संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः|
अध्यायः ५

पार्वतीखण्डः - अध्यायः ५

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


नारद उवाच॥
अन्तर्हितायान्देव्यां तु दुर्गायां स्वगृहेषु च॥
गतेष्वमरवृन्देषु किमभूत्तदनन्तरम् ॥१॥
कथं मेनागिरीशौ च तेपाते परमन्तपः॥
कथं सुताऽभवत्तस्य मेनायान्तात तद्वद ॥२॥
 ॥ब्रह्मोवाच॥
विप्रवर्य सुतश्रेष्ठ शृणु तच्चरितं महत्॥
प्रणम्य शंकरं भक्त्या वच्मि भक्तिविवर्द्धनम् ॥३॥
उपदिश्य गते तात सुरवृन्दे गिरीश्वरः॥
हर्यादौ मेनका चापि तेपाते परमन्तपः ॥४॥
अहर्निशं शिवां शम्भुं चिन्तयन्तौ च दम्पती॥
सम्यगारेधतुर्नित्यं भक्तियुक्तेन चेतसा ॥५॥
गिरिप्रियातीव मुदानर्च देवीं शिवेन सा॥
दानन्ददौ द्विजेभ्यश्च सदा तत्तोषहेतवे ॥६॥
चैत्रमासं समारभ्य सप्तविंशतिवत्सरान्॥
शिवां सम्पूजयामासापत्त्यार्थिन्यन्वहं रता ॥७॥
अष्टम्यामुपवासन्तु कृत्वादान्नवमीतिथौ॥
मोदकैर्बलिपिष्टैश्च पायसैर्गन्धपुष्पकैः ॥८॥
गङ्गायामौषधिप्रस्थे कृत्वा मूर्तिं महीमयीम्॥
उमायाः पूजयामास नानावस्तुसमर्पणैः ॥९॥
कदाचित्सा निराहारा कदाचित्सा धृतव्रता॥
कदाचित्पवनाहारा कदाचिज्जलभुग्ह्यभूत् ॥१०॥
शिवाविन्यस्तचेतस्का सप्तविंशतिवत्सरान्॥
निनाय मेनका प्रीत्या परं सा मृष्टवर्चसा ॥११॥
सप्तविंशतिवर्षान्ते जगन्माता जगन्मयी॥
सुप्रीताभवदत्यर्थमुमा शंकरकामिनी ॥१२॥
अनुग्रहाय मेनायाः पुरतः परमेश्वरी॥
आविर्बभूव सा देवी सन्तुष्टा तत्सुभक्तितः ॥१३॥
दिव्यावयवसंयुक्ता तेजोमण्डलमध्यगा॥
उवाच विहसन्ती सा मेनां प्रत्यक्षतां गता ॥१४॥
देव्युवाच ॥वरं ब्रूहि महासाध्वि यत्ते मनसि वर्तते॥
सुप्रसन्ना च तपसा तवाहं गिरिकामिनि ॥१५॥
यत्प्रार्थितं त्वया मेने तपोव्रतसमाधिना॥
दास्ये तेऽहं च तत्सर्वं वाञ्छितं यद्यदा भवेत् ॥१६॥
ततस्सा मेनका देवीं प्रत्यक्षां कालिकान्तदा॥
दृष्ट्वा च प्रणनामाथ वचनं चेदमब्रवीत् ॥१७॥
मेनोवाच॥
देवि प्रत्यक्षतो रूपन्दृष्टन्तव मयाऽधुना॥
त्वामहं स्तोतुमिच्छामि प्रसन्ना भव कालिके ॥१८॥
 ॥ब्रह्मोवाच॥
अथ सा मेनयेत्युक्ता कालिका सर्वमोहिनी॥
बाहुभ्यां सुप्रसन्नात्मा मेनकां परिषस्वजे ॥१९॥
ततः प्राप्तमहाज्ञाना मेनका कालिकां शिवम्॥
तुष्टाव वाग्भि रिष्टाभिर्भक्त्या प्रत्यक्षतां गताम् ॥२०॥
मेनोवाच॥
महामायां जगद्धात्रीं चण्डिकां लोकधारिणीम्॥
प्रणमामि महादेवीं सर्वकामार्थदायिनीम् ॥२१॥
नित्यानन्दकरीं मायां योगनिद्रां जगत्प्रसूम्॥
प्रणमामि सदासिद्धां शुभसारसमालिनीम् ॥२२॥
मातामहीं सदानन्दां भक्तशोकविनाशिनीम्॥
आकल्पं वनितानां च प्राणिनां बुद्धिरूपिणीम् ॥२३॥
सा त्वं बंधच्छेदहेतुर्यतीनां कस्ते गेयो मादृशीभिः प्रभावः॥
हिंसाया वाथर्ववेदस्य सा त्वं नित्यं कामं त्वं ममेष्टं विधेहि ॥२४॥
नित्यानित्यैर्भावहीनैः परास्तैस्तत्तन्मात्रैर्योज्यते भूतवर्गः॥
तेषां शक्तिस्त्वं सदा नित्यरूपा काले योषा योगयुक्ता समर्था ॥२५॥
योनिर्धरित्री जगतां त्वमेव त्वमेव नित्या प्रकृतिः परस्तात्॥
यथा वशं क्रियते ब्रह्मरूपं सा त्वं नित्या मे प्रसीदाद्य मातः ॥२६॥
त्वं जातवेदोगतशक्तिरुग्रा त्वं दाहिका सूर्यकरस्य शक्तिः॥
आह्लादिका त्वं बहुचन्द्रिका या तान्त्वामहं स्तौमि नमामि चण्डीम् ॥२७॥
योषाणां सत्प्रिया च त्वं नित्या त्वं चोर्ध्वरेतसाम्॥
वांछा त्वं सर्वजगतां धाया च त्वं यथा हरेः ॥२८॥
या चेष्टरूपाणि विधाय देवी सृष्टिस्थितानाशमयी च कर्त्री॥
ब्रह्माच्युतस्थाणुशरीरहेतुस्सा त्वं प्रसीदाद्य पुनर्नमस्ते ॥२९॥
ब्रह्मोवाच॥
तत इत्थं स्तुता दुर्गा कालिका पुनरेव हि॥
उवाच मेनकां देवीं वांछितं वरयेत्युत॥३०॥
 ॥उमोवाच॥
प्राणप्रिया मम त्वं हि हिमाचलविलासिनी॥
यदिच्छसि ध्रुवन्दास्ये नादेयं विद्यते मम ॥३१॥
इति श्रुत्वा महेशान्याः पीयूषसदृशं वचः॥
उवाच परितुष्टा सा मेनका गिरिकामिनी ॥३२॥
मेनोवाच॥
शिवे जयजय प्राज्ञे महेश्वरि भवाम्बिके॥
वरयोग्यास्महं चेत्ते वृणे भूयो वरं वरम् ॥३३॥
प्रथमं शतपुत्रा मे भवन्तु जगदम्बिके॥
बह्वायुषो वीर्यवन्त ऋद्धिसिद्धिसमन्विताः ॥३४॥
पश्चात्तथैका तनया स्वरूपगुणशालिनी॥
कुलद्वयानंदकरी भुवनत्रयपूजिता ॥३५॥
सुता भव मम शिवे देवकार्यार्थमेव हि॥
रुद्रपत्नी भव तथा लीलां कुरु भवाम्बिके ॥३६॥
 ॥ब्रह्मोवाच॥
तच्छ्रुत्वा मेनकोक्तं हि प्राह देवी प्रसन्नधीः॥
स्मितपूर्वं वचस्तस्याः पूरयन्ती मनोरथम् ॥३७॥
 ॥देव्युवाच॥
शतपुत्रास्सं भवन्तु भवत्या वीर्यसंयुताः॥
तत्रैको बलवान्मुख्यः प्रधमं संभविष्यति ॥३८॥
सुताहं संभविष्यामि सन्तुष्टा तव भक्तितः॥
देव कार्यं करिष्यामि सेविता निखिलैस्सुरैः ॥३९॥
ब्रह्मोवाच॥
एवमुक्त्वा जगद्धात्री कालिका परमेश्वरी॥
पश्यन्त्या मेनकायास्तु तत्रैवान्तर्दधे शिवा ॥४०॥
मेनकापि वरं लब्ध्वा महेशान्या अभी प्सितम्॥
मुदं प्रापामितां तात तपःक्लेशोप्यनश्यत ॥४१॥
दिशि तस्यां नमस्कृत्य सुप्रहृष्टमनास्सती॥
जयशब्दं प्रोच्चरंती स्वस्थानम्प्रविवेश ह ॥४२॥
अथ तस्मै स्वपतये शशंस सुवरं च तम्॥
स्वचिह्नबुद्धमिव वै सुवाचा पुनरुक्तया ॥४३॥
श्रुत्वा शैलपतिर्हृष्टोऽभवन्मेनावचो हि तत्॥
प्रशशंस प्रियां प्रीत्या शिवाभक्तिरतां च ताम् ॥४४॥
कालक्रमेणाऽथ तयोः प्रवृत्ते सुरते मुने॥
गर्भो बभूव मेनाया ववृधे प्रत्यहं च सः ॥४५॥
असूत सा नागवधूपभोग्यं सुतमुत्तमम्॥
समुद्रबद्धसत्सख्यं मैनाकाभिधमद्भुतम् ॥४६॥
वृत्रशत्रावपि क्रुद्धे वेदनाशं सपक्षकम्॥
पविक्षतानां देवर्षे पक्षच्छिदि वराङ्गकम् ॥४७॥
प्रवरं शतपुत्राणां महाबलपराक्रमम्॥
स्वोद्भवानां महीध्राणां पर्वतेन्द्रैकधिष्ठितम् ॥४८॥
आसीन्महोत्सवस्तत्र हिमाचलपुरेऽद्भुतः॥
दम्पत्योः प्रमुदाधिक्यं बभूव क्लेशसंक्षयः ॥४९॥
दानन्ददौ द्विजातिभ्योऽन्येभ्यश्च प्रददौ धनम्॥
शिवाशिवपदद्वन्द्वे स्नेहोऽभूदधिकस्तयोः ॥५०॥
इति श्रीशिवमहापुराणे द्वितीयायां रु० सं० तृतीये पार्वतीखंडे मेनावरलाभवर्णनो नाम पंचमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP