संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय ९ वा

वामनपुराण - अध्याय ९ वा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


नारद उवाच
नेत्रहीनः कथं राज्ये प्रह्लादेनान्धको मुने।
अभिषिक्तो जानताऽपि राजधर्मं सनातनम् ॥१॥

पुलस्त्य उवाच
लब्धचक्षुरसौ भूयो हिरण्याक्षेऽपि जीवति।
ततोऽभिषिक्तो दैत्येन प्रह्लादेन निजे पदे ॥२॥

नारद उवाच
राज्येऽन्धकोऽभिषिक्तस्तु किमाचरत सुव्रत।
देवादिभिः सह कथं समास्ते तद् वदस्व मे ॥३॥

पुलस्त्य उवाच
राज्येऽभिषिक्तो दैत्येन्द्रो हिरण्याक्षसुतोऽन्धकः।
तपसाराध्य देवेशं शूलपाणिं त्रिलोचनम् ॥४॥

अजेयत्वमवध्यत्वं सुरसिद्धर्षिपन्नगैः।
अदाह्यत्वं हुताशेन अक्लेद्यत्वं जलेन च ॥५॥

एवं स वरलब्धस्तु दैत्यो राज्यमपालयत्।
शुक्रं पुरोहितं कृत्वा समध्यास्ते ततोऽन्धकः ॥६॥

ततश्चक्रे समुद्योगं देवानामन्धकोऽसुरः।
आक्रम्य वसुधां सर्वां मनुजेन्द्रान् पराजयत् ॥७॥

पराजित्य महीपालान् सहायार्थे नियोज्य च।
तैः समं मेरुशिखरं जगामाद्भुतदर्शनम् ॥८॥

शक्रोऽपि सुरसैन्यानि समुद्योज्य महागजम्।
समारुह्यामरावत्यां गुप्तिं कृत्वा विनिर्ययौ ॥९॥

शक्रस्यानु तथैवान्ये लोकपाला महौजसः।
आरुह्य वाहनं स्वं स्वं सायुधा निर्ययुर्बहिः ॥१०॥

देवसेनाऽपि च समं शक्रोणाद्भुतकर्मणा
निर्जगामातिवेगेन गजवाजिराथादिभिः ॥११॥

अग्रतो द्वादशादित्याः पृष्ठतश्च त्रिलोचनाः।
मध्येऽष्टौ वसवो विश्वे साध्याश्विमरुतां गणाः।
यक्षविद्याधराद्याश्च स्वं स्वं वाहनमास्थिताः ॥१२॥

नारद उवाच
रुद्रादीनां वदस्वेह वाहनानि च सर्वशः।
एकैकस्यापि धर्मत्र परं कौतूहलं मम ॥१३॥

पुलस्त्य उवाच
श्रृणुष्व कथयिष्यामि सर्वेषामपि नारद।
वाहनानि समासेन एकैकस्यानुपूर्वशः ॥१४॥

रुद्रहस्ततलोत्पन्नो महावीर्यो महाजवः।
श्वेतवर्णो गजपतिर्देवराजस्य वाहनम् ॥१५॥

रुद्रोरुसंभवो भीमः कृष्णवर्णो मनोजवः।
पौण्ड्रको नाम महिषो धर्मराजस्य नारद ॥१६॥

रुद्रकर्ममलोद्भूतः श्यामो जलधिसंज्ञकः।
शिशुमारो दिव्यगतिः वाहनं वरुणस्य च ॥१७॥

रौद्रः शकटचक्राक्षः शैलाकारो नरोत्तमः।
अम्बिकापादसंभूतो वाहनं धनदस्य तु ॥१८॥

एकादशानां रुद्राणां वाहनानि महामुने।
गन्धर्वाश्च महावीर्या भुजगेन्द्राश्च दारुणाः।
श्वेतानि सौरभेयाणि वृषाण्युग्रजवानि च ॥१९॥

रथं चन्द्रमसश्चार्द्धूसहस्रं हंसवाहनम्।
हरयो रथवाहाश्च आदित्या मुनिसत्तम ॥२०॥

कुञ्जरस्थाश्च वसवो यक्षाश्च नरवाहनाः।
किन्नरा भुजगारूढा हयारूढौ तथाश्विनौ ॥२१॥

सारङ्गधिष्ठिता ब्रह्मन् मरुतो घोरदर्शनाः।
शुकारूढाश्च कवयो गन्धर्वाश्च पदातिनः ॥२२॥

आरुह्य वाहनान्येवं स्वानि स्वान्यमरोत्तमाः।
संनह्य निर्ययुर्हृष्टा युद्धाय सुमहौजसः ॥२३॥

नारद उवाच
गदितानि सुरादीनां वाहनानि त्वया मुने।
दैत्यानां वाहनान्येवं यथावद् वक्तुमर्हसि ॥२४॥

पुलस्त्य उवाच
श्रृणुष्व दानवादीनां वाहनानि द्विजोत्तम।
कथयिष्यामि तत्त्वेन यथावच्छ्रोतुमर्हसि ॥२५॥

अन्धकस्य रथो दिव्यो युक्तः परमवाजिभिः।
कृष्णवर्णैः सहस्रारस् त्रिनल्वपरिमाणवान् ॥२६॥

प्रह्लादस्य रथो दिव्यश्चन्द्रवर्णैर्हयोत्तमैः।
उह्यमानस्तथाऽष्टाभिः श्वेतरुक्ममयः शुभः ॥२७॥

विरोचनस्य च गजः कुजम्भस्य तुरंगमः।
जम्भस्य तु रथो द्वियो हयैः काञ्जनसन्निभैः ॥२८॥

शङ्कुकर्णस्य तुरगो हयग्रीवस्य कुञ्जरः।
रथो मयस्य विख्यातो दुन्दुभेश्च महोरगः।
शम्बरस्य विमानोऽभूदयः शङ्कोर्मृगाधिपः ॥२९॥

बलवृत्रौ च बलिनौ गदामुसलधारिणौ।
पद्भ्यां दैवतसैन्यानि अभिद्रवितुमुद्यतौ ॥३०॥

ततो रणोऽभूत् तुमुलः संकुलोऽतिभयंकरः।
रजसा संवृतो लोकी पिङ्गवर्णेन नारद ॥३१॥

नाज्ञासीच्च पिता पुत्रं न पुत्रः पितरं तथा।
स्वानेवान्ये निजघ्नुर्वै परानन्ये च सुव्रत  ॥३२॥

अभिद्रुतो महावेगो रथोपरि रथस्तदा।
गजो मत्तगजेन्द्रं च सादी सादिनमभ्यगात् ॥३३॥

पदातिरपि संक्रुद्धः पदातिनमथोल्बणम्।
परस्परं तु प्रत्यघ्नन्नन्योन्यजयकाङ्क्षिणः ॥३४॥

ततस्तु संकुले तस्मिन् युद्धे दैवासुरे मुने।
प्रावर्तत नदी घोरा शमयन्ती रणाद्रजः ॥३५॥

शोणितोदा रथावर्त्ता योधसंघट्टवाहिनी।
गजकुम्भमहाकूर्मा शरमीना दुरत्यया ॥३६॥

तीक्ष्णाग्रप्रासमकरा महासिग्राहवाहिनी।
अन्त्रशैवलसंकीर्णा पताकाफेनमालिनी ॥३७॥

गृध्रकङ्कमहाहंसा श्येनचक्राह्वमण्डिता।
वनवायसकादम्बा गोमायुश्वापदाकुला ॥३८॥

पिशाचमुनिसंकीर्णा दुस्तरा प्राकृतैर्जनैः।
रथप्लवैः संतरन्तः शूरास्तां प्रजगाहिरे ॥३९॥

आगुल्फादवमज्जन्तः सूदयन्तः परस्परम्।
समुत्तरन्तो वेगेन योधा जयधनेप्सवः ॥४०॥

ततस्तु रौद्रो सुरदैत्यसादने महाहवे भीरुभयंकरेऽथ।
रक्षांसि यक्षाश्च सुसंप्रहृष्टाः पिशाचयूथास्त्वभिरेमिरे च ॥४१॥

पिबन्त्यसृग्गाढतरं भटानामालिङ्ग्य मांसानि च भक्षयन्ति।
वसां विलुम्पन्ति च विस्फुरन्ति गर्जन्त्यथान्योन्यमथो वयांसि ॥४२॥

मुञ्चन्ति फेत्काररवाञ्शिवाश्च क्रन्दन्ति योधा भुवि वेदनार्त्ताः।
शस्त्रप्रतप्ता निपतन्ति चान्ये युद्धं श्मशानप्रतिमं बभूव ॥४३॥

तस्मिञ्शिवाघोररवे प्रवृत्ते सुरासुराणां सुभयंकरे ह।
युद्धं बभौ प्राणपणोपविद्धं द्वन्द्वेऽतिशस्त्राक्षगतो दुरोदरः ॥४४॥

हिरण्यचक्षुस्तनयो रणेऽन्धको रथे स्थितो वाजिसहस्रयोजिते।
मत्तेभपृष्टस्थितमुग्रतेजसं समेयिवान् देवपतिं शतक्रतुम् ॥४५॥

समापतन्तं महिषाधिरूढं यमं प्रतीच्छद् बलवान् दितीशः।
प्रह्लादनामा तुरगाष्टयुक्तं रथं समास्थाय समुद्यतास्त्रः ॥४६॥

विरोचनश्चापि जलेश्वरं त्वगाज्जम्भस्त्वथागाद् धनदं बलाढ्यम्।
वायुं समभ्येत्य च शम्बरोऽथ मयो हुताशं युयुधे मुनीन्द्र ॥४७॥

अन्ये हयग्रीवमुखा महाबला दितेस्तनूजा दनुपुंगवाश्च।
सुरान् हुताशार्कवसूरकेश्वरान् द्वन्द्वं समासाद्य महाबलान्विताः ॥४८॥

गर्जन्त्यथान्योन्यमुपेत्य युद्धे चापानि कर्षन्त्यतिवेगिताश्च।॥
मुञ्चन्ति नाराचगणान् सहस्रश अगच्छ हे तिष्ठसि किं ब्रुवन्तः ॥४९॥

शरैस्तु तीक्ष्णैरतितापयन्तः शस्त्रैरमोघैरभिताडयन्तः।
मन्दाकिनीवेगनिभां वहन्तीम् प्रवर्तयन्तो भयदां नदीं च ॥५०॥

त्रैलोक्यमाकांक्षिभिरुग्रवेगैः सुरासुरैर्नारद संप्रयुद्धे।
पिशाचरक्षोगणपुष्टिवर्धनीमुत्तर्तुमिच्छद्भिरसृग्नदी बभौ ॥५१॥

वाद्यन्ति तूर्याणि सुरासुराणाम् पश्यन्ति खस्था मुनिसिद्धसंघाः।
नयन्ति तानप्सरसां गणाग्र्या हता रणे येऽभिमुखास्तु शूराः ॥५२॥

इति श्रीवामनपुराणे नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : September 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.