संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः| अध्यायः ४४ पार्वतीखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ पार्वतीखण्डः - अध्यायः ४४ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः ४४ Translation - भाषांतर ॥ब्रह्मोवाच ॥संज्ञां लब्धा ततस्सा च मेना शैलप्रिया सती ॥विललापातिसंक्षुब्धा तिरस्कारमथाकरोत् ॥१॥तत्र तावत्स्वपुत्राँश्च निनिन्द खलिता मुहुः ॥प्रथमं सा ततः पुत्री कथयामास दुर्वचः ॥२॥ ॥मेनोवाच ॥मुने पुरा त्वया प्रोक्तं वरिष्यति शिवा शिवम् ॥पश्चाद्धिमवतः कृत्यं पूजार्थं विनिवेशितम् ॥३॥ततो दृष्टं फलं सत्यं विपरीतमनर्थकम् ॥मुनेऽधमाहं दुर्बुद्धे सर्वथा वञ्चिता त्वया ॥४॥पुनस्तया तपस्तप्तं दुष्करं मुनिभिश्च यत् ॥तस्य लब्धं फलं ह्येतत्पश्यतां दुःखदायकम् ॥५॥किं करोमि क्व गच्छामि को मे दुःखं व्यपोहताम् ॥कुलादिकं विनष्टं मे विहितं जीवितं मम ॥६॥क्व गता ऋषयो दिव्याः श्मश्रूणि त्रोटयाम्यहम् ॥तपस्विनी च या पत्नी सा धूर्ता स्वयमागता ॥७॥केषाञ्चैवापराधेन सर्वं नष्टं ममाधुना ॥इत्युक्त्वा वीक्ष्य च सुतामुवाच वचनं कटु ॥८॥किं कृतं ते सुते दुष्टे कर्म दुःखकरं मम ॥हेम दत्त्वा त्वयानीतः काचो वै दुष्टया स्वयम् ॥९॥हित्वा तु चन्दनं भूयो लेपितः कर्दमस्त्वया ॥हंसमुड्डीय काको वै गृहीतो हस्तपञ्जरे ॥१०॥हित्वा ब्रह्मजलं दूरे पीतं कूपोदकं त्वया ॥सूर्यं हित्वा तु खद्योतो गृहीतो यत्नतस्त्वया ॥११॥तण्डुलांश्च तथा हित्वा कृतं वै तुषभक्षणम् ॥प्रक्षिप्याज्यं तथा तैलं कारण्डं भुक्तमादरात् ॥१२॥सिंहसेवां तथा मुक्त्वा शृगालस्सेवितस्त्वया ॥ब्रह्मविद्यां तथा मुक्त्वा कुगाथा च श्रुता त्वया ॥१३॥गृहे यज्ञविभूतिं हि दूरीकृत्य सुमंगलाम् ॥गृहीतश्च चिताभस्म त्वया पुत्रि ह्यमंगलम् ॥१४॥सर्वान् देववरांस्त्यक्त्वा विष्ण्वादीन्परमेश्वरान् ॥कृतं त्वया कुबुद्ध्या वै शिवार्थं तप ईदृशम् ॥१५॥धिक्त्वा च तव बुद्धिश्च धिग्रूपं चरितं तव ॥धिक् चोपदेशकर्त्तारं धिक्सख्यावपि ते तथा ॥१६॥आवां च धिक्तथा पुत्री यौ ते जन्मप्रवर्तकौ ॥धिक्ते नारद बुद्धिञ्च सप्तर्षींश्च सुबुद्धिदान् ॥१७॥धिक्कुलं धिक्क्रियादाक्ष्यं सर्वं धिग्यत्कृतं त्वया ॥गृहन्तु धुक्षितं त्वेतन्मरणं तु ममैव हि ॥१८॥पार्वतानामयं राजा नायातु निकटे मम ॥सप्तर्षयस्स्वयं नैव दर्शयन्तु मुखम्मम ॥१९॥साधितं किञ्च सर्वैस्तु मिलित्वा घातितं कुलम् ॥वन्ध्याहं न कथं जाता गर्भो न गलितः कथम् ॥२०॥अथो न वा मृता चाहं पुत्रिका न मृता कथम् ॥रक्षसाद्य कथं नो वा भक्षिता गगने पुनः ॥२१॥छेदयामि शिरस्तेऽद्य किं करोमि कलेवरैः ॥त्यक्त्वा त्वां च कुतो यायां हाहा मे जीवितं हतम् ॥२२॥ ॥ब्रह्मोवाच ॥इत्युक्त्वा पतिता सा च मेना भूमौ विमूर्छिता ॥व्याकुला शोकरोषाद्यैर्न गता भर्तृसन्निधौ ॥२३॥हाहाकारो महानासीत्त स्मिन्काले मुनीश्वर ॥सर्वे समागतास्तत्र क्रमात्तत्सन्निधौ सुराः ॥२४॥पुरा देवमुने चाहमागतस्तु स्वयं तदा ॥मां दृष्ट्वा त्वं वचस्ता वै प्रावोच ऋषिसत्तम ॥२५॥नारद उवाच ॥यथार्थं सुंदरं रूपं ना ज्ञातं ते शिवस्य वै ॥लीलयेदं धृतं रूपं न यथार्थं शिवेन च ॥२६॥तस्मात्क्रोधं परित्यज्य स्वस्था भव पतिव्रते ॥कार्य्यं कुरु हठं त्यक्त्वा शिवां देहि शिवाय च ॥२७॥ ॥ब्रह्मोवाच ॥तदाकर्ण्य वचस्ते सा मेना त्वां वाक्यमब्रवीत् ॥उत्तिष्ठेतो गच्छ दूरं दुष्टाधमवरो भवान् ॥२८॥इत्युक्ते तु तया देव इन्द्राद्याः सकलाः क्रमात् ॥समागत्य च दिक्पाला वचनं चेदमब्रुवन् ॥२९॥ ॥देवा ऊचुः ॥हे मेने पितृकन्ये हि शृण्वस्मद्वचनम्मुदा ॥अयं वै परमः साक्षाच्छिवः परसुखावहः ॥३०॥कृपया च भवत्पुत्र्यास्तपो दृष्ट्वातिदुस्सहम् ॥दर्शनं दत्तवाञ्छम्भुर्वरं सद्भक्तवत्सलः ॥३१॥ ॥ब्रह्मोवाच ॥अथोवाच सुरान्मेना विलप्याति मुहुर्मुहुः ॥न देया तु मया कन्या गिरिशायोग्ररूपिणे ॥३२॥किमर्थन्तु भवन्तश्च सर्वे देवाः प्रपञ्चिताः ॥रूपमस्याः परन्नाम व्यर्थीकर्तुं समुद्यतः ॥३३॥इत्युक्ते च तया तत्र ऋषयस्सप्त एव हि ॥ऊचुस्ते वच आगत्य वसिष्ठाद्या मुनीश्वर ॥३४॥सप्तर्षयः ऊचुः ॥कार्य्यं साधयितुम्प्राप्ताः पितृकन्ये गिरिप्रिये ॥विरुद्धं चात्र उक्तार्थे कथम्मन्यामहे वयम् ॥३५॥ब्रह्मोवाच ॥अयं वै परमो लाभो दर्शनं शंकरस्य यत् ॥दानपात्रं स ते भूत्वागतस्तव च मंदिरम् ॥३६॥ ॥ब्रह्मोवाच ॥इत्युक्त्वा तैस्ततो मेना मुनिवाक्यं मृषाकरोत् ॥प्रत्युवाच च रुष्टा सा तानृषीञ्ज्ञानदुर्बला ॥३७॥मेनोवाच ॥शस्त्राद्यैर्घातयिष्येहं न हास्ये शंकरायताम् ॥दूरं गच्छत सर्वे हि नागन्तव्यं मदन्तिके ॥३८॥ब्रह्मोवाच ॥इत्युक्त्वा विररामाशु सा विलप्यातिविह्वला ॥हाहाकारो महानासीत्तत्र तद्वृत्ततो मुने ॥३९॥ततो हिमालयस्तत्राजगामातिसमाकुलः ॥ताञ्च बोधयितुं प्रीत्या प्राह तत्त्वञ्च दर्शयन् ॥४०॥हिमालय उवाच ॥शृणु मेने वचो मेऽद्य विकलाऽसि कथम्प्रिये ॥के के समागता गेहं कथं चैतान्विनिन्दसि ॥४१॥शंकरं त्वं च जानासि रूपं दृष्ट्वासि विह्वला ॥विकटं तस्य शंभोस्तु नानारूपाभिधस्य हि ॥४२॥स शंकरो मया ज्ञातस्सर्वेषां प्रतिपालकः ॥पूज्यानां पूज्य एवासौ कर्तानुग्रहनिग्रहान् ॥४३॥हठं न कुरु मुञ्च त्वं दुःखं प्राणप्रियेऽनघे ॥उत्तिष्ठारं तथा कार्यं कर्तुमर्हसि सुव्रते ॥४४॥यद्वै द्वारगतश्शंभुः पुरा विकटरूपधृक् ॥नानालीलाञ्च कृतवाञ्चेतयामि च तामिमाम् ॥४५॥तन्माहात्म्यं परं दृष्ट्वा कन्यां दातुं त्वया मया ॥अंगीकृतं तदा देवि तत्प्रमाणं कुरु प्रिये ॥४६॥ब्रह्मोवाच ॥इत्युक्त्वा सोऽद्रिनाथो हि विरराम ततो मुने ॥तदाकर्ण्य शिवामाता मेनोवाच हिमालयम् ॥४७॥मेनोवाच ॥मद्वचः श्रूयतां नाथ तथा कर्तुं त्वमर्हसि ॥गृहीत्वा तनुजां चैनां बद्ध्वा कण्ठे तु पार्वतीम् ॥४८॥अधः पातय निःशंकं दास्ये तां न हराय हि ॥तथैनामथवा नाथ गत्वा वै सागरे सुताम् ॥४९॥निमज्जय दयां त्यक्त्वा ततोऽद्रीश सुखी भव ॥यदि दास्यसि पुत्री त्वं रुद्राय विकटात्मने ॥तर्हि त्यक्ष्याम्यहं स्वामिन्निश्चयेन कलेवरम् ॥५०॥ ॥ब्रह्मोवाच ॥इत्युक्ते च तदा तत्र वचने मेनया हठान् ॥उवाच वचनं रम्यं पार्वती स्वयमागता ॥५१॥पार्वत्युवाच ॥मातस्ते विपरीता हि बुद्धिर्जाताऽशुभावहा ॥धर्मावलम्बनात्त्वं हि कथन्धर्मं जहासि वै ॥५२॥अयं रुद्रोऽपरस्साक्षात्सर्वप्रभव ईश्वरः शम्भुस्सुरूपस्सुखदस्सर्वश्रुतिषु वर्णितः ॥५३॥महेशश्शंकरश्चायं सर्वदेवप्रभुस्स्वराट् ॥नानारूपाभिधो मातर्हरिब्रह्मादिसेवितः ॥५४॥अधिष्ठानं च सर्वेषां कर्ता हर्ता च स प्रभुः ॥निर्विकारी त्रिदेवेशो ह्यविनाशी सनातनः ॥५५॥यदर्थे देवतास्सर्वा आयाता किंकरीकृताः ॥द्वारि ते सोत्सवाश्चाद्य किमतोऽन्यत्परं सुखम् ॥५६॥उत्तिष्ठातः प्रयत्नेन जीवितं सफलं कुरु देहि मां त्वं शिवायास्मै स्वाश्रमं कुरु सार्थकम् ॥५७॥देहि मां परमेशाय शंकराय जनन्यहो ॥स्वीकुरु त्वमिमं मातर्विनयम्मे ब्रवीमि ते ॥५८॥चेन्न दास्यसि तस्मै मां न वृणेऽन्यमहं वरम् ॥भागं लभेत्कथं सैंहं शृगालः परवंचकः ॥५९॥मनसा वचसा मातः कर्मणा च हरस्त्वयम् ॥मया वृतो वृतश्चैव यदिच्छसि तथा कुरु ॥६०॥ब्रह्मोवाच ॥इत्याकर्ण्य शिवावाक्यं मेना शैलेश्वरप्रिया ॥सुविलप्य महाक्रुद्धा गृहीत्वा तत्कलेवरम् ॥६१॥मुष्टिभिः कूर्परैश्चैव दन्तान्धर्षयती च सा ॥ताडयामास तां पुत्रीं विह्वलातिरुषान्विता ॥६२॥ये तत्र ऋषयस्तात त्वदाद्याश्चापरे मुने ॥तद्धस्तात्ताम्परिच्छिद्य नित्युर्दूरतरं ततः ॥६३॥तान्वै तथा विधान्दृष्ट्वा भर्त्सयित्वा पुनः पुनः ॥उवाच श्रावयन्ती सा दुर्वचो निखिलान्पुनः ॥६४॥मेनोवाच ॥किं मेना हि करिष्येऽहं दुष्टां ग्रहवतीं शिवाम् ॥दास्याम्यस्यै गरन्तीव्रं कूपे क्षेप्स्यामि वा ध्रुवम् ॥६५॥छेत्स्यामि कालीमथवा शस्त्रास्त्रैर्भूरिखण्डशः ॥निमज्जयिष्ये वा सिन्धौ स्वसुताम्पार्वतीं खलु ॥६६॥अथवा स्वशरीरं हि त्यक्ष्याम्याश्वन्यथा ध्रुवम् ॥न दास्ये शम्भवे कन्यां दुर्गां विकटरूपिणे ॥६७॥वरोऽयं कीदृशो भीमोऽनया लब्धश्च दुष्टया ॥कारितश्चोपहासो मे गिरेश्चापि कुलस्य हि ॥६८॥न माता न पिता भ्राता न बन्धुर्गोत्रजोऽपि हि ॥नो सुरूपं न चातुर्य्यं न गुहं वास्य किंचन ॥६९॥न वस्त्रं नाप्यलङ्कारास्सहायाः केऽपि तस्य न ॥वाहनं न शुभं ह्यस्य न वयो न धनन्तथा ॥७०॥न पावित्र्यं न विद्या च कीदृशः काय आर्तिदः ॥किं विलोक्य मया पुत्री देयास्मै स्यात्सुमंगला ॥७१॥ब्रह्मोवाच ॥इत्यादि सुविलप्याथ बहुशो मेनका तदा ॥रुरोदोच्चैर्मुने सा हि दुःखशोकपरिप्लुता ॥७२॥अथाहन्द्रुतमागत्याकथयम्मेनकां च ताम् ॥शिवतत्त्वं च परमं कुज्ञानहरमुत्तमम् ॥७३॥ब्रह्मोवाच ॥श्रोतव्यम्प्रीतितो मेने मदीयं वचनं शुभम् ॥यस्य श्रवणतः प्रीत्या कुबुद्धिस्ते विनश्यति ॥७४॥शङ्करो जगतः कर्ता भर्ता हर्ता तथैव च ॥न त्वं जानासि तद्रूपं कथन्दुःखं समीहसे ॥७५॥अनेकरूपनामा च नाना लीलाकरः प्रभुः ॥सर्वस्वामी स्वतन्त्रश्च मायाधीशोऽविकल्पकः ॥७६॥इति विज्ञाय मेने त्वं शिवान्देहि शिवाय वै ॥कुहठन्त्यज कुज्ञानं सर्वकार्यविनाशनम् ॥७७॥ब्रह्मोवाच ॥इत्युक्ता सा मया मेना विलपन्ती मुहुर्मुहुः ॥लज्जां किंचिच्छनैस्त्यक्त्वा मुने मां वाक्यमब्रवीत् ॥७८॥मेनोवाच ॥किमर्थन्तु भवान्ब्रह्मन्रूपमस्य महावरम् ॥व्यर्थीकरोति किमियं हन्यतां न स्वयं शिवा ॥७९॥न वक्तव्यं च भवता शिवाय प्रतिदीयताम् ॥न दास्येऽहं शिवायैनां स्वसुताम्प्राणवल्लभाम् ॥८०॥ब्रह्मोवाच ॥इत्युक्ते तु तदा सिद्धाः सनकाद्या महामुने ॥समागत्य महाप्रीत्या वचनं हीदमब्रुवन् ॥८१॥सिद्धा ऊचुः ॥अयम्वै परमस्साक्षाच्छिवः परसुखावहः ॥कृपया च भवत्पुत्र्यै दर्शनन्दत्तवान्प्रभुः ॥८२॥ ॥ब्रह्मोवाच ॥अथोवाच तु तान्मेना विलप्य च मुहुर्मुहुः ॥न देया तु मया सम्यग्गिरिशायोग्ररूपिणे ॥८३॥किमर्थन्तु भवन्तश्च सर्वे सिद्धाः प्रपञ्चिनः ॥रूपमस्याः परं नाम व्यर्थीकर्त्तुं समुद्यताः ॥८४॥इत्युक्ते च तया तत्र मुनेऽहं चकितोऽभवम् ॥सर्वे विस्मयमापन्ना देवसिद्धर्षिमानवाः ॥८५॥एतस्मिन्समये तस्या हठं श्रुत्वा दृढं महत् ॥द्रुतं शिवप्रियो विष्णुस्समागत्याऽब्रवीदिदम् ॥८६॥विष्णुरुवाच ॥पितॄणां च प्रिया पुत्री मानसी गुणसंयुता ॥पत्नी हिमवतस्साक्षाद्ब्रह्मणः कुलमुत्तमम् ॥८७॥सहायास्तादृशा लोके धन्या ह्यसि वदामि किम् ॥धर्मस्याधारभूतासि कथं धर्मं जहासि हि ॥८८॥देवैश्च ऋषिभिश्चैव ब्रह्मणा वा मया तथा ॥विरुद्धं कथ्यते किं नु त्वयैव सुविचार्यताम् ॥८९॥शिवत्वं न च जानासि निर्गुणस्य गुणस्स हि ॥विरूपस्स सुरूपो हि सर्वसेव्यस्सतां गतिः ॥९०॥तेनैव निर्मिता देवी मूलप्रकृतिरीश्वरी ॥तत्पार्श्वे च तदा तेन निर्मितः पुरुषोत्तमः ॥९१॥ताभ्यां चाहं तथा ब्रह्मा ततश्च गुणरूपतः ॥अवतीर्य स्वयं रुद्रो लोकानां हितकारकः ॥९२॥ततो वेदास्तथा देवा यत्किंचिद्दृश्यते जगत् ॥स्थावरं जंगमं चैव तत्सर्वं शकरादभूत् ॥९३॥तद्रूपम्वर्णितं केन ज्ञायते केन वा पुनः ॥मया च ब्रह्मणा यस्य ह्यतो लब्धश्च नैव हि ॥९४॥आब्रह्मस्तम्बपर्यंतं यत्किञ्चिद्दृश्यते जगत् ॥तत्सर्वं च शिवं विद्धि नात्र कार्या विचारणा ॥९५॥स एवेदृक्सुरूपेणावतीर्णो निजलीलया ॥शिवातपः प्रभावाद्धि तव द्वारि समागतः ॥९६॥तस्मात्त्वं हिमवत्पत्नि दुःखं मुञ्च शिवम्भज ॥भविष्यति महानन्दः क्लेशो यास्यति संक्षयम् ॥९७॥ब्रह्मोवाच ॥एवम्प्रबोधितायास्तु मेनकाया अभून्मुने ॥तस्यास्तु कोमलं किंचिन्मनो विष्णुप्रबोधितम् ॥९८॥परं हठं न तत्याज कन्यान्दातुं हराय न ॥स्वीचकार तदा मेना शिवमायाविमोहि ता ॥९९॥उवाच च हरिं मेना किञ्चिद्बुद्ध्वा गिरिप्रिया ॥श्रुत्वा विष्णुवचो रम्यं गिरिजाजननी हि सा ॥१००॥यदि रम्यतनुस्स स्यात्तदा देया मया सुता ॥नान्यथा कोटिशो यत्नैर्वच्मि सत्यन्दृढं वचः ॥१०१॥ब्रह्मोवाच ॥इत्युक्त्वा वचनं मेना तूष्णीमास दृढव्रता ॥शिवेच्छाप्रेरिता धन्या तथा याखिलमोहिनी ॥१०२॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वती खण्डे मेनाप्रबोधवर्णनो नाम चतुश्चत्वारिंशोऽध्यायः ॥४४॥ N/A References : N/A Last Updated : October 07, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP