संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः|
अध्यायः १२

पार्वतीखण्डः - अध्यायः १२

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥ब्रह्मोवाच ॥
अथ शैलपतिर्हृष्टः सत्पुष्पफलसंचयम्॥
समादाय स्वतनयासहितोऽगाद्धरांतिकम् ॥१॥
स गत्वा त्रिजगन्नाथं प्रणम्य ध्यानतत्परम्॥
अर्थयामास तनयां कालीं तस्मै हृदाद्भुताम् ॥२॥
फलपुष्पादिकं सर्वं तत्तदग्रे निधाय सः॥
अग्रे कृत्वा सुतां शम्भुमिदमाह च शैलराट् ॥३॥
हिमगिरिरुवाच॥
भगवंस्तनया मे त्वां सेवितुं चन्द्रशेखरम्॥
समुत्सुका समानीता त्वदाराधनकांक्षया ॥४॥
सखीभ्यां सह नित्यं त्वां सेवतामेव शंकरम्॥
अनुजानीहि तां नाथ मयि ते यद्यनुग्रहः ॥५॥
ब्रह्मोवाच॥
अथ तां शंकरोऽपश्यत्प्रथमारूढयौवनाम्॥
फुल्लेन्दीवरपत्राभा पूर्णचन्द्रनिभाननाम् ॥६॥
समस्तलीलासंस्थानशुभवेषविजृम्भिकाम्॥
कम्बुग्रीवां विशालाक्षीं चारुकर्णयुगोज्ज्वलाम् ॥७॥
मृणालायतपर्य्यन्तबाहुयुग्ममनोहराम्॥
राजीवकुड्मलप्रख्यौ घनपीनौदृढौस्तनौ ॥८॥
बिभ्रतीं क्षीणमध्यां च त्रिवलीमध्यराजिताम्॥
स्थलपद्मप्रतीकाशपादयुग्मविराजिताम् ॥९॥
ध्यानपंजरनिर्बद्धमुनिमानसमप्यलम्॥
दर्शनाद्भ्रंशने शक्तां योषिद्गणशिरोमणिम् ॥१०॥
दृष्ट्वा तां तादृशीं तात ध्यानिनां च मनोहराम्॥
विग्रहे तन्त्रमन्त्राणां वर्द्धिनीं कामरूपिणीम् ॥११॥
न्यमीलयदृशौ शीघ्रं दध्यौ स्वं रूपमुत्तमम्॥
परतत्त्वं महायोगी त्रिगुणात्परमव्ययम् ॥१२॥
दृष्ट्वा तदानीं सकलेश्वरं विभुं तपोजुषाणं विनिमीलितेक्षणम्॥
कपर्दिनं चन्द्रकलाविभूषणं वेदान्तवेद्यं परमासने स्थितम् ॥१३॥
ववन्द शीर्ष्णा च पुनर्हिमाचलः स संशयं प्रापददीनसत्त्वः॥
उवाच वाक्यं जगदेकबन्धुं गिरीश्वरो वाक्यविदां वरिष्ठः ॥१४॥
हिमाचल उवाच॥
देवदेव महादेव करुणाकर शंकर॥
पश्य मां शरणम्प्राप्तमुन्मील्य नयने विभो ॥१५॥
शिव शर्व महेशान जगदानन्दकृत्प्रभो॥
त्वां नतोऽहं महादेव सर्वापद्विनिवर्तकम् ॥१६॥
न त्वां जानंति देवेश वेदाश्शास्त्राणि कृत्स्नशः॥
अतीतो महिमाध्वानं तव वाङ्मनसोः सदा ॥१७॥
अतद्व्यावृत्तितस्त्वां वै चकितं चकितं सदा॥
अभिधत्ते श्रुतिः सर्वा परेषां का कथा मता ॥१८॥
जानंति बहवो भक्तास्त्वत्कृपां प्राप्य भक्तितः॥
शरणागत भक्तानां न कुत्रापि भ्रमादिकम् ॥१९॥
विज्ञप्तिं शृणु मत्प्रीत्या स्वदासस्य ममाधुना॥
तव देवाज्ञया तात दीनत्वाद्वर्णयामि हि ॥२०॥
सभाग्योहं महादेव प्रसादात्तव शंकर॥
मत्वा स्वदासं मां नाथ कृपां कुरु नमोऽस्तु ते ॥२१॥
प्रत्यहं चागमिष्यामि दर्शनार्थं तव प्रभो॥
अनया सुतया स्वामिन्निदेशं दातुमर्हसि ॥२२॥
ब्रह्मोवाच॥
इत्याकर्ण्य वचस्तस्योन्मील्य नेत्रे महेश्वरः॥
त्यक्तध्यानः परामृश्य देवदेवोऽब्रवीद्वचः ॥२३॥
 ॥महेश्वर उवाच॥
आगंतव्यं त्वया नित्यं दर्शनार्थं ममाचल॥
कुमारीं सदने स्थाप्य नान्यथा मम दर्शनम् ॥२४॥
 ॥ब्रह्मोवाच॥
महेशवचनं श्रुत्वा शिवातातस्तथाविधम्॥
अचलः प्रत्युवाचेदं गिरिशं नतकमधरः ॥२५॥
हिमाचल उवाच॥
कस्मान्मयानया सार्द्धं नागंतव्यं तदुच्यताम्॥
सेवने किमयोग्येयं नाहं वेद्म्यत्र कारणम् ॥२६॥
ब्रह्मोवाच॥
ततोऽब्रवीद्गिरिं शंभुः प्रहसन्वृषभध्वजः॥
लोकाचारं विशेषेण दर्शयन्हि कुयोगिनाम् ॥२७॥
शंभुरुवाच॥
इयं कुमारी सुश्रोणी तन्वी चन्द्रानना शुभा॥
नानेतव्या मत्समीपे वारयामि पुनः पुनः ॥२८॥
मायारूपा स्मृता नारी विद्वद्भिर्वेदपारगैः॥
युवती तु विशेषेण विघ्नकर्त्री तपस्विनाम् ॥२९॥
अहं तपस्वी योगी च निर्लिप्तो मायया सदा॥
प्रयोजनं न युक्त्या वै स्त्रिया किं मेस्ति भूधर ॥३०॥
एवं पुनर्न वक्तव्यं तपस्विवरसंश्रित॥
वेदधर्मप्रवीणस्त्वं यतो ज्ञानिवरो बुधः ॥३१॥
भवत्यचल तत्संगाद्विषयोत्पत्तिराशु वै॥
विनश्यति च वैराग्यं ततो भ्रश्यति सत्तपः ॥३२॥
अतस्तपस्विना शैल न कार्या स्त्रीषु संगतिः॥
महाविषयमूलं सा ज्ञानवैराग्यनाशिनी ॥३३॥
 ॥ब्रह्मोवाच॥
इत्याद्युक्त्वा बहुतरं महायोगी महेश्वरः ॥
विरराम गिरीशं तं महायोगिवरः प्रभुः ॥३४॥
एतच्छ्रुत्वा वचनं तस्य शंभोर्निरामयं निःस्पृहं निष्ठुरं च॥
कालीतातश्चकितोऽभूत्सुरर्षे तद्वत्किंचिद्व्याकुलश्चास तूष्णीम् ॥३५॥
तपस्विनोक्तं वचनं निशम्य तथा गिरीशं चकितं विचार्य्य॥
अतः प्रणम्यैव शिवं भवानी जगाद वाक्यं विशदन्तदानीम् ॥३६॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवहिमाचलसम्वादवर्णनं नाम द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP