संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय १ ला

वामनपुराण - अध्याय १ ला

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥

त्रैलोक्यराज्यमाक्षिप्य बलेरिन्द्राय यो ददौ।
श्रीधराय नमस्तस्मै छद्मवामनरूपिणे ॥१॥

पुलस्त्यमृषिमासीनमाश्रमेवाग्विदांवरम्।
नारदः परिपप्रच्छ पुराणं वामनाश्रयम् ॥२॥

कथं भगवता ब्रह्मन् विष्णुना प्रभविष्णुना।
वामनत्वं धृतं पूर्वं तन्ममाचक्ष्व पृच्छतः ॥३॥

कथं च वैष्णवो भूत्वा प्रह्लादो दैत्यसत्तमः।
त्रिदशैर्युयुधे सार्थमत्र मे संशयो महान् ॥४॥

श्रूयते च द्विजश्रेष्ठ दक्षस्य दुहिता सती।
शंकरस्य प्रिया भार्या बभूव वरवर्णिनी ॥५॥

किमर्थं सा परित्यज्य स्वशरीरं वरानना।
जाता हिमवतो गेहे गिरीन्द्रस्य महात्मनः ॥६॥

पुनश्च देवदेवस्य पत्नीत्वमगमच्छुभा।
एतन्मे संशयं छिन्धि सर्ववित् त्वं मतोऽसि मे ॥७॥

तीर्थानां चैव माहात्म्यं दानानां चैव सत्तम।
व्रतानां विविधानां च विधिमाचक्ष्व मे द्विज ॥८॥

एवमुक्तो नारदेन पुलस्त्यो मुनिसत्तमः।
प्रोवाच वदतां श्रेष्ठो नारदं तपसो निधिम् ॥९॥

पुलस्त्य उवाच
पुराणं वामनं वक्ष्ये क्रमान्निखिलमादितः।
अवधानं स्थिरं कृत्वा श्रृणुष्व मुनिसत्तम  ॥१०॥

पुरा हैमवती देवी मन्दरस्थं महेश्वरम्।
उवाच वचनं दृष्ट्वा ग्रीष्मकालमुपस्थितम् ॥११॥

ग्रीष्मः प्रवृत्तो देवेश न च ते विद्यते गृहम्।
यत्र वातातपौ ग्रीष्मे स्थितयोर्नौ गमिष्यतः ॥१२॥

एवमुक्तो भवान्या तु शंकरो वाक्यमब्रवीत्।
निराश्रयोऽहं सुदती सदाऽरण्यचरः शुभे ॥१३॥

इत्युक्ता शंकरेणाथ वृक्षच्छायासु नारद।
निदाघकालमनयत् समं शर्वेण सा सती ॥१४॥

निदाघान्ते समुद्भूतो निर्जनाचरितोऽद्भुतः।
घनान्धकारिताशो वै प्रावृट्कालोऽतिरागवान् ॥१५॥

तं दृष्ट्वा दक्षतनुजा प्रावृट्कालमुपस्थितम्।
प्रोवाच वाक्यं देवेशं सती सप्रणयं तदा ॥१६॥

विवान्ति वाता हृदयावदारणा
गर्जन्त्यमी लोयधरा महेश्वर।
स्फुरन्ति नीलाभ्रगणेषु विद्युतो
वाशन्ति केकारवमेव बर्हिणः ॥१७॥

पतन्ति धारा गगनात् परिच्युता
बका बलाकाश्च सरन्ति तोयदान्।
कदम्बसर्ज्जार्जुनकेतकीद्रुमाः
पुष्पाणि मुञ्चन्ति सुमारुताहताः ॥१८॥

श्रुत्वैव मेघस्य दृढं तु गर्जितं
त्यजन्ति हंसाश्च सरांसि तत्क्षणात्।
यथाश्रयान् योगिगणः समन्तात्
प्रवृद्धमूलानपि संत्यजन्ति ॥१९॥

इमानि यूथानि वने मृगाणां
चरन्ति धावन्ति रमन्ति शंभो।
तथाऽचिराभाः सुतरां स्फुरन्ति
पश्येह नीलेषु घनेषु देव।
नूनं समृद्धिं सलिलस्य दृष्ट्वा
चरन्ति शूरास्तरुणद्रुमेषु ॥२०॥

उद्‌वृत्तवेगाः सहसैव निम्नगा
जाताः शशङ्काङ्कितचारुमैले।
किमत्र चित्रं यदनुज्ज्वलं जनं
निषेव्य योषित् भवति त्वशीला ॥२१॥

नीलैश्च मेघैश्च समावृतं नभः
पुष्पैश्च सर्ज्जा मुकुलैश्च नीपाः।
फलैश्च बिल्वाः पयसा तथापगाः
पत्रैः सपद्मैश्च महासरांसि ॥२२॥

काले सुरौद्रे ननु ते ब्रवीमि।
गृहं कुरुष्वात्र महाचजलोत्तमे
सुनिर्वृता येन भवामि शंभो ॥२३॥

इत्थं त्रिनेत्रः श्रुतिरामणीयकं श्रुत्वा वचो वाक्यमिदं बभाषे।
न मेऽस्ति वित्तं गृहसंचयार्थे मृगारिचर्मावरणं मम प्रिये ॥२४॥

ममोपवीतं भुजगेश्वरः शुभे कर्णेऽपि पद्मश्च तथैव पिङ्गलः।
केयूरमेकं मम कम्बलस्त्वहिर्द्वितीयमन्यो भुजगो धनंजयः ॥२५॥

नागस्तथैवाश्वतरो हि कङ्कणं सव्येतरे तक्षक उत्तरे तथा।
नीलोऽपि नीलाञ्जनतुल्यवर्णः श्रोणीतटे राजति सुप्रतिष्ठः ॥२६॥

पुलस्त्य उवाच
इति वचनमथोग्रं शंकरात्सा मृडानी ऋतमपि तदसत्यं श्रीमदाकर्ण्य भीता।
अवनितलमवेक्ष्य स्वामिनो वासकृच्छ्रात् परिवदति सरोषं लज्जयोच्छ्वस्य चोष्णम् ॥२७॥

देव्युवाच
कथं हि देवदेवेश प्रावट्कालो गमिष्यति।
वृक्षमूले स्थिताया मे सुदुःखेन वदाम्यतः ॥२८॥

शङ्कर उवाच
घनावस्थितदेहायाः प्रावृट्कालः प्रयास्यति।
यथाम्बुधारा न तव निपतिष्यन्ति विग्रहे ॥२९॥

पुलस्त्य उवाच
ततो हरस्तद्घनखण्डमुन्नत
मारुह्य तस्थौ सह दक्षकन्यया
ततोऽभवन्नाम तदेश्वरस्य
जीमूतकेतुस्त्विति विश्रुतं दिवि ॥३०॥

इति श्रीवामनपुराणे  प्रथमोऽध्यायः  ॥

N/A


References : N/A
Last Updated : September 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.