संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय ९० वा

वामनपुराण - अध्याय ९० वा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


श्रीभगवानुवाच॥
आद्यं मात्स्यं महद्रूपं संस्थितं मानसे ह्रदे।
सर्वपापक्षयकरं कीर्तनस्पर्शनादिभिः ॥१॥

कौर्ममन्यत्सन्निधानं कोशिक्यां पापनाशनम्।
हयशीर्षं च कृष्णांशे गोविन्दं हस्तिनापुरे ॥२॥

त्रिविक्रमं च कालिन्द्यां लिङ्गभेदे भवं विभुम्।
केदारे माधवं शौरिं कुब्जाम्रे हृष्टमूर्धजम् ॥३॥

नारायणं बदर्यां च वाराहे गरुडासनम्।
जयेशं भद्रकर्णे च विपाशायां द्विजप्रियम् ॥४॥

रूपधारमिरावत्यां कुरुक्षेत्रे कुरुध्वजम्।
कृतशौचे नृसिंहं च गोकर्णे विश्वकर्मिणम् ॥५॥

प्राचीने कामपालं च पुण्डरीकं महाम्भसि।
विशाखयूपे ह्यजितं हंसं हंसपदे तथा ॥६॥

पयोष्णायामखण्डं च वितस्तायां कुमारिलम्।
मणिमत्पर्वते शंभुं ब्रह्मण्ये च प्रजापतिम् ॥७॥

मधुनद्यां चक्रधरं शूलबाहुं हिमालये।
विद्धि विष्णुं मुनिश्रेष्ट स्थितमोषधिसानुनि ॥८॥

भृगुतुङ्गे सुवर्णाक्षं नैमिषे पीतवाससम्।
गयायां गोपतिं देवं गदापाणिनमीश्वरम् ॥९॥

त्रैलोक्यनाथं वरदं गोप्रतारे कुशेशयम्।
अर्द्धनारीश्वरं पुण्ये माहेन्द्रे दक्षिणे गिरौ ॥१०॥

गोपालमुत्तरे नित्यं महेन्द्रे सोमपीथिनम्।
वैकुण्ठमपि सह्याद्रौ पारियात्रऽपराजितम् ॥११॥

कशेरुदेशे देवेशं विश्वरूपं तपोधनम्।
मलयाद्रौ च सौगन्धिं विन्ध्यपादे सदाशिवम् ॥१२॥

अवन्तिविषये विष्णुं निषधेष्वमरेश्वरम्।
पाञ्चालिकं च ब्रह्मर्षे पाञ्चालेषु व्यवस्थितम् ॥१३॥

महोदये हयग्रीवं प्रयागे योगशायिनम्।
स्वयंभुवं मधुवते अयोगन्धिं च पुष्करे ॥१४॥

तथैव विप्रप्रवर वाराणस्यां च केशवम्।
अविमुक्तकमत्रैव लोलश्चात्रैव गीयते ॥१५॥

पद्मायां पद्मकिरणं समुद्रे वडवासुखम्।
कुमारधारे बाह्लीशं कार्तिकेयं च बर्हिणम् ॥१६॥

अजेशे शंभुमनघं स्थाणुं च कुरुजाङ्गले।
वनमालिनमाहुर्मां किष्किन्धावासिनो जनाः ॥१७॥

वीरं कुवलायारूढं शङ्खचक्रगदाधरम्।
श्रीवत्साङ्कमुदाराङ्गं नर्मदायां श्रियः पतिम् ॥१८॥

माहिष्मत्यां त्रिनयनं तत्रैव च हुताशनम्।
अर्बुदे च त्रिसौपर्ण क्ष्माधरं सूकराचले ॥१९॥

त्रिणाचिकेतं ब्रह्मर्षे प्रभासे च कपर्दिनम्।
तथैवात्रापि विख्यातं तृतीयं शशिशेखरम् ॥२०॥

उदये शशिनं सूर्यं ध्रुवं च त्रितयं स्थितम्।
हेमकूटे हिरण्याक्षं स्कन्दं शरवणे मुने ॥२१॥

महालये स्मृतं रुद्रमुत्तरेषु कुरुष्वथ।
पद्मनाभं मुनिश्रेष्ठ सर्वसौख्यप्रदायकम् ॥२२॥

सप्तगोदावरे ब्रह्मन् विख्यातं हाटकेश्वरम्।
तत्रैव च महाहंसं प्रयागेऽपि वटेश्वरम् ॥२३॥

शोणे च रुक्मकवचं कुण्डिने घ्राणतर्पणम्।
भिल्लीवने महायोगं माद्रेषु पुरुषोत्तमम् ॥२४॥

प्लक्षावतरणे विश्वं श्रीनिवासं द्विजोत्तम
शूर्पारके चतुर्बाहुं मगधायां सुधापतिम् ॥२५॥

गिरिव्रजे पशुपतिं श्रीकण्ठं यमुनातटे।
वनस्पतिं समाख्यातं दण्डकारण्यवासिनम् ॥२६॥

कालिञ्जरे नीलकण्ठं सरय्वां शंभुमुत्तमम्।
हंसयुक्तं महाकोश्यां सर्वपापप्रणाशनम् ॥२७॥

गोकर्णे दक्षिणे शर्वं वासुदेवं प्रजामुखे।
विन्घ्यश्रृङ्गे महाशौरिं कन्थायां मधुसूदनम् ॥२८॥

त्रिकूटशिखरे ब्रह्मन् चक्रपाणिनमीश्वरम्।
लौहदण्डे हृषीकेशं कोसलायां मनोहरम् ॥२९॥

महाबाहुं सुराष्ट्रे च नवराष्ट्रे यशोधरम्।
भूधरं देवकानद्यां विदेहायां कुशप्रियम् ॥३०॥

गोमत्यां छादितगदं शङ्खोद्धारे च शङ्खिनम्।
सुनेत्रं सैन्धवारण्ये शूरं शूरपुरे स्थितम् ॥३१॥

रुद्राख्यं च हरण्वत्यां वीरभद्रं त्रिविष्टपे।
शङ्कुकर्णं च भीमायां भीमं शालवने विदुः ॥३२॥

विश्वामित्रं च गदितं कैलासे वृषभध्वजम्।
महेशं महिलाशैले कामरूपे शशिप्रभम् ॥३३॥

बलभ्यामपि गोमित्रं कटाहे पङ्कजप्रियम्।
उपेन्द्रं सिंहलद्वीपे शक्राह्वे कुन्दमालिनम् ॥३४॥

रसातले च विख्यातं सहस्रशिरसं मुने।
कालाग्निरुद्रं तत्रैव तथाऽन्यं कृत्तिवाससम् ॥३५॥

सुतले कूर्ममचलं वितले पङ्कजासनम्।
महातले गुरो ख्यातं देवेशं छागलेश्वरम् ॥३६॥

तले सहस्रचरणं सहस्रभुजमीश्वरम्।
सहस्राक्षं परिख्यातं मुसलाकृष्टदानवम् ॥३७॥

पाताले योगिनामीशं स्थितञ्च हरिशंकरम्।
धरातले कोकनदं मेदिन्यां चक्रपाणिनम् ॥३८॥

भुवर्लोके च गरुडं स्वर्लोके विष्णुमव्ययम्।
महर्ल्लोके तथाऽगस्त्यं कपिलं च जने स्थितम् ॥३९॥

तपोलोकेऽखिलं ब्रह्मन् वाङ्मयं सत्यसंयुतम्।
ब्रह्माणं ब्रह्मलोके च सप्तमे वै प्रतिष्ठितम् ॥४०॥

सनातनं तथा शैवे परं ब्रह्म च वैष्णवे।
अप्रतर्क्यं निरालम्बे निराकाशे तपोमयम् ॥४१॥

जम्बुद्वीपे चतुर्बाहुं कुशद्वीपे कुशेशयम्।
प्लक्षद्विपे मुनिश्रेष्ठ ख्यातं गरुडवाहनम् ॥४२॥

पद्मनाभं तथा क्रौञ्चे शाल्मले वृषभध्वजम्।
सहस्रांशुः स्थितः शाके धर्मराट् पुष्करे स्थितः ॥४३॥

तथा पृथिव्यां ब्रह्मर्षे शालग्रामे स्थितोऽस्मयहम्।
सजलस्थलपर्यन्तं चरेषु स्तावरेषु च ॥४४॥

एतानि पुण्यानि ममालयानि ब्रह्मन् पुराणानि सनातनानि।
धर्मप्रदानीह महौजसानि संकीर्तनीयान्यघनाशनानि ॥४५॥

संकीर्तनात् स्मरणाद् दर्शनाच्च संस्पर्शनादेव च देवतायाः।
धर्मार्थकामाद्यपवर्गमेव लभन्ति देवा मनुजाः ससाध्याः ॥४६॥

एतानि तुभ्यं विनिवेदितानि ममालयानीह तपोमयानि।
उत्तिष्ठ गच्छामि महासुरस्य यज्ञं सुराणां हि हिताय विप्र ॥४७॥

पुलस्त्य उवाच॥
इत्येवमुक्त्वा वचनं महर्षे विष्णुर्भरद्वाजमृषिं महात्मा।
विलासलीलागमनो गिरीन्द्रात् स चाभ्यगच्छत् कुरुजाङ्गलं हि ॥४८॥

इति श्रीवामनपुराणे नवतितमोऽध्यायः ॥९०॥

N/A


References : N/A
Last Updated : September 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.