संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः| अध्यायः ४७ पार्वतीखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ पार्वतीखण्डः - अध्यायः ४७ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः ४७ Translation - भाषांतर ब्रह्मोवाच ॥ततः शैलवरः सोपि प्रीत्या दुर्गोपवीतकम् ॥कारयामास सोत्साहं वेदमन्त्रैश्शिवस्य च ॥१॥अथ विष्ण्वादयो देवा मुनयस्सकुतू हलम् ॥हिमाचलप्रार्थनया विवेशान्तर्गृहं गिरेः ॥२॥श्रुत्याचारं भवाचारं विधाय च यथार्थतः ॥शिवामलंकृतां चक्रुश्शिवदत्तविभूषणैः ॥३॥प्रथमं स्नापयित्वा तां भूषयित्वाथ सर्वशः ॥नीराजिता सखीभिश्च विप्रपत्नीभिरेव च ॥४॥अहताम्बरयुग्मेन शोभिता वरवर्णिनी ॥विरराज महाशैलदुहिता शङ्करप्रिया ॥५॥कंचुकी परमा दिव्या नानारत्नान्विताद्भुता ॥विधृता च तया देव्या विलसन्त्याधिकं मुने ॥६॥सा बभार तथा हारं दिव्यरत्नसमन्वितम् ॥वलयानि महार्हाणि शुद्धचामीकराणि च ॥७॥स्थिता तत्रैव सुभगा ध्यायन्ती मनसा शिवम् ॥शुशुभेति महाशैलकन्यका त्रिजगत्प्रसूः ॥८॥तदोत्सवो महानासीदुभयत्र मुदा वहः ॥दानं बभूव विविधं ब्राह्मणेभ्यो विवर्णितम् ॥९॥अन्येषां द्रव्यदानं च बभूव विविधम्महत् ॥गीतवाद्यविनोदश्च तत्रोत्सवपुरस्सरम् ॥१०॥अथ विष्णुरहं धाता शक्राद्या अमरास्तथा ॥मुनयश्च महाप्रीत्या निखिलास्सोत्सवा मुदा ॥११॥सुप्रणम्य शिवां भक्त्या स्मृत्वा शिवपदाम्बुजम् ॥सम्प्राप्य हिमगिर्य्याज्ञां स्वं स्वं स्थाने समाश्रिताः ॥१२॥एतस्मिन्नन्तरे तत्र ज्योतिःशास्त्र विशारदः ॥हिमवन्तं गिरीन्द्रं तं गर्गो वाक्यमभाषत ॥१३॥ ॥गर्ग उवाच ॥हिमाचल धराधीश स्वामिन् कालीपतिः प्रभो ॥पाणिग्रहार्थं शंभुं चानय त्वं निजमंदिरम् ॥१४॥ ॥ब्रह्मोवाच ॥अथ तं समयं ज्ञात्वा कन्यादानोचितं गिरिः ॥निवेदितं च गर्गेण मुसुदेऽतीव चेतसि ॥१५॥महीधरान्द्विजांश्चैव परानपि तदा गिरिः ॥प्रेषयामास सुप्रीत्या शिवानयनकाम्यया ॥१६॥ते पर्वता द्विजाश्चैव सर्वमंगलपाणयः ॥संजग्मुस्सोत्सवाः प्रीत्या यत्र देवो महेश्वरः ॥१७॥तदा वादित्रघोषेण ब्रह्मघोषेण भूयसा ॥महोत्साहोऽभवत्तत्र गीतनृत्यान्वितेन हि ॥१८॥श्रुत्वा वादित्रनिर्घोषं सर्वे शंकरसेवकाः ॥उत्थितास्त्वैकपद्येन सदेवर्षिगणा मुदा ॥१९॥परस्परं समूचुस्ते हर्षनिर्भरमानसाः ॥अत्रागच्छंति गिरयश्शिवानयनकाम्यया ॥२०॥पाणिग्रहणकालो हि नूनं सद्यस्समागतः ॥महद्भाग्यं हि सर्वेषां संप्राप्तमहि मन्महे ॥२१॥धन्या वयं विशेषेण विवाहं शिवयोर्ध्रुवम् ॥द्रक्ष्यामः परमप्रीत्या जगतां मंगलालयम् ॥२२॥ब्रह्मोवाच ॥एवं यावदभूत्तेषां संवादस्तत्र चादरात् ॥तावत्सर्वे समायाताः पर्वतेंद्रस्य मंत्रिणः ॥२३॥ते गत्वा प्रार्थयांचक्रुश्शिव विष्ण्वादिकानपि ॥कन्यादानोचितः कालो वर्तते गम्यतामिति ॥२४॥ते तच्छ्रुत्वा सुरास्सर्वे मुने विष्ण्वादयोऽखिलाः ॥मुमुदुश्चेतसातीव जयेत्यूचुर्गिरिं द्रुतम् ॥२५॥शिवोऽपि मुमुदेऽतीव कालीप्रापणलालसः ॥गुप्तं चकार तच्चिह्नं मनस्येवाद्भुताकृतिः ॥२६॥अथ स्नानं कृतन्तेन मङ्गलद्रव्यसंयुतम् ॥शूलिना सुप्रसन्नेन लोकानुग्रहकारिणा ॥२७॥स्नातस्सुवाससा युक्तस्सर्वैस्तैः परिवारितः ॥आरोपितो वृषस्कन्धे लोकपालैस्सुसेवितः ॥२८॥पुरस्कृत्य प्रभुं सर्वे जग्मुर्हिमगिरेर्गृहम् ॥वाद्यानि वादयन्तश्च कृतवन्तः कुतूहलम् ॥२९॥हिमागप्रेषिता विप्रास्तथा ते पर्वतोत्तमाः ॥शम्भोरग्रचरा ह्यासन्कुतूहलसमन्विताः ॥३०॥बभौ छत्रेण महता ध्रियमाणो हि मूर्द्धनि ॥चामरैर्वीज्यमानोऽसौ सविता नो महेश्वरः ॥३१॥अहं विष्णुस्तथा चेन्द्रो लोकपाला स्तथैव च ॥अग्रगाः स्मातिशोभन्ते श्रिया परमया श्रिताः ॥३२॥ततश्शङ्खाश्च भेर्य्यश्च पटहानकगोमुखाः ॥पुनः पुनरवाद्यन्त वादित्राणि महोत्सवे ॥३३॥तथैव गायकास्सर्वे जगुः परममङ्गलम् ॥नर्तक्यो ननृतुस्सर्वा नानातालसमन्विताः ॥३४॥एभिस्समेतो जगदेकबन्धुर्ययौ तदानीं परमेशवर्चसा ॥सुसेव्यमानस्सकलैस्सुरेश्वरैर्विकीर्यमाणः कुसुमैश्च हर्षितैः ॥३५॥सम्पूजितस्तदा शम्भुः प्रविष्टो यज्ञमण्डपम् ॥संस्तूयमानो बह्वीभिः स्तुतिभिः परमेश्वरः ॥३६॥वृषादुत्तारयामासुर्महेशम्पर्वतोत्तमाः ॥निन्युर्गृहान्तरम्प्रीत्या महोत्सवपुरस्सरम् ॥३७॥हिमालयोऽपि सम्प्राप्तं सदेवगणमीश्वरम् ॥प्रणम्य विधिवद्भक्त्या नीराजनमथाकरोत् ॥३८॥सर्वान्सुरान्मुनीनन्यान्प्रणम्य समहोत्सवः ॥सम्मानमकरोत्तेषां प्रशंसन्स्वविधिम्मुदा ॥३९॥सोऽगस्साच्युतमीशानं सुपाद्यार्घ्यपुरस्सरम् ॥सदेवमुख्यवर्गं च निनाय स्वालयान्तरम् ॥४०॥प्राङ्गणे स्थापयामास रत्नसिंहासनेषु तान् ॥सर्वान्विष्णु च मामीशं विशिष्टांश्च विशेषतः ॥४१॥सखीभिर्मेनया प्रीत्या ब्राह्मणस्त्रीभिरेव च ॥अन्याभिश्च पुरन्धीभिश्चक्रे नीराजनम्मुदा ॥४२॥पुरोधसा कृत्यविदा शंकराय महात्मने ॥मधुपर्कादिकं यद्यत्कृत्यं तत्तत्कृतं मुदा ॥४३॥मया स नोदितस्तत्र पुरोधाः कृतवाँस्तदा ॥सुमंगलं च यत्कर्म प्रस्तावसदृशम्मुने ॥४४॥अन्तर्वेद्यां महाप्रीत्या सम्प्रविश्य हिमाद्रिणा ॥यत्र सा पार्वती कन्या सर्वाभरणभूषिता ॥४५॥वेदिकोपरि तन्वंगी संस्थिता सुविराजिता ॥तत्र नीतो मद्दादेवो विष्णुना च मया सह ॥४६॥लग्नन्निरीक्षमाणास्ते वाचस्पतिपुरोगमाः ॥कन्यादानोचितन्तत्र बभूवुः परमोत्सवाः ॥४७॥तत्रोपविष्टो गर्गश्च यत्रास्ति घटिकालयम् ॥यावच्छेषा घटी तावत्कृतम्प्रणवभाषणम् ॥४८॥पुण्याहम्प्रवदन्गर्गस्समाध्रेऽञ्जलिम्मुदा ॥पार्व्वत्यक्षतपूर्णं च ववृषे च शिवोपरि ॥४९॥तया सम्पूजितो रुद्रो दध्यक्षतकुशाम्बुभिः ॥परमोदाढ्यया तत्र पार्वत्या रुचिरास्यया ॥५०॥विलोकयन्ती तं शम्भुं यस्यार्थे परमन्तपः ॥कृतम्पुरा महाप्रीत्या विरराज शिवाति सा ॥५१॥मया मुने तदोक्तस्तु गर्गादिमुनिभिश्च सः ॥समानर्च शिवां शम्भुर्लौकिकाचारसंरतः ॥५२॥एवं परस्परं तौ वै पार्व्वतीपरमेश्वरौ ॥अर्चयन्तौ तदानीञ्च शुशुभाते जगन्मयौ ॥५३॥त्रैलोक्यलक्ष्म्या संवीतौ निरीक्षन्तौ परस्परम् ॥तदा नीराजितौ लक्ष्म्यादिभिस्स्त्रीभिर्विशेषतः ॥५४॥तथा परा वै द्विजयोषितश्च नीराजयामासुरथो पुरस्त्रियः ॥शिवाञ्च शम्भुञ्च विलोकयन्त्योऽवापुर्म्मुदन्तास्सकला महोत्सवम् ॥५५॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिव हिमगिरिगृहाभ्यन्तरगमनोत्सववर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥४७॥ N/A References : N/A Last Updated : October 07, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP