संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय ९५ वा

वामनपुराण - अध्याय ९५ वा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


बलिरुवाच॥
भवता कथितं सर्वं समाराध्य जनार्दनम्।
या गतिः प्राप्यते लोके तां मे वक्तुमिहार्हसि ॥१॥

केनार्चनेन देवस्य प्रीतिः समुपजायते।
कानि दानानि शस्तानि प्रीणनाय जगद्गुरोः ॥२॥

उपवासादिकं कार्यं कस्यां तिथ्यां महोदयम्।
कानि पुण्यानि शस्तानि विष्णोस्तुष्टिप्रदानि वै ॥३॥

यच्चान्यदपि कर्त्तव्यं हृष्टरूपैरनालसैः।
तदप्यशेषं दैत्येन्द्र ममाख्यातुमिहार्हसि ॥४॥

प्रह्लाद उवाच।
श्रद्दधानैर्भक्तिपरैर्यान्युद्दिश्य जनार्दनम्।
बले दानानि दीयन्ते तानूचुर्मुनयोऽक्षयान् ॥५॥

ता एव तिथयः शस्ता यास्वभ्यर्च्य जगत्पतिम्।
तच्चित्तस्तन्मयो भूत्वा उपवासी नरो भवेत् ॥६॥

पूजितेषु द्विजेन्द्रेषु पूजितः स्याज्जनार्दनः।
एतान् द्विषन्ति ये मूढास्ते यान्ति नरकं ध्रुवम् ॥७॥

तानर्चयेन्नरो भक्त्या ब्राह्मणान् विष्णुतत्परः।
एवमाह हरिः पूर्वं ब्राह्मणा मामकी तनुः ॥८॥

ब्राह्मणो नावमन्तव्यो बुधो वाप्यबुधोऽपि वा।
सोऽपि दिव्या तनुर्विष्णोस्तस्मात् तामर्चयेन्नरः ॥९॥

तान्येव च प्रशस्तानि कुसुमानि महासुर।
यानि स्युर्वर्णयुक्तानि रसगन्धयुतानि च ॥१०॥

विशेषतः प्रवक्ष्यामि पुष्पाणि तिथयस्तथा।
दानानि च प्रशस्तानि माधवप्रीणनाय तु  ॥११॥

जाती शताह्वा सुमनाः कुन्दं बहुपुटं तथा।
बाणञ्च चम्पकाशोकं करवीरं च यूथिका ॥१२॥

पारिभद्रं पाटला च बकुलं गिरिशालिनी।
तिलकं च जपाकुसुमं पीतकं नागरं त्वपि ॥१३॥

एतानि हि प्रशस्तानि कुसुमान्यच्युतार्चने।
सुरभीणि तथान्यानि वर्जयित्वा तु केतकीम् ॥१४॥

बिल्वपत्रं शमीपत्रं पत्रं भृङ्गमृगाङ्कयोः।
तमालामलकीपत्रं शस्तं केशवपूजने ॥१५॥

येषामपि हि पुष्पाणि प्रशस्तान्यच्युतार्चने।
पल्लवान्यपि तेषां स्युः पत्राण्यर्चाविधौ हरेः ॥१६॥

वीरुधां च प्रवालेन बर्हिषा चार्चयेत्तथा।
नानारूपैश्चाम्बुभवैः कमलेन्दीवरादिभिः ॥१७॥

प्रवालैः शुचिभिः श्लक्ष्णैर्जलप्रक्षालितैर्बले।
वनस्पतीनामर्च्येत तथा दूर्वाग्रपल्लवैः ॥१८॥

चन्दनेनानुलिम्पेत कुङ्कुमेन प्रयत्नतः।
उशीरपद्मकाभ्यां च तथा कालीयकादिना ॥१९॥

महिषाख्यं कणं दारु सिह्लकं सागरुं सिता।
शङ्खं जातीफलं श्रीशे धूपानि स्युः प्रियाणि वै ॥२०॥

हविषा संस्कृता ये तु यवगोधूमशालयः।
तिलमुद्गादयो माषा व्रीहयश्च प्रिया हरेः ॥२१॥

गोदानानि पवित्राणि भूमिदानानि चानघ।
वस्त्रान्नस्वर्णदानानि प्रीतये मधुघातिनः ॥२२॥

माघमासे तिला देयास्तिलधेनुश्च दानव।
इन्धनादीनि च तथा माधवप्रीणनाय तु ॥२३॥

फाल्गुने व्रीहयो मुद्गा वस्त्रकृष्णाजिनादिकम्।
गोविन्दप्रीणनार्थाय दातव्यं पुरुषर्षभैः ॥२४॥

चैत्रे चित्राणि वस्त्राणि शयनान्यासनानि च।
विष्णोः प्रीत्यर्थमेतानि देयानि ब्राह्मणेष्वथ ॥२५॥

गन्धमाल्यानि देयानि वैशाखे सुरभीणि वै।
देयानि द्विजमुख्येभ्यो मधुसूदनतुष्टये ॥२६॥

उदकुम्भाम्बुधेनुं च तालवृन्तं सुचन्दनम्।
त्रिविक्रमस्य प्रीत्यर्थं दातव्यं साधुभिः सदा ॥२७॥

उपानद्युगलं छत्रं लवणामलकादिकम्।
आषाढे वामनप्रीत्यै दातव्यानि तु भक्तितः ॥२८॥

घृतं च क्षीरकुम्भाश्च घृतधेनुफलानि च।
श्रावणे श्रीधरप्रीत्यै दातव्यानि विपश्चिता ॥२९॥

मासि भाद्रपदे दद्यात् पायसं मधुसर्पिषी।
हृषीकेशप्रीणनार्थं लवणं सगुडोदनम् ॥३०॥

तिलास्तुरङ्गं वृषभं दधि ताम्रायसादिकम्।
प्रीत्यर्थं पद्मनाभस्य देयमाश्वयुजे नरैः ॥३१॥

रजतं कनकं दीपान् मणिमुक्ताफलादिकम्।
दामोदरस्य तुष्ट्यर्थं प्रदद्यात् कार्तिके नरः ॥३२॥

खरोष्ट्राश्वतरान् नागान् यानयुग्यमजाविकम्।
दातव्यं केशवप्रीत्यै मासि मार्गशिरे नरैः ॥३३॥

प्रासादनगरादीनि गृहप्रावरणादिकम्।
नारायणस्य तुष्ट्यर्थं पौषे देयानि भक्तितः ॥३४॥

दासीदासमलङ्कारमन्नं षड्रससंयुतम्।
पुरुषोत्तमस्य तुष्ट्यर्थं प्रदेयं सार्वकालिकम् ॥३५॥

यद्यदिष्टतमं किंचिद्यद्वाप्यस्ति शुचि गृहे।
तत्तद्वि देयं प्रीत्यर्थं देवदेवाय चक्रिणे ॥३६॥

यः कारयेन्मन्दिरं केशवस्य पुण्यांल्लोकान् स जयेच्छाश्वतान् वै।
दत्त्वारामान् पुष्पफलाभिपन्नान् भोगान् भुङ्क्ते कामतः श्लाघनीयान् ॥३७॥

पितामहस्य पुरतः कुलान्यष्टौ तु यानि च।
तारयेदात्मना सार्धं विष्णोर्मन्दिरकारकः ॥३८॥

इमाश्च पितरो दैत्य गाथा गायन्ति योगिनः।
पुरतो यदुसिंहस्य ज्यामघस्य तपस्विनः ॥३९॥

अपि नः स कुले कश्चिद् विष्णुभक्तो भविष्यति।
हरिमन्दिरकर्ता यो भविष्यति शिचिव्रतः ॥४०॥

अपि नः सन्ततौ जायेद् विष्ण्वालयविलेपनम्।
सम्मार्जनं च धर्मात्मा करिष्यति च भक्तितः ॥४१॥

अपि नः सन्ततौ जातो ध्वजं च केशवमन्दिरे।
दास्यते देवदेवाय दीपं पुष्पानुलेपनम् ॥४२॥

महापातकयुक्तो वा पातकी चोपपातकी।
विमुक्तपापो भवति विष्ण्वायतनचित्रकृत् ॥४३॥

इत्थं पितॄणां वचनं श्रुत्वा नृपतिसत्तमः।
चकारायतनं भूम्यां स्वयं च लिम्पतासुर ॥४४॥

विभूतिभिः केशवस्य केशवाराधने रतः।
नानाधातुविकारैश्च पञ्चवर्णैश्च चित्रकैः ॥४५॥

ददौ दीपानि विधिवद् वासुदेवालये बले।
सुगन्धितैलपूर्णानि घृतपूर्णानि च स्वयम् ॥४६॥

नानावर्णा वैजयन्त्यो महारजनरञ्जिताः।
मञ्जिष्ठा नवरङ्गीयाः श्वेतपाटलिकाश्रिताः ॥४७॥

आरामा विविधा हृद्याः पुष्पाढ्याः फलशालिनः।
लतापल्लवसंछन्ना देवदारुभिरावृताः ॥४८॥

कारिताश्च महामञ्चाधिष्ठिताः कुशलैर्जनैः।
पौरोगवविधानज्ञै रत्नसंस्कारिभिर्द्दढै ॥४९॥

तेषु नित्यं प्रपूज्यन्ते यतयो ब्रह्मचारिणः।
श्रोत्रिया ज्ञानसम्पन्ना दीनान्धविकलादयः ॥५०॥

इत्थं स नृपतिः कृत्वा श्रद्दधानो जितेन्द्रियः।
ज्यामघो विष्णुनिलयं गत इत्यनुशुश्रुमः ॥५१॥

तमेव चाद्यापि बले मार्गं ज्यामघकारितम्।
व्रजन्ति नरशार्दूल विष्णुलोकजिगीषवः ॥५२॥

तस्मात् त्वमपि राजेन्द्र कारयस्वालयं हरेः।
तमर्चयस्व यत्नेन ब्राह्मणांश्च बहुश्रुतान्।
पौराणिकान् विशेषेण सदाचाररताञ्शुचीन् ॥५३॥

वासोभिर्भूषणै रत्नैर्गौभिर्भूकनकादिभिः।
विभवे सति देवस्य प्रीणनं कुरु चक्रिणः ॥५४॥

एवं क्रियायोगरतस्य तेऽद्य नूनं मुरारिः शुभदो भविष्यति।
नरा न सीदन्ति बले समाश्रिता विभुं जगन्नाथमनन्तमच्युतम् ॥५५॥

पुलस्त्य उवाच॥
इत्येवमुक्त्वा वचनं दितीश्वरो वैरोचनं सत्यमनुत्तमं हि।
संपूजितस्तेन विमुक्तिमाययौ संपूर्णकामो हरिपादभक्तः ॥५६॥

गते हि तस्मिन् मुदिते पितामहे बलेर्बभौ मन्दिरमिन्दुवर्णम्।
महेन्द्रशिल्पिप्रवरोऽथ केशवं स कारयामास महामहीयान् ॥५७॥

स्वयं स्वभार्यासहितश्चकार देवालये मार्जनलेपनादिकाः।
क्रिया महात्मा यवशर्कराद्यां बलिं चकाराप्रतिमां मधुद्रुहः ॥५८॥

दीपप्रदानं स्वयमायताक्षी विन्ध्यावली विष्णुगृहे चकार।
गेयं स धर्म्यश्रवणं च धीमान् पौराणिकैर्विप्रवरैरकारयत् ॥५९॥

तथाविधस्यासुरपुंगवस्य धर्म्ये सुमार्गे प्रतिसंस्थितस्य।
जगत्पतिर्दिव्यवपुर्जनार्दनस्तस्थौ महात्मा बलिरक्षणाय ॥६०॥

सूर्यायुताभं मुसलं प्रगृह्य निघ्नन् स दुष्टानरियूथापालान्।
द्वारि स्थितो न प्रददौ प्रवेशं प्राकारगुप्ते बलिनो गृहे तु ॥६१॥

द्वारि स्थिते धातरि रक्षपाले नारायणे सर्वगुणाभिरामे।
प्रासादमध्ये हरिमीशितारमभ्यर्चयामास सुरर्षिमुख्यम् ॥६२

स एवमास्तेऽसुरराड् बलिस्तु समर्चयन् वै हरिपादपङ्कजौ।
सस्मार नित्यं हरिभषितानि स तस्य जातो विनयाङ्कुशस्तु ॥६३॥

इदं च वृत्तं स पपाठ दैत्यराट् स्मरन् सुवाक्यानि गुरोः शुभानि।
तथ्यानि पथ्यानि परत्र चेह पितामहस्येन्द्रसमस्य वीरः ॥६४॥

ये वृद्धवाक्यानि समाचरन्ति श्रुत्वा दुरुक्तान्यपि पूर्वतस्तु।
स्निग्धानि पश्चान्नवनीतशुद्धा मोदन्ति ते नात्र विचारमस्ति ॥६५॥

आपद्भुजंगदष्टस्य मन्त्रहीनस्य सर्वदा।
वृद्धवाक्यौषधा नूनं कुर्वन्ति किल निर्विषम् ॥६६॥

वृद्धवाक्यामृतं पीत्वा तदुक्तमनुमान्य च।
या तृप्तिर्जायते पुंसा सोमपाने कुतस्तथा ॥६७॥

आपत्तौ पतितानां येषां वृद्धा न सन्ति शास्तारः।
ते शोच्या बन्धूनां जीवन्तोऽपीह मृततुल्याः ॥६८॥

आपद्ग्राहगृहीतानां वृद्धाः सन्ति न पण्डिताः।
येषां मोक्षयितारो वै तेषां शान्तिर्न विद्यते ॥६९॥

आपज्जलनिमग्नानां ह्रियतां व्यसनोर्मिभिः।
वृद्धवाक्यैर्विना नूनं नैवोत्तारं कथंचन ॥७०॥

तस्माद् यो वृद्धवाक्यानि श्रृणुयाद् विदधाति च।
स सद्यः सिद्धिमाप्नोति यथा वैरोचनो बलिः ॥७१॥

इति श्रीवामनपुराणे पञ्चनवतितमोऽध्यायः ॥९५॥

N/A


References : N/A
Last Updated : September 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.