संस्कृत सूची|संस्कृत साहित्य|उपनिषद| शुकरहस्योपनिषत् उपनिषद बृहज्जाबालोपनिषत् जाबालदर्शनोपनिषत् कौषीतकिब्राह्मणोपनिषत् महानारायणोपनिषत् महोपनिषत् नारदपरिव्राजकोपनिषत् पैङ्गलोपनिषत् श्रीशिवोपनिषत् श्वेताश्वतरोपनिषत् सुबालोपनिषत् तेजोबिन्दूपनिषत् त्रिपाद्विभूतिमहानारायणोपनिषत् वराहोपनिषत् योगकुण्डल्युपनिषत् योगशिक्षोपनिषद् आरुणिकोपनिषत् आत्मपूजोपनिषद् बह्वृच उपनिषत् ब्रह्मबिन्दूपनिषत् चाक्षुषोपनिषत् गायत्रीरहस्योपनिषत् गायत्र्युपनिषत् गोरक्ष उपनिषत् जाबाल्युपनिषत् कैवल्योपनिषत् कालाग्निरुद्रोपनिषत् कलिसन्तरन कौलोपनिषत् क्षुरिकोपनिषत् कुण्डिकोपनिषत् मैत्रेय्युपनिषत् मुक्तिका उपनिषद् पञ्चब्रह्मोपनिषत् परमहंस-परिव्राजक प्राणाग्निहोत्रोपनिषत् रुद्रहृदयोपनिषत् श्रीरामकृष्ण परमहंसोपनिषदं रुद्राक्षजाबालोपनिषत् याज्ञिक्युपनिषद् भस्मजाबालोपनिषत् भिक्षुकोपनिषत् ब्रह्मबिन्दु दत्तात्रेयोपनिषत् मन्त्रिकोपनिषत् मुद्गलोपनिषत् मुक्तिकोपनिषत् नारायणोपनिषद् रुद्रहृदयोपनिषत् रुद्राक्षजाबालोपनिषत् सामरहस्योपनिषत् संन्यासोपनिषत् सर्वसारोपनिषत् सावित्र्युपनिषत् शाण्डिल्योपनिषत् शरभोपनिषत् शाट्यायनीयोपनिषत् शुकरहस्योपनिषत् स्कन्दोपनिषत् सूर्योपनिषत् वज्रसूचिका उपनिषद् वास्तुसूत्रोपनिषद् वासुदेवोपनिषत् योगचूडामण्युपनिषत् योगतत्त्वोपनिषत् त्रिशिखिब्राह्मणोपनिषत् अक्षमालिकोपनिषत् अक्ष्युपनिषत् अथर्वशिखोपनिषत् अथर्वशिरउपनिषद् अमृत-बिन्दु उपनिषद् अमृतनादोपनिषत् अवधूतोपनिषत् अव्यक्तोपनिषत् आत्मोपनिषत् आरुणेयोपनिषद् आर्षेयोपनिषत् इतिहासोपनिषत् ईशावास्योपनिषद्भाष्यम् एकाक्शरोपनिश्हत् कठरुद्रोपनिषत् कलिसन्तरणोपनिषत् गरुडोपनिषत् गर्भोपनिषद् गणपत्यथर्वशीर्षोपनिषत् तारसारोपनिषत् त्रिपुरातापिन्युपनिषत् दक्षिणामूर्त्युपनिषत् देवी उपनिषत् नादबिन्दूपनिषत् निरालम्बोपनिषत् निरुक्तोपनिषत् निर्वाणोपनिषत् पञ्चब्रह्मोपनिषत् पाशुपतब्रह्मोपनिषत् प्रणवोपनिषत् बह्वृचोपनिषत् ब्रह्मविद्योपनिषत् ब्रह्मोपनिषद् याज्ञवल्क्योपनिषत् सीतोपनिषत् सौभाग्यलक्ष्म्युपनिषत् हयग्रीवोपनिषत् अन्नपूर्णोपनिषत् आत्मबोधोपनिषत् ऐतरेयोपनिषद् कृष्णोपनिषत् कौषीतकिब्राह्मणोपनिषत् गोपालतापिन्युपनिषत् गोपालोत्तरतापिन्युपनिषद तैत्तरीयोपनिषद्भाष्यम् ब्राहृनन्दवल्ली भृगुवल्ली नारायणपूर्वतापिनीयोपनिषत् नारायणोत्तरतापिनीयोपनिषत् नारायणोपनिषद् नृसिंहतापिन्युपनिषत् नृसिंहोत्तरतापिन्युपनिषत् सरस्वतीरहस्योपनिषत् सुबालोपनिषत् ईशोपनिषत् केन उपनिषद् कठोपनिषत् प्रश्नोपनिषत् मुण्डकोपनिषत् माण्डुक्योपनिषत् तैत्तिरीयोपनिषत् ऐतरेय उपनिषत् छान्दोग्योऽपनिषद् ब्रह्मोद्पनिष जाबालोपनिषत् हंसोपनिषत् योग-कुण्डलिनि उपनिषद् सर्वसारोपनिषत् रामरहस्योपनिषत् रामतापिन्युपनिषत् वासुदेवोपनिषत् शाण्डिल्योपनिषत् शारीरकोपनिषत् योगशिखोपनिषत् संन्यासोपनिषत् सावित्र्युपनिषद् मैत्रायण्युपनिषत् मुद्गलोपनिषत् महावाक्योपनिषत् महानारायणोपनिषत् मन्त्रिकोपनिषत् मण्डलब्राह्मणोपनिषत् भिक्षुकोपनिषत् भावोपनिषत् बृहज्जाबालोपनिषत् पैङ्गलोपनिषत् सुबालोपनिषत् आरुणिकोपनिषत् बह्वृच उपनिषत् सरस्वतीरहस्योपनिषत् गरुडोपनिषत् श्वेताश्वतरोपनिषत् दत्तात्रेयोपनिषत् हयग्रीवोपनिषत् शाट्यायनीयोपनिषत् वराहोपनिषत् याज्ञवल्क्योपनिषत् कृष्णोपनिषत् मैत्रेय्युपनिषत् नृसिंहतापिन्युपनिषत् गोपालतापिन्युपनिषत् वज्रसूचिका उपनिषद् शरभोपनिषत् आत्मबोधोपनिषत् त्रिशिखिब्राह्मणोपनिषत् नादबिन्दूपनिषत् ब्रह्मविद्योपनिषत् योगतत्त्वोपनिषत् दक्षिणामूर्त्युपनिषत् ध्यानबिन्दूपनिषत् योगचूडामण्युपनिषत् अक्ष्युपनिषत् अथर्वशिखोपनिषत् अथर्वशिरउपनिषत् अध्यात्मोपनिषत् अमृतनादोपनिषत् अमृतबिन्दु उपनिषद् तेजोबिन्दूपनिषत् पाशुपतब्रह्मोपनिषत् परमहंसोपनिषत् परब्रह्मोपनिषत् निर्वाणोपनिषत् देवी उपनिषत् त्रिपुरोपनिषत् निरालम्बोपनिषत् तुरीयातीतोपनिषत् तारसारोपनिषत् गर्भोपनिषत् गणपत्युपनिषत् क्षुरिकोपनिषत् कौषीतकिब्राह्मणोपनिषत् कठरुद्रोपनिषत् एकाक्षरोपनिषत् अव्यक्तोपनिषत् अवधूतोपनिषत् अन्नपूर्णोपनिषत् अक्षमालिकोपनिषत् अद्वयतारकोपनिषत् आत्मोपनिषत् त्रिपुरातापिन्युपनिषत् शुकरहस्योपनिषत् उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.Upanishad are highly philosophical and metaphysical part of Vedas. Tags : upanishadvedउपनिषद्वेद शुकरहस्योपनिषत् Translation - भाषांतर ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥सह वीर्यं करवावहै ॥तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ॐ शान्तिः शान्तिः शान्तिः॥अथातो रहस्योपनिषदं व्याख्यास्यामः ॥१॥देवर्षयो ब्रह्माणं सम्पूज्य प्रणिपत्य पप्रचछुर्भगवन्नस्माकं रहस्योपनिषदं ब्रूहीति ॥२॥सोऽब्रवीत् पुरा व्यासो महातेजाः सर्ववेदतपोनिधिः । प्रणिपत्य शिवं साम्बं कृताञ्जलिरुवाच ॥३॥श्रीवेदव्यास उवाच देवदेव महाप्राज्ञ पाशच्छेददृढव्रत । शुकस्य मम पुत्रस्य वेदसंस्कारकर्मणि ॥४॥ब्रह्मोपदेशकालोऽयमिदानीं समुपस्थितः । ब्रह्मोपदेशः कर्तव्यो भवताद्य जगद्गुरो ॥५॥ईश्वर उवाच मयोपदिष्टे कैवल्ये साक्षाद्ब्रह्मणि शाश्वते । विहाय पुत्रो निर्वेदात्प्रकाशं यास्यति स्वयम् ॥६॥श्रीवेदव्यास उवाच यथा तथा वा भवतु ह्युपनायनकर्मणि । उपदिष्टे मम सुते ब्रह्मणि त्वत्प्रसादतः ॥७॥सर्वज्ञो भवतु क्षिप्रं मम पुत्रो महेश्वर । तव प्रसादसम्पन्नो लभेन्मुक्तिं चतुर्विधाम् ॥८॥तच्छ्रुत्वा व्यासवचनं सर्वदेवर्षिसंसदि । उपदेष्टुं स्थितः शम्भुः साम्बो दिव्यासने मुदा ॥९॥कृतकृत्यः शुकस्तत्र समागत्य सुभक्तिमान् । तस्मात्स प्रणवं लब्ध्वा पुनरित्यब्रवीच्छिवम् ॥१०॥श्रीशुक उवाच देवादिदेव सर्वज्ञ सच्चिदानन्दलक्षण । उमारमण भूतेश प्रसीद करुणानिधे ॥११॥उपदिष्टं परब्रह्म प्रणवान्तर्गतं परम् । तत्त्वमस्यादिवाक्यानां प्रज्ञादीनां विशेषतः ॥१२॥श्रोतुमिच्छामि तत्त्वेन षडङ्गानि यथाक्रमम् । वक्तव्यानि रहस्यानि कृपयाद्य सदाशिव ॥१३॥श्रीसदाशिव उवाच साधु साधु महाप्राज्ञ शुक ज्ञाननिधे मुने । प्रष्टव्यं तु त्वया पृष्टं रहस्यं वेदगर्भितम् ॥१४॥रहस्योपनिषन्नाम्ना सषडङ्गमिहोच्यते । यस्य विज्ञानमात्रेण मोक्षः साक्षान्न संशयः ॥१५॥अङ्गहीनानि वाक्यानि गुरुर्नोपदिशेत्पुनः । सषडङ्गान्युपदिशेन्महावाक्यानि कृत्स्नशः ॥१६॥चतुर्णामपि वेदानां यथोपनिषदः शिरः । इयं रहस्योपनिषदत्तथोपनिषदां शिरः ॥१७॥रहस्योपनिषद्ब्रह्म ध्यातं येन विपश्चिता । तीर्थैर्मन्त्रैः श्रुतैर्जप्यैस्तस्य किं पुण्यहेतुभिः ॥१८॥वाक्यार्थस्य विचारेण यदाप्नोति शरच्छतम् । एकवारजपेनैव ऋष्यादिध्यानतश्च यत् ॥१९॥ॐ अस्य श्रीमहावाक्यमहामन्त्रस्य हंस ऋषिः । अव्यक्तगायत्री छन्दः । परमहंसो देवता । हं बीजम् । सः शक्तिः । सोऽहं कीलकम् । मम परमहंसप्रीत्यर्थे महावाक्यजपे विनियोगः । सत्यं ज्ञानमनन्तं ब्रह्म अङ्गुष्ठाभ्यां नमः । नित्यानन्दो ब्रह्म तर्जनीभ्यां स्वाहा । नित्यानन्दमयं ब्रह्म मध्यमाभ्यां वषट् । यो वै भूमा अनामिकाभ्यां हुम् । यो वै भूमाधिपतिः कनिष्ठिकाभ्यां वौषट् । एकमेवाद्वितीयं ब्रह्म करतलकरपृष्ठाभ्यां फट् । सत्यं ज्ञानमनन्तं ब्रह्म हृदयाय नमः । नित्यानन्दो ब्रह्म शिरसे स्वाहा । नित्यानन्दमयं ब्रह्म शिखायै वषट् । यो वै भूमा कवचाय हुम् । यो वै भूमाधिपतिः नेत्रत्रयाय वौषट् । एकमेवाद्वितीयं ब्रह्म अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः ॥२०॥ध्यानम् । नित्यानन्दं परमसुखदं केवलं ज्ञानमूर्तिं विश्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् । क एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥२१॥अथ महावाक्यानि चत्वारि । यथा ।ॐ प्रज्ञानं ब्रह्म ॥१॥ॐ अहं ब्रह्मास्मि ॥२॥ॐ तत्त्वमसि ॥३॥ॐ अयमात्मा ब्रह्म ॥४॥तत्त्वमसीत्यभेदवाचकमिदं ये जपन्ति ते शिवस्सायुज्यमुक्तिभाजो भवन्ति ॥२२॥तत्पदमहाम्न्त्रस्य परमहंसः ऋषिः । अव्यक्तगायत्री छन्दः । परमहंसो देवता । हं बीजम् । सः शक्तिः । सोऽहं कीलकम् । मम सायुज्यमुक्त्यर्थे जपे विनियोगः । तत्पुरुषाय अङ्गुष्ठाभ्यां नमः । ईशानाय तर्जनीभ्यां स्वाहा । अघोराय मध्यमाभ्यां वषट् । सद्योजाताय अनामिकाभ्यां हुम् । वामदेवाय कनिष्ठिकाभ्यां वौषट् । तत्पुरुषेशानाघोरसद्योजातवामदेवेभ्यो नमः करतलकरपृष्ठाभ्यां फट् । एवं हृदयादिन्यासः । भूर्भुवःसुवरोमिति दिग्बन्धः ॥२३॥ध्यानम् । ज्ञानं ज्ञेयं ज्ञानगम्यादितीतं शुद्धं बुद्धं मुक्तमप्यव्ययं च । सत्यं ज्ञानं सच्चिदानन्दरूपं ध्यायेदेवं तन्महो भ्राजमानम् ॥२४॥त्वंपद महामन्त्रस्य विष्णुर्ऋषिः । गायत्री छन्दः । परमात्मा देवता । ऐं बीजम् । क्लीं शक्तिः । सौः कीलकम् । मम मुक्त्यर्थे जपे विनियोगः । वासुदेवाय अङ्गुष्ठाभ्यां नमः । सङ्कर्षणाय तर्जनीभ्यां स्वाहा । प्रद्युम्नाय मध्यमाभ्यां वषट् । अनिरुद्धाय अनामिकाभ्यां हुम् । वासुदेवाय कनिष्ठिकाभ्यां वौषट् । वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धेभ्यः करतलकरपृष्ठाभ्यां फट् । एवं हृदयादिन्यासः । भूर्भुवःसुवरोमिति दिग्बन्धः ॥२५॥ध्यानम् । जीवत्वं सर्वभूतानां सर्वत्राखण्डविग्रहम् । चित्ताहङ्कारयन्तारं जीवाख्यं त्वं पदं भजे ॥२६॥असिपदमहामन्त्रस्य मन ऋषिः । गायत्री छन्दः । अर्धनारीश्वरो देवता । अव्यक्तादिर्बीजम् । नृसिंहः शक्तिः । परमात्मा कीलकम् । जीवब्रह्मैक्यार्थे जपे विनियोगः । पृथ्वीद्व्यणुकाय अङ्गुष्ठाभ्यां नमः । अब्द्व्यणुकाय तर्जनीभ्यां स्वाहा । तेजोद्व्यणुकाय मध्यमाभ्यां वषट् । वायुद्व्यणुकाय अनामिकाभ्यं हुम् । आकाशद्व्यणुकाय कनिष्ठिकाभ्यां वौषट् । पृथिव्यप्तेजोवाय्वाकाशद्व्यणुकेभ्यः करतलकरपृष्ठाभ्यां फट् । भूर्भुवःसुवरोमिति दिग्बन्धः ॥२७॥ध्यानम् । जीवो ब्रह्मेति वाक्यार्थं यावदस्ति मनःस्थितिः । ऐक्यं तत्त्वं लये कुर्वन्ध्यायेदसिपदं सदा ॥२८॥एवं महावाक्यषडङ्गान्युक्तानि ॥२९॥अथ रहस्योपनिषद्विभागशो वाक्यार्थश्लोकाः प्रोच्यन्ते ॥३०॥येनेक्षते शृणोतीदं जिघ्रति व्याकरोति च । स्वाद्वस्वादु विजानाति तत्प्रज्ञानमुदीरितम् ॥३१॥चतुर्मुखेन्द्रदेवेषु मनुष्याश्वगवादिषु । चैतन्यमेकं ब्रह्मातः प्रज्ञानं ब्रह्म मय्यपि ॥३२॥परिपूर्णः परात्मास्मिन्देहे विद्याधिकारिणि । बुद्धेः साक्षितया स्थित्वा स्फुरन्नहमितीर्यते ॥३३॥स्वतः पूर्णः परात्मात्र ब्रह्मशब्देन वर्णितः । अस्मीत्यैक्यपरामर्शस्तेन ब्रह्म भवाम्यहम् ॥३४॥एकमेवाद्वितीयं सन्नामरूपविवर्जितम् । सृष्टेः पुराधुनाप्यस्य तादृक्त्वं तदितीर्यते ॥३५॥श्रोतुर्देहेन्द्रियातीतं वस्त्वत्र त्वंपदेरितम् । एकता ग्राह्यतेऽसीति तदैक्यमनुभूयताम् ॥३६॥स्वप्रकाशापरोक्षत्वमयमित्युक्तितो मतम् । अहङ्कारादिदेहान्तं प्रत्यगात्मेति गीयते ॥३७॥दृश्यमानस्य सर्वस्य जगतस्तत्त्वमीर्यते । ब्रह्मशब्देन तद्ब्रह्म स्वप्रकाशात्मरूपकम् ॥३८॥अनात्मदृष्टेरविवेकनिद्रामहं मम स्वप्नगतिं गतोऽहम् । स्वरूपसूर्येऽभ्युदिते स्फुटोक्तेर्गुरोर्महावाक्यपदैः प्रबुद्धः ॥३९॥वाच्यं लक्ष्यमिति द्विधार्थसरणीवाच्यस्य हि त्वंपदे वाच्यं भौतिकमिन्द्रियादिरपि यल्लक्ष्यं त्वमर्थश्च सः । वाच्यं तत्पदमीशताकृतमतिर्लक्ष्यं तु सच्चित्सुखानन्दब्रह्म तदर्थ एष च तयोरैक्यं त्वसीदं पदम् ॥४०॥त्वमिति तदिति कार्ये कारणे सत्युपाधौ द्वितयमितरथैकं सच्चिदानन्दरूपम् । उभयवचनहेतू देशकालौ च हित्वा जगति भवति सोयं देवदत्तो यथैकः ॥४१॥कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः । कार्यकारणतां हित्वा पूर्णबोधोऽवशिष्यते ॥४२॥श्रवणं तु गुरोः पूर्वं मननं तदनन्तरम् । निदिध्यासनमित्येतत्पूर्णबोधस्य कारणम् ॥४३॥अन्यविद्यापरिज्ञानमवश्यं नश्वरं भवेत् । ब्रह्मविद्यापरिज्ञानं ब्रह्मप्राप्तिकरं स्थितम् ॥४४॥महावाक्यान्युपदिशेत्सषडङ्गानि देशिकः । केवलं न हि वाक्यानि ब्रह्मणो वचनं यथा ॥४५॥ईश्वर उवाच । एवमुक्त्वा मुनिश्रेष्ठ रहस्योपनिषच्छुक । मया पित्रानुनीतेन व्यासेन ब्रह्मवादिना ॥४६॥ततो ब्रह्मोपदिष्टं वै सच्चिदानन्दलक्षणम् । जीवन्मुक्तः सदा ध्यायन्नित्यस्त्वं विहरिष्यसि ॥४७॥यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥४८॥उपदिष्टः शिवेनेति जगत्तन्मयतां गतः । उत्थाय प्रणिपत्येशं त्यक्ताशेषपरिग्रहः ॥४९॥परब्रह्मपयोराशौ प्लवन्निव ययौ तदा । प्रव्रजन्तं तमालोक्य कृष्णद्वैपायनो मुनिः ॥५०॥अनुव्रजन्नाजुहाव पुत्रविश्लेषकातरः । प्रतिनेदुस्तदा सर्वे जगत्स्थावरजङ्गमाः ॥५१॥तच्छ्रुत्वा सकलाकारं व्यासः सत्यवतीसुतः । पुत्रेण सहितः प्रीत्या परानन्दमुपेयिवान् ॥५२॥यो रहस्योपनिषदमधीते गुर्वनुग्रहात् । सर्वपापविनिर्मुक्तः साक्षात्कैवल्यमश्नुते साक्षात्कैवल्यमश्नुत इत्युपनिषत् ॥५३॥ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनाधीतमस्तु मा विद्विषावहै॥ॐ शान्तिः शान्तिः शान्तिः ॥॥इति शुकरहस्योपनिषत्समाप्ता॥ N/A Last Updated : March 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP