संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः| अध्यायः ८ पार्वतीखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ पार्वतीखण्डः - अध्यायः ८ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः ८ Translation - भाषांतर ॥ब्रह्मोवाच॥एकदा तु शिवज्ञानी शिवलीलाविदांवरः॥हिमाचलगृहं प्रीत्यागमस्त्वं शिवप्रेरितः ॥१॥दृष्ट्वा मुने गिरीशस्त्वां नत्वानर्च स नारद॥आहूय च स्वतनयां त्वदङ्घ्र्योस्तामपातयत् ॥२॥पुनर्नत्वा मुनीश त्वामुवाच हिमभूधरः॥साञ्जलिः स्वविधिं मत्वा बहुसन्नतमस्तकः ॥३॥हिमालय उवाच॥हे मुने नारद ज्ञानिन्ब्रह्मपुत्रवर प्रभो॥सर्वज्ञस्त्वं सकरुणः परोपकरणे रतः ॥४॥मत्सुताजातकं ब्रूहि गुणदोषसमुद्भवम्॥कस्य प्रिया भाग्यवती भविष्यति सुता मम ॥५॥ ॥ब्रह्मोवाच॥इत्युक्तो मुनिवर्य त्वं गिरीशेन हिमाद्रिणा॥विलोक्य कालिकाहस्तं सर्वांगं च विशेषतः ॥६॥अवोचस्त्वं गिरिं तात कौतुकी वाग्विशारद्॥ज्ञानी विदितवृत्तान्तो नारदः प्रीतमानसः ॥७॥नारद उवाच॥एषा ते तनया मेने सुधांशोरिव वर्द्धिता॥आद्या कला शैलराज सर्वलक्षणशालिनी ॥८॥स्वपतेस्सुखदात्यन्तं पित्रोः कीर्तिविवर्द्धिनी॥महासाध्वी च सर्वासु महानन्दकरी सदा ॥९॥सुलक्षणानि सर्वाणि त्वत्सुतायाः करे गिरे॥एका विलक्षणा रेखा तत्फलं शृणु तत्त्वतः ॥१०॥योगी नग्नोऽगुणोऽकामी मातृतातविवर्जितः॥अमानोऽशिववेषश्च पतिरस्याः किलेदृशः ॥११॥ ॥ब्रह्मोवाच॥इत्याकर्ण्य वचस्ते हि सत्यं मत्त्वा च दम्पती॥मेना हिमाचलश्चापि दुःखितौ तौ बभूवतुः ॥१२॥शिवाकर्ण्यवचस्ते हि तादृशं जगदम्बिका॥लक्षणैस्तं शिवं मत्त्वा जहर्षाति मुने हृदि ॥१३॥न मृषा नारदवचस्त्विति संचिन्त्य सा शिवा॥स्नेहं शिवपदद्वन्द्वे चकाराति हृदा तदा ॥१४॥उवाच दुःखितः शैलस्त्वान्तदा हृदि नारद॥कमुपायं मुने कुर्यामतिदुःखमभूदिति ॥१५॥तच्छुत्वा त्वं मुने प्रात्थ महाकौतुककारकः॥हिमाचलं शुभैर्वाक्यैर्हर्षयन्वाग्विशारदः ॥१६॥नारद उवाच॥स्नेहाच्छृणु गिरे वाक्यं मम सत्यं मृषा न हि॥कररेखा ब्रह्मलिपिर्न मृषा भवति धुवम् ॥१७॥तादृशोऽस्याः पतिः शैल भविष्यति न संशयः॥तत्रोपायं शृणु प्रीत्या यं कृत्वा लप्स्यसे सुखम् ॥१८॥तादृशोऽस्ति वरः शम्भुलीलारूपधरः प्रभुः॥कुलक्षणानि सर्वाणि तत्र तुल्यानि सद्गुणैः ॥१९॥प्रभौ दोषो न दुःखाय दुःखदोऽत्यप्रभौ हि सः॥रविपावकगंगानां तत्र ज्ञेया निदर्शना ॥२०॥तस्माच्छिवाय कन्या स्वां शिवां देहि विवेकतः॥शिवस्सर्वेश्वरस्सेव्योऽविकारी प्रभुरव्ययः ॥२१॥शीघ्रप्रसादः स शिवस्तां ग्रहीष्यत्यसंशयम्॥तपःसाध्यो विशेषेण यदि कुर्याच्छिवा तपः ॥२२॥सर्वथा सुसमर्थो हि स शिवस्सकलेश्वरः॥कुलिपेरपि विध्वंसी ब्रह्माधीनस्त्वकप्रदः ॥२३॥ ॥ब्रह्मोवाच॥इत्युक्त्वा त्वं पुनस्तात कौतुकी ब्रह्मविन्मुने॥शैलराजमवोचो हि हर्षयन्वचनैश्शुभैः ॥२४॥भाविनी दयिता शम्भोस्सानुकूला सदा हरे॥महासाध्वी सुव्रता च पित्रोस्सुखविवर्द्धिनी ॥२५॥शम्भोश्चित्तं वशे चैषा करिष्यति तपस्विनी॥स चाप्येनामृते योषां न ह्यन्यामुद्वहिष्यति ॥२६॥एतयोस्सदृशं प्रेम न कस्याप्येव तादृशम्॥भूतं वा भविता वापि नाधुना च प्रवर्तते ॥२७॥अनयोस्सुरकार्य्याणि कर्तव्यानि मृतानि च॥यानि यानि नगश्रेष्ठ जीवितानि पुनः पुनः ॥२८॥अनया कन्यया तेऽद्रे अर्धनारीश्वरो हरः॥भविष्यति तथा हर्षदिनयोर्मिलितम्पुनः ॥२९॥शरीरार्धं हरस्यैषा हरिष्यति सुता तव॥तपः प्रभावात्संतोष्य महेशं सकलेश्वरम् ॥३०॥स्वर्णगौरी सुवर्णाभा तपसा तोष्य तं हरम्॥विद्युद्गौरतमा चेयं तव पुत्री भविष्यति ॥३१॥गौरीति नाम्ना कन्या तु ख्यातिमेषा गमिष्यति॥सर्वदेवगणैः पूज्या हरिब्रह्मादिभिस्तथा ॥३२॥नान्यस्मै त्वमिमां दातुमिहार्हसि नगोत्तम॥इदं चोपांशु देवानां न प्रकाश्यं कदाचन ॥३३॥ब्रह्मोवाच॥इति तस्य वचः श्रुत्वा देवर्षे तव नारद॥उवाच हिमवान्वाक्यं मुने त्वाम्वाग्विशारदः ॥३४॥हिमालय उवाचा॥हे मुने नारद प्राज्ञ विज्ञप्तिं कांचिदेव हि॥करोमि तां शृणु प्रीत्या तस्त्वं प्रमुदमावह ॥३५॥श्रूयते त्यक्तसंगस्स महादेवो यतात्मवान्॥तपश्चरति सन्नित्यं देवानामप्यगोचरः ॥३६॥स कथं ध्यान मार्गस्थः परब्रह्मार्पितं मनः॥भ्रंशयिष्यति देवर्षे तत्र मे संशयो महान् ॥३७॥अक्षरं परमं ब्रह्म प्रदीपकलिकोपमम्॥सदाशिवाख्यं स्वं रूपं निर्विकारमजापरम् ॥३८॥निर्गुणं सगुणं तच्च निर्विशेषं निरीहकम्॥अतः पश्यति सर्वत्र न तु बाह्यं निरीक्षते ॥३९॥इति स श्रूयते नित्यं किंनराणां मुखान्मुने॥इहागतानां सुप्रीत्या किन्तन्मिथ्या वचो धुवम् ॥४०॥विशेषतः श्रूयते स साक्षान्नाम्ना तथा हरः॥समयं कृतवान्पूर्व्वं तन्मया गदितं शृणु ॥४१॥न त्वामृतेऽन्यां वरये दाक्षायणि प्रिये सती॥भार्यार्थं न ग्रहीष्यामि सत्यमेतद्ब्रवीमि ते ॥४२॥इति सत्यासमं तेन पुरैव समयः कृतः॥तस्यां मृतायां स कथं स्वयमन्यां ग्रहीष्यति ॥४३॥ ॥ब्रह्मोवाच॥इत्युक्त्वा स गिरिस्तूष्णीमास तस्य पुरस्तव॥तदाकर्ण्याथ देवर्षे त्वं प्रावोचस्सुतत्त्वतः ॥४४॥नारद उवाच॥न वै कार्या त्वया चिंता गिरिराज महामते॥एषा तव सुता काली दक्षजा ह्यभवत्पुरा ॥४५॥सतीनामाभवत्तस्यास्सर्वमंगलदं सदा॥सती सा वै दक्षकन्या भूत्वा रुद्रप्रियाभवत ॥४६॥पितुर्यज्ञे तथा प्राप्यानादरं शंकरस्य च॥तं दृष्ट्वा कोपमाधायात्याक्षीद्देहं च सा सती ॥४७॥पुनस्सैव समुत्पन्ना तव गेहेऽम्बिका शिवा॥पार्वती हरपत्नीयं भविष्यति न संशयः ॥४८॥एतत्सर्वं विस्तरात्त्वं प्रोक्तवान्भूभृते मुने॥पूर्वरूपं चरित्रं च पार्वत्याः प्रीतिवर्धनम् ॥४९॥तं सर्वं पूर्ववृत्तान्यं काल्या मुनिमुखाद्गिरिः॥श्रुत्वा सपुत्रदारः स तदा निःसंशयोऽभवत् ॥५०॥ततः काली कथां श्रुत्वा नारदस्य मुखात्तदा॥लज्जयाधोमुखी भूत्वा स्मितविस्तारितानना ॥५१॥करेण तां तु संस्पृश्य श्रुत्वा तच्चरितं गिरिः॥मूर्ध्नि शश्वत्तथाघ्राय स्वास नान्ते न्यवेशयत् ॥५२॥ततस्त्वं तां पुनर्दृष्ट्वाऽवोचस्तत्र स्थितां मुने॥हर्षयन् गिरिराजं च मेनकान्तनयैः सह ॥५३॥सिंहासनन्तु किन्त्वस्याश्शैलराज भवेदतः॥शम्भोरूरौ सदैतस्या आसनं तु भविष्यति ॥५४॥हरोरूर्वासनम्प्राप्य तनया तव सन्ततम्॥न यत्र कस्याचिदृष्टिर्मानसं वा गमिष्यति ॥५५॥ ॥ब्रह्मोवाच॥इति वचनमुदारं नारद त्वं गिरीशं त्रिदिवमगम उक्त्वा तत्क्षणादेवप्रीत्या॥गिरिपतिरपि चित्ते चारुसंमोदयुक्तस्स्वगृहमगमदेवं सर्वसंपत्समृद्धम् ॥५६॥इति श्रीशिवमहा पुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे नारदहिमालयसंवादवर्णनं नामाष्टमोऽध्यायः ॥८॥ N/A References : N/A Last Updated : October 07, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP