवलयापीडो गर्वो रक्षः खगो बकः ॥१४॥दया सा रोहिणी माता सत्यभामा धरेति वै ।अघासुरो महाव्याधिः कलिः कंसः स भूपतिः ॥१५॥शमो मित्रः सुदामा च सत्याक्रूरोद्धवो दमः ।यः शङ्खः स स्वयं विष्णुर्लक्ष्मीरूपो व्यवस्थितः ॥१६॥दुग्धसिन्धौ समुत्पन्नो मेघघोषस्तु संस्मृतः ।दुग्दोदधिः कृतस्तेन भग्नभाण्डो दधिगृहे ॥१७॥क्रीडते बालको भूत्वा पूर्ववत्सुमहोदधौ ।संहारार्थं च शत्रूणां रक्षणाय च संस्थितः ॥१८॥कृपार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् ।यत्स्रष्टुमीश्वरेणासीतच्चक्रं ब्रह्मरूपदृक् ॥१९॥जयन्तीसंभवो वायुश्चमरो धर्मसंज्ञितः ।यस्यासौ ज्वलनाभासः खड्गरूपो महेश्वरः ॥२०॥कश्यपोलूखलः ख्यातो रज्जुर्माताऽदितिस्तथा ।चक्रं शंखं च संसिद्धिं बिन्दुं च सर्वमूर्धनि ॥२१॥यावन्ति देवरूपाणि वदन्ति विभुधा जनाः ।नमन्ति देवरूपेभ्य एवमादि न संशयः ॥२२॥गदा च काळिका साक्षात्सर्वशत्रुनिबर्हिणी ।धनुः शार्ङ्गं स्वमाया च शरत्कालः सुभोजनः ॥२३॥अब्जकाण्डं जगत्बीजं धृतं पाणौ स्वलीलया ।गरुडो वटभाण्डीरः सुदामा नारदो मुनिः ॥२४॥वृन्दा भक्तिः क्रिया बुद्धिः सर्वजन्तुप्रकाशिनी ।तस्मान्न भिन्नं नाभिन्नमाभिर्भिन्नो न वै विभुः ।भूमावुत्तारितं सर्वं वैकुण्ठं स्वर्गवासिनाम् ॥२५॥ ॥ इति प्रथम खण्डः ॥== ॥ अथ द्वितीयः खण्डः ॥शेषो ह वै वासुदेवात् संकर्षणो नाम जीव आसीत् ।सोऽकामयत प्रजाः सृजेयेति ।ततः प्रद्युम्नसंज्ञक आसीत् ।तस्मात् अहंकारनामानिरुद्धो हिरण्यगर्भोऽजायत ।तस्मात् दश प्रजापतयो मरीच्याद्याःस्थाणुदक्षकर्दमप्रियव्रतोत्तनपादवायवो व्यजायन्त ।तेभ्योः सर्वाणि भूतानि च ।तस्माच्छेषादेव सर्वाणि अ भूतानि समुत्पद्यन्ते ।तस्मिन्नेव प्रलीयन्ते ।स एव बहुधा जायमानः सर्वान् परिपाति ।स एव काद्रवेयो व्याकरणज्योतिषादिशास्त्रणि निर्मिमाणोबहुभिर्मुमुक्षुभिरुपास्यमानोऽखिलां भुवमेकस्मिन्शीर्ष्ण सिद्धार्थवदवध्रियमाणः सर्वैर्मुनिभिःसंप्रार्थ्यमानः सहस्रशिखराणि मेरोःशिरोभिरावार्यमाणो महावाय्वहंकारं निराचकार ।स एव भगवान् भगवन्तं बहुधा विप्रीयमाणः अखिलेन स्वेनरुपेण युगे युगे तेनैव जयमानः स एव सौमित्रिरैक्ष्वाकःसर्वाणि धानुषशास्त्राणि सर्वाण्यस्त्रशास्त्राणि बहुधाविप्रीयमाणो रक्षांसि सर्वाणि विनिघ्नंश्चातुर्वर्ण्यधर्मान्प्रवर्तयामास ।स एव भगवान् युगसंधिकाले शारदाभ्रसंनिकाशोरौहिणेयो वासुदेवः सर्वाणि गदाद्यायुधशास्त्राणिव्याचक्षाणो नैकान् राजन्यमण्डलान्निराचिकीर्षुःभूभारमखिलं निचखान ।स एव भगवान् युगे तुरियेऽपि ब्रह्मकुले जायमानः सर्वउपनिषदः उद्दिधीर्षुः सर्वाणि धर्मशास्त्राणिविस्तारयिष्णुः सर्वानपि जनान् संतारयिष्णुःसर्वानपि वैष्णवान् धर्मान् विजृम्भयन्सर्वानपि पाषण्डान् निचखान ।स एष जगदन्तर्यामी ।स एष सर्वात्मकः ।स एव मुमुक्षुभिर्ध्येयः ।स एव मोक्षप्रदः ।एतं स्मृत्वा सर्वेभ्यः पापेभ्यो मुच्यते ।तन्नाम संकीर्तयन् विष्णुसायुज्यं गच्च्हति ।तदेतद् दिवा अधीयानः रात्रिकृतं पापं नाशयति ।नक्तमधीयानो दिवसकृतं पापं नाशयति ।तदेतद्वेदानां रहस्यं तदेतदुपनिषदां रहस्यम्एतदधीयानः सर्वत्रतुफलं लभतेशान्तिमेति मनःशुद्धिमेति सर्वतीर्थफलं लभतेय एवं वेद देहबन्धाद्विमुच्यते इत्युपनिषत् ॥ ॥इति द्वितीयः खण्डः ॥हरिः ॐ तत्सत्ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।स्थिरैरंगैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।ॐ शान्तिः शान्तिः शान्तिः । ॥इति कृष्णोपनिषत्समाप्ता ॥ ॥भारतीरमणमुख्यप्राणंतर्गत श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : January 11, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP