संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय ५३ वा

वामनपुराण - अध्याय ५३ वा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


पुलस्त्य उवाच॥
समागतान् सुरान् दृष्ट्वा नन्दिराख्यातवान् विभोः।
अथोत्थाय हरिं भक्त्या परिष्वज्य न्यपीडयत् ॥१॥

ब्रह्‌माणं शिरसा नत्वा समाभाष्य शतक्रतुम्।
आलोक्यान्यान् सुरगणान् संभावयत् स शंकरः ॥२॥

गणाश्च जय देवेति वीरभद्रपुरोगमाः।
शैवाः पाशुपताद्याश्च विविशुर्मन्दराचलम् ॥३॥

ततस्तस्मान्महाशैलं कैलासं सह दैवतैः।
जगाम भगवान् शर्वः कर्तुं वैवाहिकं विधिम् ॥४॥

ततस्तस्मिन् महाशैले देवमाताऽदितिः शुभा।
सुरभिः सुरसा चान्याश्चक्रर्मण्डनमाकुलाः ॥५॥

महास्थिशेखरी चारुरोचनातिलको हरः।
सिंहाजिनी चालिनीलभुजंगकृतकुण्डलः ॥६॥

महाहिरत्नवलयो हारकेयूरनूपुरः।
समुन्नतजटाभारो वृषभस्थो विराजते ॥७॥

तस्याग्रतो गणाः स्वैः स्वैरारूढा यान्ति वाहनैः।
देवाश्च पृष्ठतो जग्मुर्हुताशनपुरोगमाः ॥८॥

वैनतेयं समारूढः सह लक्ष्म्या जनार्दनः।
प्रयाति देवपार्श्वस्थो हंसेन च पितामहः ॥९॥

गजाधिरूढो देवेन्द्रश्छत्रं शुक्लपटं विभुः।
धारयामास विततं शच्या सह सहस्रदृक् ॥१०॥

यमुना सरितां श्रेष्ठा बालव्यजनमुत्तमम्।
श्वेतं प्रगृह्य हस्तेन कच्छपे संस्थिता ययौ ॥११॥

हंसकुन्देन्दुसंकाशं बालव्याजनमुत्तमम्।
सरस्वती सरिच्छ्रेष्ठा गजारूढा समादधे ॥१२॥

ऋतवः षट् समादाय कुसुमं गन्धसंयुतम्।
पञ्चवर्णं महेशानं जग्मुस्ते कामचारिणः ॥१३॥

मत्तमैरावणनिभं गजमारुह्य वेगवान्।
अनुलेपनमादाय ययौ तत्र पृथूदकः ॥१४॥

गन्धर्वास्तुम्बरुमुखा गायन्तो मधुरस्वरम्।
अनुजग्मुर्महादेवं वादयन्तश्च किन्नराः ॥१५॥

नृत्यन्त्योऽप्सरसश्चैव स्तुवन्तो मुनयश्च तम्।
गन्धर्वा यान्ति देवेशं त्रिनेत्रं शूलपाणिनम् ॥१६॥

एकादश तथा कोट्यो रुद्राणां तत्र वै ययुः।
द्वादशैवादितेयानामष्टौ कोट्यो वसूनपि ॥१७॥

सप्तषष्टिस्तथा कोट्यो गणानामृषिसत्तम।
चतुर्विंशत् तथा जग्मुर्ऋषीणामूर्ध्वरेतसाम् ॥१८॥

असंख्यातानि यूथानि यक्षकिन्नररक्षसाम्।
अनुजग्मुर्महेशानं विवाहाय समाकुलाः ॥१९॥

ततः क्षणेन देवेशः क्ष्माधराधिपतेस्तलम्।
संप्राप्तास्त्वागमन् शैलाः कुञ्जरस्थाः समन्ततः ॥२०॥

ततो ननाम भगवांस्त्रिनेत्रः स्थावराधिपम्।
शैलाः प्रणेमुरीशानं ततोऽसौ मुदितोऽभवत् ॥२१॥

समं सुरैः पार्षदैश्च विवेश वृषकेतनः।
नन्दिना दर्शिते मार्गे शैलराजपुरं महत् ॥२२॥

जीमूतकेतुरायात इत्येवं नगरस्त्रियः।
निजं कर्म परित्यज्य दर्शनव्यापृताभवन् ॥२३॥

माल्यार्द्धमन्या चादाय करेणैकेन भामिनी।
केशपाशं द्वितीयेन शंकराभिमुखी गता ॥२४॥

अन्याऽलक्तकरागाढ्यं पादं कृत्वाकुलेक्षणा।
अनलक्तकमेकं हि हरं द्रष्टुमुपागता ॥२५॥

एकेनाक्ष्णाञ्जितेनैव श्रुत्वा भीममुपागतम्।
साञ्जनां च प्रगृह्यान्या शलाकां सुष्ठु धावति ॥२६॥

अन्या सरसनं वासः पाणिनादाय सुन्दरी।
उन्मत्तेवागमन्नग्ना हरदर्शनलालसा ॥२७॥

अन्यातिक्रान्तमीशानं श्रुत्वा स्तनभरालसा।
अनिन्दत रुषा बाला यौवनं स्वं कृशोदरी ॥२८॥

इत्थं स नगरस्त्रीणां क्षोभं संजनयन् हरः।
जगाम वृषभारूढो दिव्यं श्वशुरमन्दिरम् ॥२९॥

ततः प्रविष्टं प्रसमीक्ष्य शंभुं शैलेन्द्रवेश्मन्यबला ब्रुवन्ति।
स्थाने तपो दुश्चरमम्बिकायाश्चीर्णं महानेष सुरस्तु शंभुः ॥३०॥

स एष येनाङ्गमानङ्गतां कृतं कन्दर्पनाम्नः कुसुमायुधस्य।
क्रतोः क्षयी दक्षविनाशकर्ता भगाक्षिहा शूलधरः पिनाकी ॥३१॥

नमो नमः शंकर शूलपाणे मृगारिचर्माम्बर कालशत्रो।
महाहिहाराङ्कितकुण्डलाय नमो नमः पार्वतिवल्लभाय ॥३२

इत्थं संस्तूयमानः सुरपतिविधृतेनातपत्रेण शंभुः
सिद्धैर्वन्द्यः सयक्षैरहिकृतवलयी चारुभस्मोपलिप्तः।
अग्रस्थेनाग्रजेन प्रमुदितमनसा विष्णुना चानुगेन
वैवाहीं मङ्गलाढ्यां हुतवहमुदितामारुरोहाथ वेदीम् ॥३३॥

आयाते त्रिपुरान्तके सहचरैः सार्धं च सप्तर्षिभिर्व्यग्रोऽभूद् गिरिराजवेश्मनि जनःकाल्याः समालंकृतौ।
व्याकुल्यं समुपागताश्च गिरयः पूजादिना देवताः प्रायोव्याकुलिता भवन्ति सुहृदः कन्याविवाहोत्सुकाः ॥३४॥

प्रसाध्य देवीं गिरिजां ततः स्त्रयो दुकूलशुक्लाभिवृताङ्गयष्टिकाम्।
भ्रात्रा सुनाबेन तदोत्सवे कृते सा शंकराभ्याशमथोपपादिता ॥३५॥

ततः शुभे हर्म्यतले हिरण्मये स्थिताः सुराः शंकरकालिचेष्टितम्।
पश्यन्ति देवोऽपि समं कृशाङ्ग्या लोकानुजुष्टं पदमाससाद ॥३६॥

यत्र क्रीडा विचित्राः सकुसुमतरवो वारिणो बिन्दुपातैर्गन्धाढ्यैर्गन्धचूर्णैः प्रविरलमवनौ गुण्डितौ गुण्डिकायाम्।
मुक्तादामैः प्रकामं हरगिरितनया क्रीडनार्थं तदाऽघ्नत् पश्चात्सिन्दूरपुञ्जैरविरतविततैश्चक्रतुः क्ष्मां सुरक्ताम् ॥३७॥

एवं क्रीडां हरः कृत्वा समं च गिरिकन्यया।
आगच्छद् दक्षिणां वेदिमृषिभिः सेवितां दृढाम् ॥३८॥

अथाजगाम हिमवान् शुक्लाम्बरधरः शुचिः।
पवित्रपाणिरादाय मधुपर्कमथोज्ज्वलम् ॥३९॥

उपविष्टस्त्रिनेत्रस्तु शाक्रीं दिशमपश्यत।
सप्तर्षिकांश्च शैलेन्द्रः सूपविष्टोऽवलोकयन् ॥४०॥

सुखासीनास्य शर्वस्य कृताञ्जलिपुटो गिरिः।
प्रोवाच वचनं श्रीमान् धर्मसाधनमात्मनः ॥४१॥

हिमवानुवाच॥
मत्पुत्रीं भगवन् कालीं पौत्रीं च पुलहाग्रजे।
पितॄणामपि दौहित्रीं प्रतीच्छेमां मयोद्यताम् ॥४२॥

पुलस्त्य उवाच॥
इत्येवमुक्त्वा शैलेन्द्रो हस्तं हस्तेन योजयन्।
प्रादात् प्रतीच्छ भगवन् इदमुच्चैरुदीरयन् ॥४३॥

हिमवान् उवाच॥
न मेऽस्ति माता न पिता तथैव न ज्ञातयो वाऽपि च बान्धवाश्च।
निराश्रयोऽहं गिरिश्रृङ्गवासी सुतां प्रतीच्छासि तवाद्रिराज ॥४४॥

इत्येवमुक्त्वा वरदोऽवपीडयत् करं करेणाद्रिकुमारिकायाः।
सा चापि संस्पर्शमवाप्य शंभोः परां मुदं लब्धवती सुरर्षे ॥४५॥

तथाधिरूढो वरदोऽथ वेदिं सहाद्रिपुत्र्या मधुपर्कमश्नन।
दत्त्वा च लाजान् कलमस्य शुक्लांस्ततो विरिञ्चो गिरिजामुवाच ॥४६॥

कालि पश्यस्व वदनं भर्तुः शशधरप्रभम्।
समदृष्टिः स्थिरा भूत्वा कुरुष्वाग्नेः प्रदक्षिणम् ॥४७॥

ततोऽम्बिका हरमुखे दृष्टे शैत्यमुपागता।
यथार्करश्मिसंतप्ता प्राप्य वृष्टिमिवावनिः ॥४८॥

भूयः प्राह विभोर्वक्त्रमीक्षस्वेति पितामहः।
लज्जया साऽपि दृष्टेति शनैर्ब्रह्माणमब्रवीत् ॥४९॥

समं गिरिजया तेन हुताशस्त्रिःप्रदक्षिणम्।
कृतो लाजाश्च हविषा समं क्षिप्ता हुताशने ॥५०॥

ततो हराङ्घ्रिर्मालिन्या गृहीतो दायकारणात्।
किं याचसि च दास्यामि मुञ्चस्वेति हरोऽब्रवीत् ॥५१॥

मालिनी शंकरं प्राह मत्सख्या देहि शंकर।
सौभाग्यं निजगोत्रीयं ततो मोक्षमवाप्स्यसि ॥५२॥

अथोवाच महादेवो दत्तं मालिनि मुञ्च माम्।
सौभाग्यं निजगोत्रीयं योऽस्यास्तं श्रृणु वच्मि ते ॥५३॥

योऽसौ पीताम्बरधरः शङ्खधृक् मधुसूदनः।
एतदीयो हि सौभाग्यो दत्तोऽस्मद्गोत्रमेव हि ॥५४॥

इत्येवमुक्ते वचने प्रमुमोच वृषध्वजम्।
मालिनी निजगोत्रस्य शुभचारित्रमालिनी ॥५५॥

यदा हरो हि मालिन्या गृहीतश्चरणे शुभे।
तदा कालीमुखं ब्रह्म ददर्श शशिनोऽधिकम् ॥५६॥

तद् दृष्ट्वा क्षोभमगमत् शुक्रच्युतिमवाप च।
तच्छुक्रं बालुकायां च खिलीचक्रे ससाध्वसः ॥५७॥

ततोऽब्रवीद्वरो ब्रह्मन् न द्विजान् हन्तुमर्हसि।
अमी महर्षयो धन्या वालखिल्याः पितामह ॥५८॥

ततो महेशवाक्यान्ते समुत्तस्थुस्तपस्विनः।
अष्टाशीतिसहस्राणि वालखिल्या इति स्मृताः ॥५९॥

ततो विवाहे निर्वृत्ते प्रविष्टः कौतुकं हरः।
रेमे सहोमया रात्रिं प्रभाते पुनरुत्थितः ॥६०॥

ततोऽद्रपुत्रीं समवाप्य शंभुः सुरैः समं भूतगणैश्च हृष्टः।
संपूजितः पर्वतपार्थिवेन स मन्दरं शीघ्रमुपाजगाम ॥६१॥

ततः सुरान् ब्रह्महरीन्द्रमुख्यान् प्रणम्य संपूज्य यथाविभागम्।
विसर्ज्य भूतैः सहितो महीध्रमध्यावसन्मन्दरमष्टमूर्तिः ॥६२॥

इति श्रीवामनपुराणे त्रिपञ्चविंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP