संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|वामनपुराण| अध्याय १९ वा वामनपुराण प्रस्तावना अध्याय १ ला अध्याय २ रा अध्याय ३ रा अध्याय ४ था अध्याय ५ वा अध्याय ६ वा अध्याय ७ वा अध्याय ८ वा अध्याय ९ वा अध्याय १० वा अध्याय ११ वा अध्याय १२ वा अध्याय १३ वा अध्याय १४ वा अध्याय १५ वा अध्याय १६ वा अध्याय १७ वा अध्याय १८ वा अध्याय १९ वा अध्याय २० वा अध्याय २१ वा अध्याय २२ वा अध्याय २३ वा अध्याय २४ वा अध्याय २५ वा अध्याय २६ वा अध्याय २७ वा अध्याय २८ वा अध्याय २९ वा अध्याय ३० वा अध्याय ३१ वा अध्याय ३२ वा अध्याय ३३ वा अध्याय ३४ वा अध्याय ३५ वा अध्याय ३६ वा अध्याय ३७ वा अध्याय ३८ वा अध्याय ३९ वा अध्याय ४० वा अध्याय ४१ वा अध्याय ४२ वा अध्याय ४३ वा अध्याय ४४ वा अध्याय ४५ वा अध्याय ४६ वा अध्याय ४७ वा अध्याय ४८ वा अध्याय ४९ वा अध्याय ५० वा अध्याय ५१ वा अध्याय ५२ वा अध्याय ५३ वा अध्याय ५४ वा अध्याय ५५ वा अध्याय ५६ वा अध्याय ५७ वा अध्याय ५८ वा अध्याय ५९ वा अध्याय ६० वा अध्याय ६१ वा अध्याय ६२ वा अध्याय ६३ वा अध्याय ६४ वा अध्याय ६५ वा अध्याय ६६ वा अध्याय ६७ वा अध्याय ६८ वा अध्याय ६९ वा अध्याय ७० वा अध्याय ७१ वा अध्याय ७२ वा अध्याय ७३ वा अध्याय ७४ वा अध्याय ७५ वा अध्याय ७६ वा अध्याय ७७ वा अध्याय ७८ वा अध्याय ७९ वा अध्याय ८० वा अध्याय ८१ वा अध्याय ८२ वा अध्याय ८३ वा अध्याय ८४ वा अध्याय ८५ वा अध्याय ८६ वा अध्याय ८७ वा अध्याय ८८ वा अध्याय ८९ वा अध्याय ९० वा अध्याय ९१ वा अध्याय ९२ वा अध्याय ९३ वा अध्याय ९४ वा अध्याय ९५ वा अध्याय ९६ वा वामनपुराण - अध्याय १९ वा भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय. Tags : puranvamana puranvishnuपुराणवामन पुराणविष्णु अध्याय १९ वा Translation - भाषांतर पुलस्त्य उवाचततस्तु तां तत्र तदा वसन्तीं कात्यायनीं शैलवरस्य श्रृङ्गे।अपश्यतां दानवसत्तमौ द्वौ चण्डश्च मुण्डश्च तपस्विनीं ताम् ॥१॥दृष्ट्वैव शौलादवतीर्य शीघ्रमाजग्मतुः स्वभवनं सुरारी।दृष्ट्वोचतुस्तौ महिषासुरस्य दूताविदं चण्डमुण्डौ दितीशम् ॥२॥स्वस्थो भवान् किं त्वसुरेन्द्र साम्प्रतमागच्छ पश्याम च तत्र विन्ध्यम्।तत्रास्ति देवी सुमहानुभावा कन्या सुरूपा सुरसुन्दरीणाम् ॥३॥जितास्तया तोयधराऽलकैर्हि जितः शशङ्को वदनेन तन्व्या।नेत्रैस्त्रिभिस्त्रीणि हुताशनानि जितानि कण्ठेन जितस्तु शङ्खः ॥४॥स्तनौ सुवृत्तावथ मग्नचूचुकौ स्थितौ विजित्येव गजस्य कुम्भौ।त्वां सर्वजेतारमिति प्रतर्क्य कुचौ स्मरेणैव कृतौ सुदुर्गौ ॥५॥पीनाः सशस्त्राः परिघोपमाश्च भुजास्तथाऽष्टादश भान्ति तस्याः।पराक्रमं वै भवतो विदित्वा कामेन यन्त्रा इव ते कृतास्तु ॥६॥मध्यं च तस्यास्त्रिवलीतरङ्गं विभाति दैत्येन्द्र सुरोमराजि।भयातुरारोहणकातरस्य कामस्य सोपानमिव प्रयुक्तम् ॥७॥सा रोमराजी सुतरां हि तस्या विराजते पीनकुचावलग्ना।आरोहणे त्वद्भयकातरस्य स्वेदप्रवाहोऽसुर मन्मथस्य ॥८॥नाभिर्गभीरा सुतरां विभाति प्रदक्षिणाऽस्याः परिवर्तमाना।तस्यैव लावण्यगृहस्य मुद्रा कन्दर्पराज्ञा स्वयमेव दत्ता ॥९॥विभाति रम्यं जघनं मृगाक्ष्याः समन्ततो मेखलयाऽवजुष्टम्।मन्याम तं कामनराधिपस्य प्राकारगुप्तं नगरं सुदुर्गम् ॥१०॥वृत्तावरोमौ च मृदू कुमार्याः शोभेत ऊरू समनुत्तमौ हि।आवासनार्थं मकरध्वजेन जनस्य देशाविव सन्निविष्टौ ॥११॥तज्जानुयुग्मं महिषासुरेन्द्र अर्द्धोन्नतं भाति तथैव तस्याः।सृष्ट्वा विधाता हि निरूपणाय श्रान्तस्तथा हस्ततले ददौ हि ॥१२॥जङ्घे सुवृत्तेऽपि च रोमहीने शोभेत दैत्येश्वर ते तदीये।आक्रम्य लोकानिव मिर्मिताया रूपार्जितस्यैव कृताधरौ हि ॥१३॥पादौ च तस्याः कमलोदराभौ प्रयत्नतस्तौ हि कृतौ विधात्रा।आज्ञापि ताभ्यां नखरत्नमाला नक्षत्रमाला गगने यथैव ॥१४॥एवं स्वरूपा दनुनाथ कन्या महोग्रशस्त्राणि च धारयन्ती।दृष्ट्वा यथेष्टं न च विद्म का सा सुताऽथवा कस्यचिदेव बाला ॥१५॥तद्भूतले रत्नमनुत्तमं स्थितं स्वर्गं परित्यज्य महाऽसुरेन्द्र।गत्वाऽथ विन्ध्यं स्वयमेव पश्य कुरुष्व यत् तेऽभिमतं क्षमं च ॥१६॥श्रुत्वैव ताभ्यां महिषासुरस्तु देव्याः प्रवृत्तिं कमनीयरूपाम्।चक्रे मतिं नात्र विचारमस्ति इत्येवमुक्त्वा महिषोऽपि नास्ति ॥१७॥प्रागेव पुंसस्तु शुभाशुभानि स्थाने विधात्रा प्रतिपादितानि।यस्मिन् यथा यानि यतोऽथ विप्र स नीयते वा व्रजति स्वयं वा ॥१८॥ततोनु मुण्डं नमरं सचण्डे विडालनेत्रं सपिशङ्गबाष्कलम्।उग्रायुधं चिक्षुररक्तबीजौ समादिदेशाथ महासुरेन्द्रः ॥१९॥आहत्य भेरी रणकर्कशास्ते स्वर्गं परित्यज्य महीधरं तु।आगम्य मूले शिबिरं निवेश्य तस्थुश्च सज्जा दनुनन्दनास्ते ॥२०॥ततस्तु दैत्यो महिषासुरेण संप्रेषितो दानवयूथपालः।मयस्य पुत्रो रिपुसैन्यमर्दी स दुन्दुभिर्दुन्दुभिनिःस्वनस्तु ॥२१॥अभ्येत्य देवीं गगनस्थितोऽपि स दुन्दुभिर्वाक्यमुवाच विप्र।कुमारि दूतोऽस्मि महासुरस्य रम्भात्मजस्याप्रतिमस्य युद्धे ॥२२॥कात्यायनी दुन्दुभिमभ्युवाच एह्येहि दैत्येन्द्र भयं विमुच्य।वाक्यं च यद्रम्भसुतो बभाषे वदस्व तत्सत्यमपेतमोहः ॥२३॥तथोक्तवाक्ये दितिजः शिवायास्त्यज्याम्बरं भूमितले निषण्णः।सुखोपविष्टः परमासने च रम्भात्मजेनोक्तमुवाच वाक्यम् ॥२४॥दुन्दुभिरुवाचएवं समाज्ञापयते सुरारिस्त्वां देवि दैत्यो महिषासुरस्तु।यथामरा हीनबलाः पृथिव्यां भ्रमन्ति युद्धे विजिता मया ते ॥२५स्वर्गं मही वायुपथाश्च वश्याः पातालमन्ये च महेश्वराद्याः।इन्द्रोऽस्मि रुद्रोऽस्मि दिवाकरोऽस्मि सर्वेषु लोकेष्वधिपोऽस्मि बाले ॥२६॥न सोऽस्ति नाके न महीतले वा रसातले देवभटोऽसुरो वा।यो मां हि संग्राममुपेयिवांस्तु भूतो न यक्षो न जिजीविषुर्यः ॥२७॥यान्येव रत्नानि महीतले वा स्वर्गेऽपि पातालतलेऽथ मुग्धे।सर्वाणि मामद्य समागतानि वीर्यार्जितानीह विशालनेत्रे ॥२८॥स्त्रीरत्नमग्र्यं भवती च कन्या प्राप्तोऽस्मि शैलं तव कारणेन।तस्माद् भजस्वेह जगत्पतिं मां पतिस्तवार्होऽस्मि विभुः प्रभुश्च ॥२९॥पुलस्त्य उवाचइत्येवमुक्ता दितिजेन दुर्गा कात्यायनी प्राह मयस्य पुत्रम्।सत्यं प्रभुर्दानवराट् पृथिव्यां सत्यं च युद्धे विजितामराश्च ॥३०॥किं त्वस्ति दैत्येश कुलेऽस्मदीये धर्मो हि शुल्काख्य इति प्रसिद्धः।तं चेत् प्रदद्यान्महिषो ममाद्य भजामि सत्येन पतिं हयारिम् ॥३१॥श्रुत्वाऽथ वाक्यं मयजोऽब्रवीच्च शुल्कं वदस्वाम्बुजपत्रनेत्रे।दद्यात्स्वमूर्धानमपि त्वदर्थे किं नाम शुल्कं यदिहैव लभ्यम् ॥३२॥पुलस्त्य उवाचइत्येवमुक्ता दनुनायकेन कात्यायनी सस्वनमुन्नदित्वा।विहस्य चैतद्वचनं बभाषे हिताय सर्वस्य चराचरस्य ॥३३॥श्रीदेव्युवाचकुलेऽस्मदीये श्रृणु दैत्य शुल्कं कृतं हि यत्पूर्वतरैः प्रसह्य।यो जेष्यतेऽस्मत्कुलजां रणाग्रे तस्याः स भर्त्ताऽपि भविष्यतीति ॥३४॥पुलस्त्य उवाचतच्छ्रुत्वा वचनं देव्या दुन्दुभिर्दानवेश्वरः।गत्वा निवेदयामास महिषाय यथातथम् ॥३५॥स चाभ्यगान्महातेजाः सर्वदैत्यपुरः सरः।आगत्य विन्ध्यशिखरं योद्धुकामः सरस्वतीम् ॥३६॥ततः सेनापतिर्दैत्यो चिक्षुरो नाम नारद।सेनाग्रगामिनं चक्रे नमरं नाम दानवम् ॥३७॥स चापि तेनाधिकृतश्चतुरङ्गं समूर्जितम्।बलैकदेशमादाय दुर्गा दुद्राव वेगितः ॥३८॥तमापतन्तं वीक्ष्याथ देवा ब्रह्मपुरोगमाः।ऊचुर्वाक्यं महादेवीं वर्म ह्याबन्ध चाम्बिके ॥३९॥अथोवाच सुरान् दुर्गा नाहं बध्नामि देवताः।कवचं कोऽत्र संतिष्ठेत् ममाग्रे दानवाधमः ॥४०॥यदा न देव्या कवचं कृतं शस्त्रनिबर्हणम्।तदा रक्षार्थमस्यास्तु विष्णुपञ्जरमुक्तवान् ॥४१॥सा तेन रक्षिता ब्रह्मन् दुर्गा दानवसत्तमम्।अवध्यं दैवतैः सर्वैर्महिषं प्रत्यनपीडयत् ॥४२॥एवं पुरा देववरेण शंभुना तद्वैष्णवं पञ्जरमायताक्ष्याः।प्रोक्तं तया चापि हि पादघातैर्निषूदितोऽसौ महिषासुरेन्द्रः ॥४३॥एवं प्रभावो द्विज विष्णुपञ्जरः सर्वासु रक्षास्वधिको हि गीतः।कस्तस्य कुर्याद् युधि दर्पहानिं यस्य स्थितश्चेतसि चक्रपाणिः ॥४४ ॥इति श्रीवामनपुराणे एकोनविंशतितमोऽध्यायःयः ॥ १९ ॥ N/A References : N/A Last Updated : September 25, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP