संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय ६ वा

वामनपुराण - अध्याय ६ वा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


पुलस्त्य उवाच॥
हृद्भवो ब्रह्मणो योऽसौ धर्मो दिव्यवपुर्मुने।
दाक्षायाणी तस्य भार्या तस्यामजनयत्सुतान् ॥१॥

हरिं कृष्णं च देवर्षे नारायणनरौ तथा।
योगाभ्यासरतौ नित्यं हरिकृष्णौ बभूवतुः ॥२॥

नरनारायणौ चैव जगतो हितकाम्यया।
तप्येतां च तपः सौम्यौ पुराणवृषिसत्तमौ ॥३॥

प्रालेयाद्रिं समागम्य तीर्थे बदरिकाश्रमे।
गृणन्तौ तत्परं ब्रह्म गङ्गाया विपुले तटे ॥४॥

नरनारायणाभ्यां च जगदेतच्चराचरम्।
तापितं तपसा ब्रह्मन् शक्रः क्षोभं तदा ययौ ॥५॥

संक्षुब्धस्तपसा ताभ्यां क्षोभणाय शतक्रतुः।
रम्भाद्याप्सरसः श्रेष्ठाः प्रेषयत्स महाश्रमम् ॥६॥

कन्दर्पश्च सुदुर्धर्षश्चूताङ्कुरमहायुधः।
समं सहचरेणैव वसन्तेनाश्रमं गतः ॥७॥

ततो माधवकन्दर्पौ ताश्चैवाप्सरसो वराः।
बदर्याश्रममागम्य विचिक्रीडुर्यथेच्छया ॥८॥

ततो वसन्ते संप्राप्ते सिंशुका ज्वलनप्रभाः।
निष्पत्राः सततं रेजुः शोभयन्तो धरातलम् ॥९॥

शिशिरं नाम मातङ्गं विदार्य नखरैरिव।
वसन्तकेसरी प्राप्तः पलाशकुसुमैर्मुने ॥१०॥

मया तुषारौघकरी निर्जितः स्वेन तेजसा।
तमेव हसतेत्युच्चैः वसन्तः कुन्दकुड्मलैः ॥११॥

वनानि कर्णिकाराणां पुष्पितानि विरेजिरे।
यथा नरेन्द्रपुत्राणि कनकाभरणानि हि ॥१२॥

तेषामनु तथा नीपाः पिङ्करा इव रेजिरे।
स्वामिसंलब्धसंमाना भृत्या राजसुतानिव ॥१३॥

रक्ताशोकवना भान्ति पुष्पिताः सहसोज्ज्वलाः।
भृत्या वसन्तनृपतेः संग्रामेऽसृक्प्लुता इव ॥१४॥

मृगवृन्दाः पिञ्जरिता राजन्ते गहने वने।
पुलकाभिर्वृता यद्वत् सज्जनाः सुहृदागमे ॥१५॥

मञ्जरीभिर्विराजन्ते नदीकूलेषु वेतसाः।
वक्तुकामा इवाङ्गुल्या कोऽस्माकं सदृशो नगः ॥१६॥

रक्ताशोककरा तन्वी देवर्षे किंशुकाऽङ्घ्रिका।
नीलाशोककचा श्यामा विकासिकमलानना ॥१७॥

नीलेन्दीवरनेत्रा च ब्रह्मन् बिल्वफलस्तनी।
प्रफुल्लकुन्ददशना मञ्जरीकरशोभिता ॥१८॥

बन्धुजीवाधरा शुभ्रा सिन्दुवारनखाद्भता।
पुंस्कोकिलस्वना दिव्या अङ्कोलवसना शुभा ॥१९॥

बर्हिवृन्दकलापा च सारसस्वरनूपुरा।
प्राग्वंशरसना ब्रह्मन् मत्तहंसगतिस्तथा ॥२०॥

पुत्रजीवांशुका भृङ्गरोमराजिविराजिता।
वसन्तलक्ष्मीः संप्राप्ता ब्रह्मन् बदरिकाश्रमे ॥२१॥

ततो नारायणो दृष्ट्वा आश्रमस्यानवद्यताम्।
समीक्ष्य च दिशः सर्वास्ततोऽनङ्गमपश्यत ॥२२॥

नारद उवाच॥
कोऽसावनङ्गो ब्रह्मर्षे तस्मिन् बदरिकाश्रमे।
यं ददर्श जगन्नाथो देवो नारायणोऽव्ययः ॥२३॥

पुलस्त्य उवाच॥
कन्दर्पो हर्षतनयो योऽसौ कामो निगद्यते।
स शंकरेण संदग्धो ह्यनङ्गत्वमुपागतः ॥२४॥

नारद उवाच॥
किमर्थं कामदेवोऽसौ देवदेवेन शंभुना।
दग्धस्तु कारणे कस्मिन्नेतद्व्याख्यातुमर्हसि ॥२५॥

पुलस्त्य उवाच॥
यदा दक्षसुता ब्रह्मन् सती याता यमक्षयम्।
विनाश्य दक्षयज्ञं तं विचचार त्रिलोचनः ॥२६॥

ततो वृषध्वजं दृष्ट्वा कन्दर्पः कुसुमायुधः।
अपत्नीकं तदाऽस्त्रेण उन्मादेनाभ्यताडयत् ॥२७॥

ततो हरः शरेणाथ उन्मादेनाशु ताडितः।
विचचार तदोन्मत्तः काननानि सरांसि च ॥२८॥

स्मरन् सतीं महादेवस्तथोन्मादेन ताडितः।
न शर्म लेभे देवर्षे बाणविद्ध इव द्विपः ॥२९॥

ततः पपात देवेशः कालिन्दीसरितं मुने।
निमग्ने शंकरे आपो दग्धाः कृष्णत्वमागताः ॥३०॥

तदा प्रभृति कालिन्द्या भृङ्गाञ्जननिभं जलम्।
आस्यन्दत् पुण्यतीर्था सा केशपाशमिवावनेः ॥३१॥

ततो नदीषु पुण्यासु सरस्सु च नदीषु च।
पुलुनेषु च रम्येषु वापीषु नलिनीषु च ॥३२॥

पर्वतेषु च रम्येषु काननेषु च सानुषु।
विचरन् स्वेच्छया नैव शर्म लेभे महेश्वरः ॥३३॥

क्षणं गायति देवर्षे क्षणं रोदिति शंकरः।
क्षणं ध्यायति तन्वङ्गीं दक्षकन्यां मनोरमाम् ॥३४॥

ध्यात्वा क्षणं प्रस्वपिति क्षणं स्वप्नायते हरः।
स्वप्ने तथेदं गदति तां दृष्ट्वा दक्षकन्यकाम् ॥३५॥

निर्घृणे तिष्ठ किं मूढे त्यजसे मामनिन्दिते।
मुग्धे त्वया विरहितो दग्धोऽस्मि मदनाग्निना ॥३६॥

सति सत्यं प्रकुपिता मा कोपं कुरु सुन्दरि।
पादप्रणामावनतमभिभाषितुमर्हसि ॥३७॥

श्रूयसे दृश्यसे नित्यं स्पृश्यसे वन्द्यसे प्रिये।
आलिङ्ग्यसे च सततं किमर्थं नाभिभाषसे ॥३८॥

विलपन्तं जनं दृष्ट्वा कृपा कस्य न जायते।
विशेषतः पतिं बाले ननु त्वमतिनिर्घृणा ॥३९॥

त्वयोक्तानि वचांस्येवं पूर्वं मम कृशोदरि।
विना त्वया न जीवेयं तदसत्यं त्वया कृतम् ॥४०॥

एह्येहि कामसंतप्तं परिष्वज सुलोचने।
नान्यथा नश्यते तापः सत्येनापि शपे प्रिये ॥४१॥

इत्थं विलप्य स्वप्नान्ते प्रतिबुद्धस्तु तत्क्षणात्।
उत्कूजति तथाऽरण्ये मुक्तकण्ठं पुनः पुनः ॥४२॥

तं कूजमानं विलपन्तमारात्
समीक्ष्य कामो वृषकेतनं हि।
विव्याध चापं तरसा विनाम्य
संतापनाम्ना तु शरेण भूयः ॥४३॥

संतापनास्त्रेण तदा स विद्धो
भूयः स संतप्ततरो बभूव।
संतापयंश्चापि जगत्समग्रं
फूत्कृत्य फूत्कृत्य विवासते स्म ॥४४॥

तं चापि भूयो मदनो जघान
विजृण्भणास्त्रेण ततो विजृम्भे।
ततो भृशं कामशरैर्वितुन्नो
विजृम्भमाणः परितो भ्रमंश्च ॥४५॥

ददर्श यक्षाधिपतेस्तनूजं
पाञ्चालिकं नाम जगत्प्रधानम्।
दृष्ट्वा त्रिनेत्रो धनदस्य पुत्रं
पार्श्वं समभ्येत्य वचो बभाषे।
भ्रातृव्य वक्ष्यामि वचो यदद्य
तत् त्वं कुरुष्वामितविक्रमोऽसि ॥४६॥

पाञ्चालिक उवाच॥
यन्नाथ मां वक्ष्यसि तत्करिष्ये
सुदुष्करं यद्यपि देवसंघैः।
आज्ञापयस्वातुलवीर्यशंभो
दासोऽस्मि ते भक्तियुतस्तथेश ॥४७॥

ईश्वर उवाच॥
नाशं गतायां वरदाम्बिकायां
कामाग्निना प्लुष्टसुविग्रहोऽस्मि।
विजृम्भणोन्मादशरैर्विभिन्नो
धृतिं न विन्दामि रतिं सुखं वा  ॥४८॥

विजृम्भणं पुत्र तथैव तापमुन्मादमुग्रं मदनप्रणुन्नम्।
नान्यः पुमान् धारयितुं हि शक्तो
मुक्त्वा भवन्तं हि ततः प्रतीच्छ ॥४९॥

पुलस्त्य उवाच॥
इत्येवमुक्तो वृषभध्वजेन
यक्षः प्रतीच्छत् स विजृम्भणादीन्।
तोषं जगामाशु ततस्त्रिशूली
तुष्टस्तदैवं वचनं बभाषे ॥५०॥

हर उवाच॥
यस्मात्त्वया पुत्र सुदुर्धराणि
विजृम्भणादीनि प्रतीच्छितानि।
तस्माद्वरं त्वां प्रतिपूजनाय
दास्यामि लोकस्य च हास्यकारि ॥५१॥

यस्त्वां यदा पश्यति चैत्रमासे
स्पृशेन्नरो वार्चयते च भक्त्या।
वृद्धोऽथ बालोऽथ युवाथ योषित् सर्वे तदोन्मादधरा भवन्ति ॥५२॥

गायन्ति नृत्यन्ति रमन्ति यक्ष वाद्यानि यत्नादपि वादयन्ति।
तवाग्रतो हास्यवचोऽभिरक्ता भवन्ति ते योगयुतास्तु ते स्युः ॥५३॥

ममैव नाम्ना भविताऽसि पूज्यः पाञ्चालिकेशः प्रथितः पृथिव्याम्।
मम प्रसादाद् वरदो नराणां भविष्यसे पूज्यतमोऽभिगच्छ ॥५४॥

इत्येवमुक्तो विभुना स यक्षो जगाम देशान् सहसैव सर्वान्।
कालञ्जरस्योत्तरतः सुपुण्यो देशो हिमाद्रेरपि दक्षिणस्थः ॥५५॥

तस्मिन् सुपुण्ये विषये निविष्टो रुद्रप्रसादादभिपूज्यतेऽसौ।
तस्मिन् प्रयाते भगवांस्त्रिनेत्रो देवोऽपि विन्ध्यं गिरिमभ्यगच्छत् ॥५६॥

तत्रापि मदनो गत्वा ददर्श वृषकेतनम्।
दृष्ट्वा प्रहर्त्तुकामं च ततः प्रादुद्रवद्धरः ॥५७॥

ततो दारुवनं घोरं मदनाभिसृतो हरः।
विवेश ऋषयो यत्र सपत्नीका व्यवस्थिताः ॥५८॥

ते चापि ऋषयः सर्वे दृष्ट्वा मूर्ध्ना नताभवन्।
ततस्तान् प्राह भगवान् भिक्षा मे प्रतिदीयताम् ॥५९॥

ततस्ते मौनिनस्तस्थुः सर्व एव महर्षयः।
तदाश्रमाणि सर्वाणि परिचक्राम नारदः ॥६०॥

तं प्रविष्टं तदा दृष्ट्वा भार्गवात्रेययोषितः।
प्रक्षोभमगमन् सर्वा हीनसत्त्वाः समन्ततः ॥६१॥

ऋते त्वरुन्धतीमेकामनसूयां च भामिनीम्।
एताभ्यां भर्तृपूजासु तच्चिन्तासु स्थितं मनः ॥६२॥

ततः संक्षुभिताः सर्वा यत्र याति महेश्वरः।
तत्र प्रयान्ति कामार्त्ता मदविह्वलितेन्द्रियाः ॥६३॥

त्यक्त्वाश्रमणि शून्यानि स्वानि ता मुनियोषितः।
अनुजग्मुर्यथा मत्तं करिण्य इव कुञ्जरम् ॥६४॥

ततस्तु ऋषयो दृष्ट्वा भार्गवाङ्गिरसो मुने।
क्रोधान्विताब्रुवन्सर्वे लिङ्गेऽस्य पततां भुवि ॥६५॥

ततः पपात देवस्य लिङ्गं पृथ्वीं विदारयन्।
अन्तर्द्धानं जगामाथ त्रिशूली नीललोहितः ॥६६॥

ततः स पतितो लिङ्गो विभिद्य वसुधातलम्।
रसातलं विवेशाशु ब्रह्मण्डं चोर्ध्वतोऽभिनत् ॥६७॥

ततश्चचाल पृथिवी गिरयः सरितो नगाः।
पातालभुवनाः सर्वे जङ्गमाजङ्गमैर्वृताः ॥६८॥

संक्षुब्धान् भुवनान् दृष्ट्वा भूर्लोकादीन् पितामहः।
जगाम माधवं द्रष्टुं क्षीरोदं नाम सागरम् ॥६९॥

तत्र दृष्ट्वा हृषीकेशं प्रणिपत्य च भक्तितः।
उवाच देव भुवनाः किमर्थ क्षुभिता विभो ॥७०॥

अथोवाच हरिर्ब्रह्मन् शार्वो लिङ्गो महर्षिभिः।
पातितस्तस्य भारार्ता संचचाल वसुंधरा ॥७१॥

ततस्तदद्भुततमं श्रुत्वा देवः पितामहः।
तत्र गच्छाम देवेश एवमाह पुनः पुनः ॥७२॥

ततः पितामहो देवः केशवश्च जगत्पतिः।
आजग्मतुस्तमुद्देशं यत्र लिङ्गं भवस्य तत् ॥७३॥

ततोऽनन्तं हरिर्लिङ्गं दृष्ट्वारुह्य खगेश्वरम्।
पातालं प्रविवेशाथ विस्मयान्तरितो विभुः ॥७४॥

ब्रह्म पद्मविमानेन उर्ध्वमाक्रम्य सर्वतः।
नैवान्तमलभद् ब्रह्मन् विस्मितः पुनरागतः ॥७५

विष्णुर्गत्वाऽथ पातालान् सप्त लोकपरायणः।
चक्रपाणिर्विनिष्क्रान्तो लेभेऽन्तं न महामुने ॥७६॥

विष्णुः पितामहश्चोभौ हरलिङ्गं समेत्य हि।
कृताञ्जलिपुटौ भूत्वा स्तोतुं देवं प्रचक्रतुः ॥७७॥

हरिब्रह्माणावूचतुः॥
नमोऽस्तु ते शूलपाणे नमोऽस्तु वृषभध्वज।
जीमूतवाहन कवे शर्व त्र्यम्बक शंकर ॥७८॥

महेश्वर महेशान सुपर्णाक्ष वृषाकपे।
दक्षयज्ञक्षयकर कालरूप नमोऽस्तु ते ॥७९॥

त्वमादिरस्य जगतस्त्वं मध्यं परमेश्वर।
भवानन्तश्च भगवान् सर्वगस्त्वं नमोऽस्तु ते ॥८०॥

पुलस्त्य उवाच॥
एवं संस्तूयमानस्तु तस्मिन् दारुवने हरः।
स्वरूपी ताविदं वाक्यमुवाच वदतां वरः ॥८१॥

हर उवाच॥
किमर्थं देवतानाथौ परिभूतक्रमं त्विह।
मां स्तुवाते भृशास्वस्थं कामतापितविग्रहम् ॥८२॥

देवावूचतुः ॥
भक्तः पातितं लिङ्गं यदेतद् भुवि शंकर।
एतत् प्रगृह्यतां भूय अतो देव स्तुवावहे ॥८३॥

हर उवाच॥
यद्यर्चयन्ति त्रिदशा मम लिङ्गं सुरोत्तमौ।
तदेतत्प्रतिगृह्णीयां नान्यथेति कथंचन ॥८४॥

ततः प्रोवाच भगवानेवमस्त्विति केशव।
ब्रह्म स्वयं च जग्राह लिङ्गं कनकपिङ्गलम् ॥८५॥

ततश्चकार भगवांश्चातुर्वर्ण्यं हरार्चने।
शास्त्राणि चैषां मुख्यानि नानोक्तिविदितानि च  ॥८६॥

आद्यं शैवं परिख्यातमन्यत्पाशुपतं मुने।
तृतीयं कालवदनं चतुर्थं च कपालिनम् ॥८७॥

शैवश्चासीत्स्वयं शक्तिर्वसिष्ठस्य प्रियः श्रुतः।
तस्य शिष्यो बभूवाथ गोपायन इति श्रुतः ॥८८॥

महापाशुपतश्चासीद्भरद्वाजस्तपोधनः।
तस्य शिष्योऽप्यभूद्राजा ऋषभः सोमकेश्वरः ॥८९॥

कालस्यो भगवानासीदापस्तम्बस्तपोधनः।
तस्य शिष्योभवद्वैश्यो नाम्ना क्राथेश्वरो मुने ॥९०॥

महाव्रती च धनदस्तस्य शिष्यश्च विर्यवान्।
कर्णोदर इति ख्यातो जात्या शूद्रो महातपाः ॥९१॥

एवं स भगवान्ब्रह्म पूजनाय शिवस्य तु।
कृत्वा तु चातुराश्रम्यं स्वमेव भवनं गतः ॥९२॥

गते ब्रह्मणि शर्वोऽपि उपसंहृत्य तं तदा।
लिङ्गं चित्रवने सूक्ष्मं प्रतिष्ठाप्य चचार ह ॥९३॥

विचरन्तं तदा भूयो महेशं कुसुमायुधः।
आरात्स्थित्वाऽग्रतो धन्वी संतापयितुमुद्यतः ॥९४॥

ततस्तमग्रतो दृष्ट्वा क्रोधाध्मातदृशा हरः।
स्मरमालोकयामास शिखाग्राच्चरणान्तिकम् ॥९५॥

आलोकितस्त्रिनेत्रेण मदनो द्युतिमानपि।
प्रादह्यत तदा ब्रह्मन् पादादारभ्य कक्षवत् ॥९६॥

प्रदह्यमानौ चरणौ दृष्ट्वाऽसौ कुसुमायुधः।
उत्ससर्ज धनुः श्रेष्ठं तज्जगामाथ पञ्चधा ॥९७॥

यदासीन्मुष्टिबन्धं तु रुक्मपृष्ठं महाप्रभम्।
स चम्पकतरुर्जातः सुगन्धाढ्यो गुणाकृतिः ॥९८॥

नाहस्थानं शुभाकारं यदासीद्वज्रभूषितम्।
तज्जातं केसरारण्यं बकुलं नामतो मुने ॥९९॥

या च कोटी शुभा ह्यासीदिन्द्रनीलविभूषिता।
जाता सा पाटला रम्या भृङ्गराजिविभूषिता ॥१००॥

नाहोपरि तथा मुष्टौ स्थानं शशिमणिप्रभम्।
पञ्चगुल्माऽभवज्जाती शशाङ्ककिरणोज्ज्वला ॥१०१॥

ऊर्ध्व मुष्ट्या अधः कोट्योः स्थानं विद्रुमभूषितम्।
तस्माद्बहुपुटा मल्ली संजाता विविधा मुने ॥१०२॥

पुष्पोत्तमानि रम्याणि सुरभीणि च नारद।
जातियुक्तानि देवेन स्वयमाचरितानि च ॥१०३॥

मुमोच मार्गणान् भूम्यां शरीरे दह्यति स्मरः।
फलोपगानि वृक्षाणि संभूतानि सहस्रशः ॥१०४॥

चूतादीनि सुगन्धीनि स्वादूनि विविधानि च।
हरप्रसादाज्जातानि भोज्यान्यपि सुरोत्तमैः ॥१०५॥

एवं दग्ध्वा स्मरं रुद्रः संयम्य स्वतनुं विभुः।
पुष्यार्था शिशिराद्रिं स जगाम तपसेऽव्ययः ॥१०६॥

एवं पुरा देववरेण शंभुना कामस्तु दग्धः सशरः सचापः।
ततस्त्वनङ्गेति महाधनुर्द्धरो देवैस्तु गीतः सुरपूर्वपूजितः ॥१०७॥

इति श्रीवामनपुराणे षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : September 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.