संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय २९ वा

वामनपुराण - अध्याय २९ वा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


लोमहर्षण उवाच
निस्तेजसोऽसुरान् दृष्ट्वा समस्तानसुरेश्वरः
प्रह्लादमथ पप्रच्छ बलिरात्मपितामहम् ॥१॥
बलिरुवाच
तात निस्तेजसो दैत्या निर्दग्धा इव वह्निना
किमेते सहसैवाद्य ब्रह्मदण्डहता इव ॥२॥
दुरिष्टं किं तु दैत्यानां किं कृत्या विधिनिर्मिता
नाशायैषां समुद्भूता येन निस्तेजसोऽसुराः ॥३॥
लोमहर्षण उवाच
इत्यसुरवरस्तेन पृष्टः पौत्रेण ब्राह्मणाः
चिरं ध्यात्वा जगादेदमसुरं तं तदा बलिम् ॥४॥
प्रह्लाद उवाच
चलन्ति गिरयो भूमिर्जहाति सहसा धृतिम्
सद्यः समुद्रा ः! क्षुभिता दैत्या निस्तेजसः कृताः ॥५॥
सूर्योदये यथा पूर्वं तथा गच्छन्ति न ग्रहाः
देवानां च परा लक्ष्मीः करणेनानुमीयते ॥६॥
महदेतन्महाबाहो कारणं दानवेश्वर
न ह्यल्पमिति मन्तव्यं त्वया कार्यं कथञ्चन ॥७॥
लोमहर्षण उवाच
इत्युक्त्वा दानवपतिं प्रह्लादः सोऽसुरोत्तमः
अत्यर्थभक्तो देवेशं जगाम मनसा हरिम् ॥८॥
स ध्यानपथगं कृत्वा प्रह्लादश्च मनोऽसुरः
विचारयामास ततो यथा देवो जनार्दनः ॥९॥
स ददर्शोदरेऽदित्याः प्रह्लादो वामनाकृतिम्
तदन्तश्च वसून् रुद्रा नश्विनौ सरुतास्तथा ॥१०॥
साध्यान् विश्वे तथादित्यान् गन्धर्वोरगराक्षसान्
विरोचनं च तनयं बलिं चासुरनायकम् ॥११॥
जम्भं कुजम्भं नरकं बाणमन्यांस्तथासुरान्
आत्मानमुर्वीं गगनं वायुं वारि हुताशनम् ॥१२॥
समुद्रा द्रि सरिद्द्वीपान् सरांसि च पशून् महीम्
वयोमनुष्यानखिलांस्तथैव च सरीसृपान् ॥१३॥
समस्तलोकस्रष्टारं ब्रह्माणं भवमेव च
ग्रहनक्षत्रताराश्च दक्षाद्यांश्च प्रजापतीन् ॥१४॥
संपश्यन् विस्मयाविष्टः प्रकृतिस्थः क्षणात् पुनः
प्रह्लादः प्राह दैत्येन्द्रं बलिं वैरोचनिं ततः ॥१५॥
तत्संज्ञातं मया सर्वं यदर्थं भवतामियम्
तेजसो हानिरुत्पन्ना शृण्वन्तु तदशेषतः ॥१६॥
देवदेवो जगद्योनिरयोनिर्जगदादिजः
अनादिरादिर्विश्वस्य वरेण्यो वरदो हरिः ॥१७॥
परावराणां परमः परापरसतां गतिः
प्रभुः प्रमाणं मानानां सप्तलोकगुरोर्गुरुः
स्थितिं कर्तु जगन्नाथः सोऽचिन्त्यो गर्भतां गतः ॥१८॥
प्रभुः प्रभूणां परमः पराणामनादिमध्यो भगवाननन्तः
त्रैलोक्यमंशेन सनाथमेकः कर्त्तुं महात्मादितिजोऽवतीर्णः ॥१९॥
न यस्य रुद्रो न च पद्मयोनिर्नेन्द्रो न सूर्येन्दुमरीचिमिश्राः
जानन्ति दैत्याधिप यत्स्वरूपं स वासुदेवः कलयावतीर्णः ॥२०॥
यमक्षरं वेदविदो वदन्ति विशन्ति यं ज्ञानविधूतपापाः
यस्मिन् प्रविष्टा न पुनर्भवन्ति तं वासुदेवं प्रणमामि देवम् ॥२१॥
भृतान्यशेषाणि यतो भवन्ति यथोर्मयस्तोयनिधेरजस्रम्
लयं च यस्मिन् प्रलये प्रयान्ति तं वासुदेवं प्रणतोऽस्म्यचिन्त्यम् ॥२२॥
न यस्य रूपं न बलं प्रभावो न च प्रतापः परमस्य पुंसः
विज्ञायते सर्वपितामहाद्यैस्तं वासुदेवं प्रणमामि नित्यम् ॥२३॥
रूपस्य चक्षुर्ग्रहणे त्वगेषा स्पर्शग्रहित्री रसना रसस्य
घ्राणं च गन्धग्रहणे नियुक्तं न घ्राणचक्षुः श्रवणादि तस्य ॥२४॥
स्वयंप्रकाशः परमार्थतो यः सर्वेश्वरो वेदितव्यः स युक्त्या
शक्यं तमीड्यमनघं च देवं ग्राह्यं नतोऽहं हरिमीशितारम् ॥२५॥
येनैकदंष्ट्रेण समुद्धृतेयं धराचला धारयतीह सर्वम्
शेते ग्रसित्वा सकलं जगद्यस्तमीड्यमीशं प्रणतोऽस्मि विष्णुम् ॥२६॥
अंशावतीर्णेन च येन गर्भे हृतानि तेजांसि महासुराणाम्
नमामि तं देवमनन्तमीशमशेषसंसारतरोः कुठारम् ॥२७॥
देवो जगद्योनिरयं महात्मा स षोडशांशेन महासुरेन्द्राः
सुरेन्द्र मातुर्जठरं प्रविष्टो हृतानि वस्तेन बलं वपूंषि ॥२८॥
बलिरुवाच
तात कोऽयं हरिर्नाम यतो नो भयमागतम्
सन्ति मे शतशो दैत्या वासुदेवबलाधिकाः ॥२९॥
विप्रचित्तिः शिबिः शङ्कुरयः शङ्कुस्तथैव च
हयशिरा अश्वशिरा भङ्गकारो महाहनुः ॥३०॥
प्रतापी प्रघशः शंभुः कुक्कुराक्षश्च दुर्जयः
एते चान्ये च मे सन्ति दैतेया दानवास्तथा ॥३१॥
महाबला महावीर्या भूभारधरणक्षमाः
एषामेकैकशः कृष्णो न वीर्यार्द्धेन संमितः ॥३२॥
लोमहर्षण उवाच
पौत्रस्यैतद् वचः श्रुत्वा प्रह्लादो दैत्यसत्तमः
सक्रोधश्च बलिं प्राह वैकुण्ठाक्षेपवादिनम् ॥३३॥
विनाशमुपयास्यन्ति दैत्या ये चापि दानवाः
येषां त्वमीदृशो राजा दुर्बुद्धिरविवेकवान् ॥३४॥
देवदेवं महाभागं वासुदेवमजं विभुम्
त्वामृते पापसङ्कल्प कोऽन्य एवं वदिष्यति ॥३५॥
य एते भवता प्रोक्ताः समस्ता दैत्यदानवाः
सब्रह्मकास्तथा देवाः स्थावरान्ता विभूतयः ॥३६॥
त्वं चाहं च जगच्चेदं साद्रि द्रुमनदीवनम्
ससमुद्र द्वीपलोकोऽयं यश्चेदं सचराचरम् ॥३७॥
यस्याभिवाद्यवन्द्यस्य व्यापिनः परमात्मनः
एकांशांशकलाजन्म कस्तमेवं प्रवक्ष्यति ॥३८॥
ऋते विनाशाभिमुखं त्वामेकमविवेकिनम्
दुर्बुद्धिमजितात्मानं वृद्धानां शासनातिगम् ॥३९॥
शोच्योऽहं यस्य मे गेहे जातस्तव पिताधमः
यस्य त्वमीदृशः पुत्रो देवदेवावमानकः ॥४०॥
तिष्ठत्वनेकसंसारसंघातौघविनाशिनि
कृष्णे भक्तिरहं तावदवेक्ष्यो भवता न किम् ॥४१॥
न मे प्रियतरः कृष्णादपि देहोऽयमात्मनः
इति जानात्ययं लोको भवांश्च दितिनन्दन ॥४२॥
जानन्नपि प्रियतरं प्राणेभ्योऽपि हरिं मम
निन्दां करोषि तस्य त्वमकुर्वन् गौरवं मम ॥४३॥
विरोचनस्तव गुरुर्गुरुस्तस्याप्यहं बले
ममापि सर्वजगतां गुरुर्नारायणो हरिः ॥४४॥
निन्दां करोषि तस्मिंस्त्वं कृष्णे गुरुगुरोर्गुरौ
यस्मात् तस्मादिहैव त्वमैश्वर्याद् भ्रंशमेष्यसि ॥४५॥
स देवो जगतां नाथो बले प्रभुर्जनार्दनः
नन्वहं प्रत्यवेक्ष्यस्ते भक्तिमानत्र मे गुरुः ॥४६॥
एतावन्मात्रमप्यत्र निन्दता जगतो गुरुम्
नापेक्षितस्त्वया यस्मात् तस्माच्छापं ददामि ते ॥४७॥
यथा मे शिरसश्छेदादिदं गुरुतरं बले
त्वयोक्तमच्युताक्षेपं राज्यभ्रष्टस्तथा पत ॥४८॥
यथा न कृष्णादपरः परित्राणं भवार्णवे
तथाचिरेण पश्येयं भवन्तं राज्यविच्युतम् ॥४९॥
इति श्रीवामनपुराणे सरोमाहात्म्ये नवविंशतितमोऽध्यायः ॥२९॥

N/A

References : N/A
Last Updated : September 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP