संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
नारायणोपनिषद्

नारायणोपनिषद्

उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.
Upanishad are highly philosophical and metaphysical part of Vedas.


सहस्त्रशीर्षं देवं विश्वाक्षं विश्वशंभुवम् ।
विश्वं नारायणं देवमक्षरं परमं पदम् ॥१॥
विश्वतः परमान्नित्यं विश्वं नारायणन् हरिम् ।
विश्वमेवेदं पुरुषस्तव्दिश्वमुपजीवति ॥२॥
पतिं विश्वस्याऽऽत्मेश्वर शाश्वत शिवमच्युतम् ।
नारायणं महाज्ञेयं विश्वात्मानं परायणम् ॥३॥
नारायणपरोज्योतिरात्मानारायणः परः ।
नारायणपरं ब्रम्हतत्त्वं नारायणः परः |
नारायण परो ध्याता ध्यानं नारायणः परः ॥४॥
यच्चकिंचिज्जगत्सर्वं दृश्यते श्रूयतेऽपिवा ।
अन्तर्बहिश्च तत्सर्वं व्याप्य नारायण: स्थित: ॥५॥
अनन्तमव्ययंकवि समुद्रेन्तं विश्वशंभुवम् ।
पद्मकोशप्रतीकाश हदयंचाप्यधोमुखम् ॥६॥
अधोनिष्ठ्यावितस्त्यान्ते नाभ्यामुपरि तिष्ठति ।
ज्वालमालाकुलंभाति विश्वस्याऽऽयतनंमहत् ॥७॥
संतत शिलाभिस्तु लम्बत्याकोशसन्निभम् ।
तस्यान्ते सुषिर सूक्ष्मं तस्मिन्सर्वं प्रतिष्ठितम् ॥८॥
तस्यमध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः ।
सोऽग्रभुग्विभजन्तिष्ठन्नाहारमजरः कविः ।
तिर्यगूर्ध्वमधःशायी रश्मयस्तस्यसंतता ॥९॥
संतापयति स्वंदेहमापादतलमस्तकः ।
तस्यमध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थितः ॥१०॥
नीलतोयदमध्यस्थाव्दिद्युल्लेखेवभास्वरा ।
नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा ॥११॥
तस्याः शिखायामध्ये परमात्मा व्यवस्थितः ।
सब्रम्ह सशिवः सहरिः सेन्द्रः सोक्षरः परमः स्वराट् ॥१२॥

N/A

References : N/A
Last Updated : March 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP