TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
सीतोपनिषत्

सीतोपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.

Upanishad are highly philosophical and metaphysical part of Vedas.


सीतोपनिषत्

॥ सीतोपनिषत् ॥ अथर्व वेद,शाक्त उपनिषद्

इच्छाज्ञानक्रियाशक्तित्रयं यद्भावसाधनम् । तद्ब्रह्मसत्तासामान्यं सीतातत्त्वमुपास्महे ॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः । व्यशेम देवहितं यदायुः ।

स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ।

ॐ शान्तिः शान्तिः शान्तिः ॥

देवा ह वै प्रजापतिमब्रुवन्का सीता किं रूपमिति । स होवाच प्रजापतिः सा सीतेति । मूलप्रकृतिरूपत्वात्सा सीता प्रकृतिः स्मृता ।

प्रणवप्रकृतिरूपत्वात्सा सीता प्रकृतिरुच्यते । सीता इति त्रिवर्णात्मा साक्षान्मायामयी भवेत् । विष्णुः प्रपञ्चबीजं च माया ईकार उच्यते ।

सकारः सत्यममृतं प्राप्तिः सोमश्च कीर्त्यते । तकारस्तारलक्ष्म्या च वैराजः प्रस्तरः स्मृतः ।

ईकाररूपिणी सोमामृतावयवदिव्यालङ्कारस्रङ्मौक्तिका- द्याभरणलङ्कृता महामायाऽव्यक्तरूपिणी व्यक्ता भवति ।

प्रथमा शब्दब्रह्ममयी स्वाध्यायकाले प्रसन्ना उद्भावनकरी सात्मिका द्वितीया भूतले हलाग्रे

समुत्पन्ना तृतीया ईकाररूपिणी अव्यक्तस्वरूपा भवतीति सीता इत्युदाहरन्ति ।

शौनकीये । श्रीरामसान्निध्यवशा- ज्जगदानन्दकारिणी । उत्पत्तिस्थितिसंहारकारिणी सर्वदेहिनाम् ।

सीता भगवती ज्ञेया मूलप्रकृतिसंज्ञिता । प्रणवत्वा- त्प्रकृरिति वदन्ति ब्रह्मवादिन इति । अथातो ब्रह्मजिज्ञासेति च ।

सा सर्ववेदमयी सर्वदेवमयी सर्वलोकमयी सर्वकीर्तिमयी सर्वधर्ममयी सर्वाधारकार्यकारणमयी महालक्ष्मी- र्देवेशस्य

भिन्नाभिन्नरूपा चेतनाचेतनात्मिका ब्रह्मस्थावरात्मा तद्गुणकर्मविभागभेदाच्छरीरूपा देवर्षिमनुष्यगन्धर्वरूपा

असुरराक्षसभूतप्रेत- पिशाचभूतादिभूतशरीरूपा भूतेन्द्रियमनःप्राणरूपेति च विज्ञायते ।

सा देवी त्रिविधा भवति शक्त्यासना इच्छाशक्तिः क्रियाशक्तिः साक्षाच्छक्तिरिति । इच्छाशक्तिस्त्रिविधा भवति ।

श्रीभूमिनीलात्मिका भद्ररूपिणी प्रभावरूपिणी सोमसूर्याग्निरूपा भवति ।

सोमात्मिका ओषधीनां प्रभवति कल्पवृक्षपुष्पफललतागुल्मात्मिका औषधभेषजात्मिका अमृतरूपा

देवानां महस्तोम- फलप्रदा अमृतेन तृप्तिं जनयन्ती देवानामन्नेन पशूनां तृणेन तत्तज्जीवानां

सूर्यादिसकलभुवन- प्रकाशिनी दिवा च रात्रिः कालकलानिमेषमारभ्य घटिकाष्टयामदिवस(वार)रात्रिभेदेन

पक्षमासर्त्वयनसंवत्सरभेदेन मनुष्याणां शतायुःकल्पनया प्रकाशमाना चिरक्षिप्रव्यपदेशेन

निमेषमारभ्य परार्धपर्यन्तं कालचक्रं जगच्चक्रमित्यादिप्रकारेण चक्रवत्परिवर्तमानाः

सर्वस्यैतस्यैव कालस्य विभागविशेषाः प्रकाशरूपाः कालरूपा भवन्ति ।

अग्निरूपा अन्नपानादिप्राणिनां क्षुत्तृष्णात्मिका देवानां मुखरूपा वनौषधीनां

शीतोष्णरूपा काष्ठेष्वन्तर्बहिश्च नित्यानित्यरूपा भवति ।

श्रीदेवी त्रिविधं रूपं कृत्वा भगवत्सङ्कल्पानु- गुण्येन लोकरक्षणार्थं रूपं धारयति ।

श्रीरिति लक्ष्मीरिति लक्ष्यमाणा भवतीति विज्ञायते ।

भूदेवी ससागरांभः- सप्तद्वीपा वसुन्धरा भूरादिचतुर्दशभुवनाना- माधाराधेया प्रणवात्मिका भवति ।

नीला च मुख- विद्युन्मालिनी सर्वौषधीनां सर्वप्राणिनां पोषणार्थं सर्वरूपा भवति ।

समस्तभुवनस्याधोभागे जलाकारात्मिका मण्डूकमयेति भुवनाधारेति विज्ञायते ॥

क्रियाशक्तिस्वरूपं हरेर्मुखान्नादः । तन्नादाद्बिन्दुः । बिन्दोरोङ्कारः । ओङ्कारात्परतो राम वैखानसपर्वतः ।

तत्पर्वते कर्मज्ञानमयीभिर्बहुशाखा भवन्ति । तत्र त्रयीमयं शास्त्रमाद्यं सर्वार्थदर्शनम् ।

ऋग्यजुःसामरूपत्वात्त्रयीति परिकीर्तिता । कार्यसिद्धेन चतुर्धा परिकीर्तिता । ऋचो यजूंषि सामानि अथर्वाङ्गिरसस्तथा ।

चातुर्होत्रप्रधानत्वाल्लिङ्गादित्रितयं त्रयी । अथर्वाङ्गिरसं रूपं सामऋग्यजुरात्मकम् ।

तथा दिशन्त्याभिचार- सामान्येन पृथक्पृथक् । एकविंशतिशाखायामृग्वेदः परिकीर्तितः ।

शतं च नवशाखासु यजुषामेव जन्मनाम् । साम्नः सहस्रशाखाः स्युः पञ्चशाखा अथर्वणः ।

वैखानसमतस्तस्मिन्नादौ प्रत्यक्षदर्शनम् । स्मर्यते मुनिभिर्नित्यं वैखानसमतः परम् ।

कल्पो व्याकरणं शिक्षा निरुक्तं ज्योतिषं छन्द एतानि षडङ्गानि ॥ उपाङ्गमयनं चैव मीमांसान्यायविस्तरः ।

धर्मज्ञसेवितार्थं च वेदवेदोऽधिकं तथा । निबन्धाः सर्वशाखा च समयाचारसङ्गतिः ।

धर्मशास्त्रं महर्षिणामन्तःकरणसम्भृतम् । इतिहासपुराणाख्यमुपाङ्गं च प्रकीर्तितम् ।

वास्तुवेदो धनुर्वेदो गान्धर्वश्च तथा मुने । आयुर्वेदश्च पञ्चैते उपवेदाः प्रकीर्तिताः ।

दण्डो नीतिश्च वार्ता च विद्या वायुजयः परः । एकविंशतिभेदोऽयं स्वप्रकाशः प्रकीर्तितः ।

वैखानसऋषेः पूर्वं विष्णोर्वाणी समुद्भवेत् । त्रयीरूपेण सङ्कल्प्य वैखानसऋषेः पुरा ।

उदितो यादृशः पूर्वं तादृशं शृणु मेऽखिलम् । शश्वद्ब्रह्ममयं रूपं क्रियाशक्तिरुदाहृता ।

साक्षाच्छक्तिर्भगवतः स्मरणमात्ररूपाविर्भाव- प्रादुर्भावात्मिका निग्रहानुग्रहरूपा भगवत्सहचारिणी अनपायिनी

अनवरतसहाश्रयिणी उदितानुदिताकारा निमेषोन्मेषसृष्टिस्थितिसंहारतिरोधानानुग्रहादि- सर्वशक्तिसामर्थ्यात्साक्षाच्छक्तिरिति गीयते ।

इच्छाशक्तिस्त्रिविधा प्रलयावस्थायां विश्रमणार्थं भगवतो दक्षिणवक्षःस्थले श्रीवत्साकृतिर्भूत्वा विश्राम्यतीति सा योगशक्तिः ।

भोगशक्तिर्भोगरूपा कल्पवृक्षकामधेनुचिन्तामणिशङ्खपद्म- निध्यादिनवनिधिसमाश्रिता भगवदुपासकानां

कामनया अकामनया वा भक्तियुक्ता नरं नित्यनैमित्तिककर्मभिरग्निहोत्रादिभिर्वा यमनियमासन-

प्राणायामप्रत्याहारध्यानधारणासमाधिभि- र्वालमणन्वपि गोपुरप्राकारादिभिर्विमानादिभिः सह

भगवद्विग्रहार्चापूजोपकरणैरर्चनैः स्नानाधिपर्वा पितृपूजादिभिरन्नपानादिभिर्वा भगवत्प्रीत्यर्थमुक्त्वा सर्वं क्रियते ।

अथातो वीरशक्तिश्चतुर्भुजाऽभयवरद- पद्मधरा किरीटाभरणयुता सर्वदेवैः परिवृता कल्पतरुमूले चतुर्भिर्गजै

रत्नघटैरमृतजलै- रभिषिच्यमाना सर्वदैवतैर्ब्रह्मादिभिर्वन्द्यमाना अणिमाद्यष्टैश्वर्ययुता संमुखे कामधेनुना स्तूयमाना

वेदशास्त्रादिभिः स्तूयमाना जयाद्यप्सर- स्स्त्रीभिः परिचर्यमाणा आदित्यसोमाभ्यां दीपाभ्यां प्रकाश्यमाना

तुम्बुरुनारदादिभिर्गायमाना राकासिनीवालीभ्यां छत्रेण ह्लादिनीमायाभ्यां चामरेण स्वाहास्वधाभ्यां व्यजनेन

भृगुपुणादिभिरभ्यर्च्यमाना देवी दिव्यसिंहासने पद्मासनरूढा सकलकारणकार्यकरी लक्ष्मीर्देवस्य पृथग्भवनकल्पना ।

अलंचकार स्थिरा प्रसन्नलोचना सर्वदेवतैः पूज्यमाना वीरलक्ष्मीरिति विज्ञायत इत्युपनिषत् ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ।

व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।

स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इति सीतोपनिषत्समाप्ता ॥

Translation - भाषांतर
N/A

N/A
Last Updated : 2011-10-12T09:15:36.3530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

बोचका

  • m -कें 
  • पुन . गाठोडें ; चापचोप घड्या न घालतां बांधलेलें गाठोडें . [ तुर्की बुक्चा ] म्ह० बोचकें कीं डोचकें . बोचक्यांतला उंदीर - वि . ( ल . ) एखाद्या कामाची , कारभाराची बाहेरील व अंतस्थ सर्व परिस्थिति माहीत असलेला ; गुप्त व बारीक सारीक गोष्टी सुद्धा जाणणारा . 
  • n  A bundle or pack made up loosely. 
RANDOM WORD

Did you know?

चतुर्थीला चंद्र पाहूनच उपास का सोडतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.