संस्कृत सूची|संस्कृत साहित्य|उपनिषद| गर्भोपनिषद् उपनिषद बृहज्जाबालोपनिषत् जाबालदर्शनोपनिषत् कौषीतकिब्राह्मणोपनिषत् महानारायणोपनिषत् महोपनिषत् नारदपरिव्राजकोपनिषत् पैङ्गलोपनिषत् श्रीशिवोपनिषत् श्वेताश्वतरोपनिषत् सुबालोपनिषत् तेजोबिन्दूपनिषत् त्रिपाद्विभूतिमहानारायणोपनिषत् वराहोपनिषत् योगकुण्डल्युपनिषत् योगशिक्षोपनिषद् आरुणिकोपनिषत् आत्मपूजोपनिषद् बह्वृच उपनिषत् ब्रह्मबिन्दूपनिषत् चाक्षुषोपनिषत् गायत्रीरहस्योपनिषत् गायत्र्युपनिषत् गोरक्ष उपनिषत् जाबाल्युपनिषत् कैवल्योपनिषत् कालाग्निरुद्रोपनिषत् कलिसन्तरन कौलोपनिषत् क्षुरिकोपनिषत् कुण्डिकोपनिषत् मैत्रेय्युपनिषत् मुक्तिका उपनिषद् पञ्चब्रह्मोपनिषत् परमहंस-परिव्राजक प्राणाग्निहोत्रोपनिषत् रुद्रहृदयोपनिषत् श्रीरामकृष्ण परमहंसोपनिषदं रुद्राक्षजाबालोपनिषत् याज्ञिक्युपनिषद् भस्मजाबालोपनिषत् भिक्षुकोपनिषत् ब्रह्मबिन्दु दत्तात्रेयोपनिषत् मन्त्रिकोपनिषत् मुद्गलोपनिषत् मुक्तिकोपनिषत् नारायणोपनिषद् रुद्रहृदयोपनिषत् रुद्राक्षजाबालोपनिषत् सामरहस्योपनिषत् संन्यासोपनिषत् सर्वसारोपनिषत् सावित्र्युपनिषत् शाण्डिल्योपनिषत् शरभोपनिषत् शाट्यायनीयोपनिषत् शुकरहस्योपनिषत् स्कन्दोपनिषत् सूर्योपनिषत् वज्रसूचिका उपनिषद् वास्तुसूत्रोपनिषद् वासुदेवोपनिषत् योगचूडामण्युपनिषत् योगतत्त्वोपनिषत् त्रिशिखिब्राह्मणोपनिषत् अक्षमालिकोपनिषत् अक्ष्युपनिषत् अथर्वशिखोपनिषत् अथर्वशिरउपनिषद् अमृत-बिन्दु उपनिषद् अमृतनादोपनिषत् अवधूतोपनिषत् अव्यक्तोपनिषत् आत्मोपनिषत् आरुणेयोपनिषद् आर्षेयोपनिषत् इतिहासोपनिषत् ईशावास्योपनिषद्भाष्यम् एकाक्शरोपनिश्हत् कठरुद्रोपनिषत् कलिसन्तरणोपनिषत् गरुडोपनिषत् गर्भोपनिषद् गणपत्यथर्वशीर्षोपनिषत् तारसारोपनिषत् त्रिपुरातापिन्युपनिषत् दक्षिणामूर्त्युपनिषत् देवी उपनिषत् नादबिन्दूपनिषत् निरालम्बोपनिषत् निरुक्तोपनिषत् निर्वाणोपनिषत् पञ्चब्रह्मोपनिषत् पाशुपतब्रह्मोपनिषत् प्रणवोपनिषत् बह्वृचोपनिषत् ब्रह्मविद्योपनिषत् ब्रह्मोपनिषद् याज्ञवल्क्योपनिषत् सीतोपनिषत् सौभाग्यलक्ष्म्युपनिषत् हयग्रीवोपनिषत् अन्नपूर्णोपनिषत् आत्मबोधोपनिषत् ऐतरेयोपनिषद् कृष्णोपनिषत् कौषीतकिब्राह्मणोपनिषत् गोपालतापिन्युपनिषत् गोपालोत्तरतापिन्युपनिषद तैत्तरीयोपनिषद्भाष्यम् ब्राहृनन्दवल्ली भृगुवल्ली नारायणपूर्वतापिनीयोपनिषत् नारायणोत्तरतापिनीयोपनिषत् नारायणोपनिषद् नृसिंहतापिन्युपनिषत् नृसिंहोत्तरतापिन्युपनिषत् सरस्वतीरहस्योपनिषत् सुबालोपनिषत् ईशोपनिषत् केन उपनिषद् कठोपनिषत् प्रश्नोपनिषत् मुण्डकोपनिषत् माण्डुक्योपनिषत् तैत्तिरीयोपनिषत् ऐतरेय उपनिषत् छान्दोग्योऽपनिषद् ब्रह्मोद्पनिष जाबालोपनिषत् हंसोपनिषत् योग-कुण्डलिनि उपनिषद् सर्वसारोपनिषत् रामरहस्योपनिषत् रामतापिन्युपनिषत् वासुदेवोपनिषत् शाण्डिल्योपनिषत् शारीरकोपनिषत् योगशिखोपनिषत् संन्यासोपनिषत् सावित्र्युपनिषद् मैत्रायण्युपनिषत् मुद्गलोपनिषत् महावाक्योपनिषत् महानारायणोपनिषत् मन्त्रिकोपनिषत् मण्डलब्राह्मणोपनिषत् भिक्षुकोपनिषत् भावोपनिषत् बृहज्जाबालोपनिषत् पैङ्गलोपनिषत् सुबालोपनिषत् आरुणिकोपनिषत् बह्वृच उपनिषत् सरस्वतीरहस्योपनिषत् गरुडोपनिषत् श्वेताश्वतरोपनिषत् दत्तात्रेयोपनिषत् हयग्रीवोपनिषत् शाट्यायनीयोपनिषत् वराहोपनिषत् याज्ञवल्क्योपनिषत् कृष्णोपनिषत् मैत्रेय्युपनिषत् नृसिंहतापिन्युपनिषत् गोपालतापिन्युपनिषत् वज्रसूचिका उपनिषद् शरभोपनिषत् आत्मबोधोपनिषत् त्रिशिखिब्राह्मणोपनिषत् नादबिन्दूपनिषत् ब्रह्मविद्योपनिषत् योगतत्त्वोपनिषत् दक्षिणामूर्त्युपनिषत् ध्यानबिन्दूपनिषत् योगचूडामण्युपनिषत् अक्ष्युपनिषत् अथर्वशिखोपनिषत् अथर्वशिरउपनिषत् अध्यात्मोपनिषत् अमृतनादोपनिषत् अमृतबिन्दु उपनिषद् तेजोबिन्दूपनिषत् पाशुपतब्रह्मोपनिषत् परमहंसोपनिषत् परब्रह्मोपनिषत् निर्वाणोपनिषत् देवी उपनिषत् त्रिपुरोपनिषत् निरालम्बोपनिषत् तुरीयातीतोपनिषत् तारसारोपनिषत् गर्भोपनिषत् गणपत्युपनिषत् क्षुरिकोपनिषत् कौषीतकिब्राह्मणोपनिषत् कठरुद्रोपनिषत् एकाक्षरोपनिषत् अव्यक्तोपनिषत् अवधूतोपनिषत् अन्नपूर्णोपनिषत् अक्षमालिकोपनिषत् अद्वयतारकोपनिषत् आत्मोपनिषत् त्रिपुरातापिन्युपनिषत् गर्भोपनिषद् आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic wisdom. Tags : sanskritupanishadvedउपनिषदवेदसंस्कृत गर्भोपनिषद् Translation - भाषांतर यद्गर्भोपनिषद्वेद्यं गर्भस्य स्वात्मबोधकम् ।शरीरापह्नवात्सिद्धं स्वमात्रं कलये हरिम् ॥ॐ सहनाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥ॐ शान्तिः शान्तिः शान्तिः ॥ॐ पञ्चात्मकं पञ्चसु वर्तमानं षडाश्रयं षड्गुणयोगयुक्तम् । तत्सप्तधातुत्रिमलं द्वियोनिं चतुर्विधाहारमयं शरीरं भवति । पञ्चात्मकमिति कस्मात् पृथिव्यापस्तेजो-वायुराकाशमिति । अस्मिन्पञ्चात्मके शरीरे का पृथिवी का आपः किं तेजः को वायुः किमाकाशम् । इत्यस्मिन्पञ्चात्मके शरीरे तत्र यत्कठिनं सा पृथिवी यद्द्रवं ता आपो यदुष्णं तत्तेजो यत्सञ्चरति स वायुः यत्सुषिरं तदाकाशमित्युच्यते । तत्र पृथिवी धारणे आपः पिण्डीकरणे तेजः प्रकाशने वायुर्गमने आकाशमवकाशप्रदाने । पृथक् श्रोत्रे शब्दोपलब्धौ त्वक् स्पर्शे चक्षुषी रूपे जिह्वा रसने नासिकाऽऽघ्राणे वदति । षडाश्रयमिति कस्मात् । मधुराम्ललवणतिक्तकटुकषायरसान्विन्दते । षड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादाश्चेति । इष्टानिष्टशब्दसंज्ञाः प्रणिधानाद्दशविधा भवन्ति ॥१॥शुक्लो रक्तः कृष्णो धूम्रः पीतः कपिलः पाण्डुर इति । सप्तधातुकमिति कस्मात् यदा देवदत्तस्य द्रव्यादिविषया जायन्ते । परस्परं सौम्यगुणत्वात् षड्विधो रसो रसाच्छोणितं शोणितान्मांसं मांसान्मेदो मेदसः स्नायवः स्नाव्नोऽस्थीन्यस्थिभ्यो मज्जा मज्ज्ञः शुक्रं शुक्रशोणितसंयोगादावर्तते गर्भो हृदि व्यवस्थां नयति । हृदयेऽन्तराग्निः अग्निस्थाने पित्तं पित्तस्थाने वायुः वायुस्थाने हृदयं प्राजापत्यात्क्रमात् ॥२॥ऋतुकाले सम्प्रयोगादेकरात्रोषितं कलिलं भवति सप्तरात्रोषितं बुद्बुदं भवति अर्धमासाभ्यन्तरेण पिण्डो भवति । मासाभ्यन्तरेण कठिनो भवति । मासद्वयेन शिरः सम्पद्यते मासत्रयेण पादप्रवेशो भवति । अथ चतुर्थे मासे गुल्फजठरकटिप्रदेशा भवन्ति । पञ्चमे मासे पृष्ठवंशो भवति । षष्ठे मासे मुखनासिकाक्षिश्रोत्राणि भवन्ति । सप्तमे मासे जीवेन संयुक्तो भवति । अष्टमे मासे सर्वलक्षणसम्पूर्णो भवति । पितू रेतोऽतिरिक्तात् पुरुषो भवति । मातुः रेतोऽतिरिक्तात्स्त्रियो भवन्त्युभयोर्बीजतुल्यत्वान्नपुंसको भवति । व्याकुलितम-नसोऽन्धाः खञ्जाः कुब्जा वामना भवन्ति । अन्योन्यवायुपरिपीडितशुक्रद्वैध्याद्द्विधा तनुः स्यात्ततो युग्माः प्रजायन्ते । प्रञ्चात्मकः समर्थः पञ्चात्मिका चेजसा बुद्धिर्गन्धरसादि-ज्ञानाक्षराक्षरमोङ्कारं चिन्तयतीति तदेतदेकाक्षरं ज्ञात्वाऽष्टौ प्रकृतयः षोडश विकाराः शरीरे तस्यैव देहिनः अथ मात्राऽशितपीतनाडीसूत्रगतेन प्राण आप्यायते । अथ नवमे मासि सर्वलक्षणज्ञानकरणसम्पूर्णो भवति । पूर्वजातीः स्मरति । शुभाशुभं च कर्म विन्दति ॥३॥पूर्वयोनिसहस्राणि दृष्ट्वा चैव ततो मया । आहारा विविधा भुक्ताः पीताः नानाविधाः स्तनाः । जातश्चैव मृतश्चैव जन्म चैव पुनः पुनः । यन्मया परिजनस्यार्थे कृतं कर्म शुभाशुभम् । एकाकी तेन दह्येऽहं गतास्ते फलभोगिनः । अहो दुःखोदधौ मग्नः न पश्यामि प्रतिक्रियाम् । यदि योन्याः प्रमुञ्चेऽहं तत्प्रपद्ये महेश्वरम् । अशुभक्षयकर्तारं फलमुक्तिप्रदायकम् । यदि योन्याः प्रमुञ्चेऽहं तत्प्रपद्ये नारायणं । अशुभक्षयकर्तारं फलमुक्तिप्रदायकम् । यदि योन्याः प्रमुञ्चेऽहं ध्याये ब्रह्म सनातनम् । अथ योनिद्वारं सम्प्राप्तो यन्त्रेण पीड्यमानो महता दुःखेन जातमात्रस्तु वैष्णवेन वायुना संस्पृश्यते तदा न स्मरति जन्ममरणानि न च कर्म शुभाशुभं विन्दति ॥४॥शरीरमिति कस्मात् । अग्नयो ह्यत्र श्रियन्ते ज्ञानाग्निर्दर्शनाग्निः कोष्ठाग्निरिति । तत्र कोष्ठाग्निर्नामाशितपीतलेह्यचोष्यं पचतीति । दर्शनाग्नी रूपादीनां दर्शनं करोति । ज्ञानाग्निः शुभाशुभं च कर्म विन्दति । तत्र त्रीणि स्थानानि भवन्ति । मुखे आवहनीय उदरे गार्हपत्यॊ हृदि दक्षिणाग्निः आत्मा यजमानो मनो ब्रह्मा लोभादयः पशवो धृतिर्दीक्षा सन्तोषश्च बुद्धीन्द्रियाणि यज्ञपात्राणि कर्मेन्द्रियाणि हवींषि शिरः कपालं केशा दर्भा मुखमन्तर्वेदिः चतुष्कपालं शिरः षोडश पार्श्वदन्तोष्ठपटलानि सप्तोत्तरं मर्मशतं साशीतिकं सन्धिशतं सनवकं स्नायुशतं सप्त शिराशतानि पञ्च मज्जाशतानि अस्थीनि च ह वै त्रीणि शतानि षष्टिश्चार्धचतस्रो रोमाणि कोट्यो हृदयं पलान्यष्टौ द्वादश पलानि जिह्वा पित्तप्रस्थं कफस्याढकं शुक्लकुडवं मेदः प्रस्थौ द्वावनियतं मूत्रपुरीषमाहारपरिमाणात् । पैप्पलादं मोक्षशास्त्रं पैप्पलादं मोक्षशास्त्रं परिसमाप्तमिति ॥ॐ सहनाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥ॐ शान्तिः शान्तिः शान्तिः || ॥इति गर्भोपनिषत्समाप्ता ॥ N/A References : N/A Last Updated : January 11, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP