संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः|
अध्यायः ४०

पार्वतीखण्डः - अध्यायः ४०

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ब्रह्मोवाच ॥
अथ शम्भुः समाहूय नन्द्यादीन् सकलान्गणान् ॥
आज्ञापयामास मुदा गन्तुं स्वेन च तत्र वै ॥१॥
 ॥शिव उवाच ॥
अपि यूयं सह मया संगच्छध्वं गिरेः पुरम् ॥
कियद्गणानिहास्थाप्य महोत्सवपुरस्सरम् ॥२॥
ब्रह्मोवाच ॥
अथ ते समनुज्ञप्ता गणेशा निर्ययुर्मुदा ॥
स्वंस्वं बलमुपादाय तान् कथंचिद्वदाम्यहम् ॥३॥
अभ्यगाच्छंखकर्णश्च गणकोट्या गणेश्वरः ॥
शिवेन सार्द्धं संगन्तुं हिमाचलपुरम्प्रति ॥४॥
दशकोट्या केकराक्षो गणानां समहोत्सवः ॥
अष्टकोट्या च विकृतो गणानां गणनायकः ॥५॥
चतुष्कोट्या विशाखश्च गणानां गणनायकः ॥
पारिजातश्च नवभिः कोटिभिर्गणपुंगवः ॥६॥
षष्टिस्सर्वान्तकः श्रीमान्तथैव विकृताननः ॥
गणानान्दुन्दुभोष्टाभिः कोटिकोटिभिर्गणनायकः ॥७॥
पञ्चभिश्च कपालाख्यो गणेशः कोटिभिस्तथा ॥
षड्भिस्सन्दारको वीरो गणानां कोटिभिर्मुने ॥८॥
कोटिकोटिभिरेवेह कन्दुकः कुण्डकस्तथा ॥
विष्टम्भो गणपोऽष्टाभिर्गणानां कोटिभिस्तथा ॥९॥
सहस्रकोट्या गणपः पिप्पलो मुदितो ययौ ॥
तथा संनादको वीरो गणेशो मुनिसत्तम ॥१०॥
आवेशनस्तथाष्टाभिः कोटिभिर्गणनायकः ॥
महाकेशस्सहस्रेण कोटीनां गणपो ययौ ॥११॥
कुण्डो द्वादशकोट्या हि तथा पर्वतको मुने ॥
अष्टाभिः कोटिभिर्वीरस्समगाच्चन्द्रतापनः ॥१२॥
कालश्च कालकश्चैव महाकालश्शतेन वै ॥
कोटीनां गणनाथो हि तथैवाग्निकनामकः ॥१३॥
कोट्यग्निमुख एवागाद् गणानां गणनायकः ॥
आदित्यमूर्द्धा कोट्या च तथा चैव घनावहः ॥१४॥
सन्नाहश्शतकोट्या हि कुमुदो गणपस्तथा ॥
अमोघः कोकिलश्चैव शतकोट्या गणाधिपः ॥१५॥
सुमन्त्रः कोटिकोट्या च गणानां गणानायकः ॥
काकपादोदरः कोटिषष्ट्या सन्तानकस्तथा ॥१६॥
महाबलश्च नवभिर्मधुपिंगश्च कोकिलः ॥
नीलो नवत्या कोटीनां पूर्णभद्रस्तथैव च ॥१७॥
सप्तकोट्या चतुर्वक्त्रः करणो विंशकोटिभिः ॥
ययौ नवतिकोट्या तु गणेशानो हि रोमकः ॥१८॥
यज्वाशश्शतमन्युश्च मेघमन्युश्च नारद ॥
तावत्कोट्या ययुस्सर्वे गणेशा हि पृथक्पृथक् ॥१९॥
काष्ठाङ्गुष्ठश्चतुष्षष्ट्या कोटीनां गणनायकः ॥
विरूपाक्षस्सुकेशश्च वृषाभश्च सनातनः ॥२०॥
तालकेतुः षडास्यश्च चञ्च्वास्यश्च सनातनः ॥
सम्वर्तकस्तथा चैत्रो लकुलीशस्स्वयम्प्रभुः ॥२१॥
लोकान्तकश्च दीप्तात्मा तथा दैत्यान्तको मुने ॥
देवो भृंगिरिटिश्श्रीमान्देवदेवप्रियस्तथा ॥२२॥
अशनिर्भानुकश्चैव चतुष्षष्ट्या सहस्रशः ॥
ययुश्शिवविवाहार्थं शिवेन सहसोत्सवाः ॥२३॥
भूतकोटिसहस्रेण प्रमथाः कोटिभिस्त्रिभिः ॥
वीरभद्रश्चतुष्षष्ट्या रोमजानान्त्रिकोटिभिः ॥२४॥
कोटिकोटिसहस्राणां शतैर्विंशतिभिर्वृताः ॥
तत्र जग्मुश्च नन्द्याद्या गणपाश्शंकरोत्सवे ॥२५॥
क्षेत्रपालो भैरवश्च कोटिकोटिगणैर्युतः ॥
उद्वाहश्शंकरस्येत्याययौ प्रीत्या महोत्सवे ॥२६॥
एते चान्ये च गणपा असङ्ख्याता महाबलाः ॥
तत्र जग्मुर्महाप्रीत्या सोत्साहाश्शंकरोत्सवे ॥२७॥
सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः ॥
चन्द्ररेखावतंसाश्च नीलकण्ठास्त्रिलोचनाः ॥२८॥
रुद्राक्षाभरणास्सर्वे तथा सद्भस्मधारिणः ॥
हारकुण्डलकेयूरमुकुटाद्यैरलंकृताः ॥२९॥
ब्रह्मविष्ण्विन्द्रसंकाशा अणिमादिगुणैर्युताः ॥
सूर्य्यकोटिप्रतीकाशास्तत्र रेजुर्गणेश्वराः ॥३०॥
पृथिवीचारिणः केचित् केचित्पातालचारिणः ॥
केचिद्व्योमचराः केचित्सप्तस्वर्गचरा मुने ॥३१॥
किम्बहूक्तेन देवर्षे सर्वलोकनिवासिनः ॥
आययुस्स्वगणाश्शम्भोः प्रीत्या वै शङ्करोत्सवे ॥३२॥
इत्थं देवैर्गणैश्चान्यैस्सहितश्शङ्करः प्रभुः ॥
ययौ हिमगिरिपुरं विवाहार्थं निजस्य वै ॥३३॥
यदाजगाम सर्वेशो विवाहार्थे सुरादिभिः ॥
तदा तत्र ह्यभूद्वृत्तं तच्छृणु त्वं मुनीश्वर ॥३४॥
रुद्रस्य भगिनी भूत्वा चण्डी सूत्सवसंयुता ॥
तत्राजगाम सुप्रीत्या परेषां सुंभयावहा ॥३५॥
प्रेतासनसमारूढा सर्पाभरणभूषिता ॥
पूर्णं कलशमादाय हैमं मूर्ध्नि महाप्रभम् ॥३६॥
स्वपरीवारसंयुक्ता दीप्तास्या दीप्तलोचना ॥
कुतूहलम्प्रकुर्वन्ती जातहर्षा महाबला ॥३७॥
तत्र भूतगणा दिव्या विरूपः कोटिशो मुने ॥
विराजन्ते स्म बहुशस्तथा नानाविधास्तदा ॥३८॥
तैस्समेताग्रतश्चण्डी जगाम विकृतानना ॥
कुतूहलान्विता प्रीता प्रीत्युपद्रव कारिणी ॥३९॥
चण्ड्या सर्वे रुद्रगणाः पृष्ठतश्च कृतास्तदा ॥
कोट्येकादशसंख्याका रौद्ररुद्रप्रियाश्च ते ॥४०॥
तदा डमरुनिर्घोषैर्व्याप्तमासीज्जगत्त्रयम् ॥
भेरीझंकारशब्देन शंखानां निनदेन च ॥४१॥
तथा दुन्दुभिनिर्घोषैश्शब्दः कोलाहलोऽभवत् ॥
कुर्वञ्जगन्मंगलं च नाशयेन्मंगलेतरत् ॥४२॥
गणानां पृष्ठतो भूत्वा सर्वे देवास्समुत्सुकाः ॥
अन्वयुस्सर्वसिद्धाश्च लोकपालादिका मुने ॥४३॥
मध्ये व्रजन् रमेशोऽथ गरुडासनमाश्रितः ॥
शुशुभे ध्रियमाणेन क्षत्रेण महता मुने ॥४४॥
चामरैर्वीज्यमानोऽसौ स्वगणैः परिवारितः ॥
पार्षदैर्विलसद्भिश्च स्वभूषाविधिभूषितः ॥४५॥
तथाऽहमप्यशोभम्वै व्रजन्मार्गे विराजितः ॥
वेदैर्मूर्तिधरैश्शास्त्रैः पुराणैरागमैस्तथा ॥४६॥
सनकादिमहासिद्धैस्सप्रजापतिभिस्सुतैः ॥
परिवारैस्संयुतो हि शिवसेवनतत्परः ॥४७॥
स्वसैन्यमध्यगश्शक्र ऐरावतगज स्थितः ॥
नामाविभूषितोऽत्यन्तं व्रजन् रेजे सुरेश्वरः ॥४८॥
तदा तु व्रजमानास्ते ऋषयो बहवश्च ते ॥
विरेजुरतिसोत्कण्ठश्शिवस्योद्वाहनम्प्रति ॥४९॥
शाकिन्यो यातुधानाश्च वेताला ब्रह्मराक्षसाः ॥
भूतप्रेतपिशाचाश्च तथान्ये प्रमथादयः ॥५०॥
तुम्बुरुर्नारदो हाहा हूहूश्चेत्यादयो वराः ॥
गन्धर्वाः किन्नरा जग्मुर्वाद्यानाध्माय हर्षिताः ॥५१॥
जगतो मातरस्सर्वा देवकन्याश्च सर्वशः ॥
गायत्री चैव सावित्री लक्ष्मीरन्यास्सुरस्त्रियः ॥५२॥
एताश्चान्याश्च देवानां पत्नयो भवमातरः ॥
उद्वाहश्शंकरस्येति जग्मुस्सर्वा मुदान्विताः ॥५३॥
शुद्धस्फटिकसंकाशो वृषभस्सर्वसुन्दरः ॥
यो धर्म उच्यते वेदैश्शास्त्रैस्सिद्धमहर्षिभिः ॥५४॥
तमारूढो महादेवो वृषभं धर्मवत्सलः ॥
शुशुभेतीव देवर्षिसेवितस्सकलैर्व्रजन् ॥५५॥
एभिस्समेतैस्सफलैमहर्षिभिर्बभौ महेशो बहुशोत्यलंकृतः ॥
हिमालयाह्वस्य धरस्य संव्रजन् पाणिग्रहार्थं सदनं शिवायाः ॥५६॥
इत्युक्तं शम्भुचरितं गमनम्परमोत्सवम् ॥
हिमालयपुरोद्भूतं सद्वृत्तं शृणु नारद ॥५७॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे यात्रावर्णनं नाम चत्वारिशोऽध्यायः ॥४०॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP