संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः|
अध्यायः ४

पार्वतीखण्डः - अध्यायः ४

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ब्रह्मोवाच॥
इत्थं देवैः स्तुता देवी दुर्गा दुर्गार्तिनाशिनी॥
आविर्बभूव देवानां पुरतो जगदंबिका ॥१॥
रथे रत्नमये दिव्ये संस्थिता परमाद्भुते॥
किंकिणीजालसंयुक्ते मृदुसंस्तरणे वरे ॥२॥
कोटिसूर्याधिकाभास रम्यावयवभासिनी॥
स्वतेजोराशिमध्यस्था वररूपा समच्छवि ॥३॥
अनूपमा महामाया सदाशिवविलासिनी॥
त्रिगुणा निर्गुणा नित्या शिवलोकनिवासिनी ॥४॥
त्रिदेवजननी चण्डी शिवा सर्वार्तिनाशिनी॥
सर्वमाता महानिद्रा सर्वस्वजनतारिणी ॥५॥
तेजोराशेः प्रभावात्तु सा तु दृष्ट्वा सुरैश्शिवा॥
तुष्टुवुस्तां पुनस्ते वै सुरा दर्शनकांक्षिणः ॥६॥
अथ देवगणास्सर्वे विष्ण्वाद्या दर्शनेप्सवः॥
ददृशुर्जगदम्बां तां तत्कृपां प्राप्य तत्र हि ॥७॥
बभूवानन्दसन्दोहस्सर्वेषां त्रिदिवौकसाम्॥
पुनः पुनः प्रणेमुस्तां तुष्टुवुश्च विशेषतः ॥८॥
देवा ऊचुः॥
शिवे शर्वाणि कल्याणि जगदम्ब महेश्वरि॥
त्वां नतास्सर्वथा देवा वयं सर्वार्तिनाशिनीम् ॥९॥
न हि जानन्ति देवेशि वेदश्शास्त्राणि कृत्स्नशः॥
अतीतो महिमा ध्यानं तव वाङ्मनसोश्शिवे ॥१०॥
अतद्व्यावृत्तितस्तां वै चकितं चकितं सदा॥
अभिधत्ते श्रुतिरपि परेषां का कथा मता ॥११॥
जानन्ति बहवो भक्तास्त्वत्कृपां प्राप्य भक्तितः॥
शरणागतभक्तानां न कुत्रापि भयादिकम् ॥१२॥
विज्ञप्तिं शृणु सुप्रीता यस्या दासास्सदाम्बिके॥
तव देवि महादेवि हीनतो वर्णयामहे ॥१३॥
पुरा दक्षसुता भूत्वा संजाता हरवल्लभा॥
ब्रह्मणश्च परेषां वा नाशयत्वमकंमहत् ॥१४॥
पितृतोऽनादरं प्राप्यात्यजः पणवशात्तनुम्॥
स्वलोकमगमस्त्वं वालभद्दुःखं हरोऽपि हि ॥१५॥
न हि जातम्प्रपूर्णं तद्देवकार्यं महेश्वरि॥
व्याकुला मुनयो देवाश्शरणन्त्वां गता वयम् ॥१६॥
पूर्णं कुरु महेशानि निर्जराणां मनोरथम्॥
सनत्कुमारवचनं सफलं स्याद्यथा शिवे ॥१७॥
अवतीर्य क्षितौ देवि रुद्रपत्नी पुनर्भव॥
लीलां कुरु यथायोग्यं प्राप्नुयुर्निर्जरास्सुखम् ॥१८॥
सुखी स्याद्देवि रुद्रोऽपि कैलासाचलसंस्थितः॥
सर्वे भवन्तु सुखिनो दुःखं नश्यतु कृत्स्नशः ॥१९॥
 ॥ब्रह्मोवाच॥
इति प्रोच्यामरास्सर्वे विष्ण्वाद्याः प्रेमसंकुलाः॥
मौनमास्थाय संतस्थुर्भक्तिनम्रा त्ममूर्तयः ॥२०॥
शिवापि सुप्रसन्नाभूदाकर्ण्यामरसंस्तुतिम्॥
आकलय्याथ तद्धेतुं संस्मृत्य स्वप्रभुं शिवम् ॥२१॥
उवाचोमा तदा देवी सम्बोध्य विबुधांश्च तान्॥
विहस्य मापतिमुखान्सदया भक्तवत्सला ॥२२॥
उमोवाच॥
हे हरे हे विधे देवा मुनयश्च गतव्यथाः॥
सर्वे शृणुत मद्वाक्यं प्रसन्नाहं न संशयः ॥२३॥
चरितं मम सर्वत्र त्रैलोक्यस्य सुखावहम्॥
कृतं मयैवं सकलं दक्षमोहादिकं च तत् ॥२४॥
अवतारं करिष्यामि क्षितौ पूर्णं न संशयः॥
बहवो हेतवोऽप्यत्र तद्वदामि महादरात् ॥२५॥
पुरा हिमाचलो देवा मेना चातिसुभक्तितः॥
सेवां मे चक्रतुस्तात जननीवत्सतीतनोः ॥२६॥
इदानीं कुरुतस्सेवां सुभक्त्या मम नित्यशः॥
मेना विशेषतस्तत्र सुतात्वेनात्र संशयः ॥२७॥
रुद्रो गच्छतु यूयं चावतारं हिमवद्गृहे॥
अतश्चावतरिष्यामि दुःखनाशो भविष्यति ॥२८॥
सर्वे गच्छत धाम स्वं स्वं सुखं लभतां चिरम्॥
अवतीर्य सुता भूत्वा मेनाया दास्य उत्सुखम् ॥२९॥
हरपत्नी भविष्यामि सुगुप्तं मतमात्मनः॥
अद्भुता शिवलीला हि ज्ञानिनामपि मोहिनी ॥३०॥
यावत्प्रभृति मे त्यक्ता स्वतनुर्दक्षजा सुराः॥
पितृतोऽनादरं दृष्ट्वा स्वामिनस्तत्क्रतौ गता ॥३१॥
तदाप्रभृति स स्वामी रुद्रः कालाग्निसंज्ञकः॥
दिगम्बरो बभूवाशु मच्चिन्तनपरायणः ॥३२॥
मम रोषं क्रतौ दृष्ट्वा पितुस्तत्र गता सती॥
अत्यजत्स्वतनुं प्रीत्या धर्मज्ञेति विचारतः ॥३३॥
योग्यभूत्सदनं त्यक्त्वा कृत्वा वेषमलौकिकम्॥
न सेहे विरहं सत्या मद्रूपाया महेश्वरः ॥३४॥
मम हेतोर्महादुःखी स बभूव कुवेषभृत्॥
अत्यजत्स तदारभ्य कामजं सुखमुत्तमम् ॥३५॥
अन्यच्छृणुत हे विष्णो हे विधे मुनयः सुराः॥
महाप्रभोर्महेशस्य लीलां भुवनपालिनीम् ॥३६॥
विधाय मालां सुप्रीत्या ममास्थ्नां विरहाकुलः॥
न शान्तिं प्राप कुत्रापि प्रबुद्धो ऽप्येक एव सः ॥३७॥
इतस्ततो रुरोदोच्चैरनीश इव स प्रभुः॥
योग्यायोग्यं न बुबुधे भ्रमन्सर्वत्र सर्वदा ॥३८॥
इत्थं लीलां हरोऽकार्षीद्दर्शयन्कामिनां प्रभुः॥
ऊचे कामुकवद्वाणीं विरहव्याकुलामिव ॥३९॥
वस्तुतोऽविकृतोऽदीनोऽस्त्यजितः परमेश्वरः॥
परिपूर्णः शिवः स्वामी मायाधीशोऽखिलेश्वरः ॥४०॥
अन्यथा मोहतस्तस्य किं कामाच्च प्रयोजनम्॥
विकारेणापि केनाशु मायालिप्तो न स प्रभुः ॥४१॥
रुद्रोऽतीवेच्छति विभुस्स मे कर्तुं करग्रहम्॥
अवतारं क्षितौ मेनाहिमाचलगृहे सुराः ॥४२॥
अतश्चावतरिष्यामि रुद्रसन्तोषहेतवे॥
हिमागपत्न्यां मेनाया लौकिकीं गतिमाश्रिता ॥४३॥
भक्ता रुद्रप्रिया भूत्वा तपः कृत्वा सुदुस्सहम्॥
देवकार्यं करिष्यामि सत्यं सत्यं न संशयः ॥४४॥
गच्छत स्वगृहं सर्वे भव भजत नित्यशः॥
तत्कृपातोऽखिलं दुःखं विनश्यति न संशयः ॥४५॥
भविष्यति कृपालोस्तु कृपया मंगलं सदा॥
वन्द्या पूज्या त्रिलोकेऽहं तज्जायेति च हेतुतः ॥४६॥
 ॥ब्रह्मोवाच॥
इत्युक्त्वा जगदम्बा सा देवानां पश्यतान्तदा॥
अन्तर्दधे शिवा तात स्वं लोकम्प्राप वै द्रुतम् ॥४७॥
विष्ण्वादयस्सुरास्सर्वे मुनयश्च मुदान्विताः॥
कृत्वा तद्दिशि संनामं स्वस्वधामानि संययुः ॥४८॥
इत्थं दुर्गासुचरितं वर्णितं ते मुनीश्वर॥
सर्वदा सुखदं नॄणां भुक्तिमुक्तिप्रदायकम् ॥४९॥
य इदं शृणुयान्नित्यं श्रावयेद्वा समाहितः॥
पठेद्वा पाठयेद्वापि सर्वान्कामान वाप्नुयात् ॥५०॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे देवसान्त्वनं नाम चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP