संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय २ रा

वामनपुराण - अध्याय २ रा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


पुलस्त्य उवाच
ततस्त्रिनेत्रस्य गतः प्रावृट्कालो घनोपरि।
लोकानन्दकरी रम्या शरत् समभवन्मुने ॥१॥

त्यजन्ति नीलाम्बुधरा नभस्तलं वृक्षांश्च कङ्काः सरितस्तटानि।
पद्माः सुगन्धं निलयानि वायसा रुरुर्विषाणं कलुषं जलाशयः ॥२॥

विकासमायन्ति त पङ्कजानि चन्द्रांशवो भान्ति लताः सुपुष्पाः।
नन्दन्ति हृष्टान्यपि गोकुलानि सन्तश्च संतोषमनुव्रजन्ति ॥३॥

सरस्सु पद्म गगने च तारका जलाशयेष्वेव तथा पयांसि।
सतां च चित्तं हि दिशां मुखैः समं
वैमल्यमायान्ति शशङ्ककान्तयः ॥४॥

एतादृशे हरः काले मेघपृष्ठाधिवासिनीम्।
सतीमादाय शैलेन्द्रं मन्दरं समुपाययौ ॥५॥

ततो मन्दरपृष्ठेऽसौ स्थितः समशिलातले।
रराम शंभुर्भगवान् सत्या सह महाद्युतिः ॥६॥

ततो व्यतीते शरदि प्रतिबुद्धे च केशवे।
दक्षः प्रजापतिश्रेष्ठो यष्टुमारभत क्रतुम् ॥७॥

द्वादशेव स चादित्यान् शक्रादींश्च सुरोत्तमान्।
सकश्यपान् समामन्त्र्य सदस्यान् समचीकरत् ॥८॥

अरुन्धत्या च सहितं वसिष्ठं शंसितव्रतम्।
सहानसूययाऽत्रिं च सह धृत्या च कौशिकम् ॥९॥

अहल्यया गौतमं च भरद्वाजममायया।
चन्द्रया सहितं ब्रह्मन्नृषिमङ्गिरसं तथा ॥१०॥

आमन्त्र्य कृतवान्दक्षः सदस्यान् यज्ञसंसदि।
विद्वान् गुणसंपन्नान् वेदवेदाड्गपारगान् ॥११॥

धर्मं च स समाहूय भार्ययाऽहिंसया सह।
निमन्त्र्य यज्ञवाटस्य द्वारपालत्वमादिशत् ॥१२॥

अरिष्टनेमिनं चक्रे इध्माहरणकारिणम्।
भृगुं च मन्त्रसंस्कारे सम्यग् दक्षं प्रयुक्तवान् ॥१३॥

तथा चन्द्रमसं देवं रोहिण्या सहितं शुचिम्।
धनानामाधिपत्ये च युक्तवान् हि प्रजापतिः ॥१४॥

जामातृदुहितुश्वैव दौहित्रांश्च प्रजापतिः।
सशंकरां सतीं मुक्त्वा मखे सर्वान् न्यमन्त्रयत् ॥१५॥

नारद उवाच
किमर्थं लोकपतिना धनाध्यक्षो महेश्वरः।
ज्येष्ठः श्रेष्ठो वरिष्ठोऽपि आद्योऽपि न निमन्त्रितः ॥१६॥

पुलस्त्य उवाच
ज्येष्ठः श्रेष्ठो वरिष्ठोऽपि आद्योऽपि भगवान् शिवः।
कपालीति विदित्वेशो दक्षेण न निमन्त्रितः ॥१७॥

नारद उवाच
किमर्थं देवताश्रेष्ठः शूलपाणिस्त्रिलोचनः
कपाली भगवाञ्जातः कर्मणा केन शंकरः ॥१८॥

श्रृणुष्वावहितो भूत्वा कथामेतां पुरातनीम्।
प्रोक्तमादिपुराणे च ब्रह्मणाऽव्यक्तमूर्त्तिना ॥१९॥

पुरा त्वेकार्णवं सर्वं जगत्स्थावरजङ्गमम्।
नष्टचन्द्रार्कनक्षत्रं प्रणष्टपवनानलम् ॥२०॥

अप्रतर्क्यमविज्ञेयं भावाभावविवर्जितम्।
निमग्नपर्वततरु तमोभूतं सुदुर्दशम् ॥२१॥

तस्मिन् स शेते भगवान् निद्रां वर्षसहस्रिकीम्।
रात्र्यन्ते सृजते लोकान् राजसं रूपमास्थितः ॥२२॥

राजसः पञ्चवदनो वेदवेदाङ्गपारगः।
स्रष्टा चराचरस्यास्य जगतोऽद्भुतदर्शनः ॥२३॥

तमोमयस्तथैवान्यः समुद्भूतस्त्रिलोचनः।
शूलपाणिः कपर्द्दी च अक्षमालां च दर्शयन् ॥२४॥

ततो महात्मा ह्यसृजदहंकारं सुदारुणम्।
येनाक्रान्तावुभौ देवौ तावेव ब्रह्मशंकरौ ॥२५॥

अहंकारावृतो रुद्रः प्रत्युवाच पितामहम्।
को भवानिह संप्राप्तः केन सृष्टोऽसि मां वद ॥२६॥

पितामहोऽप्यहंकारात् प्रत्युवाचाथ को भवान्।
भवतो जनकः कोऽत्र जननी वा तदुच्यताम् ॥२७॥

इत्यन्योन्यं पुरा ताभ्यां ब्रह्मेशाभ्यां कलिप्रिय।
परिवादोऽभवत् तत्र उत्पत्तिर्भवतोऽभवत् ॥२८॥

भवानप्यन्तरिक्षं हि जातमात्रस्तदोत्पतत्।
धारयन्नतुलां वीणां कुर्वन् किलकिलाध्वनिम् ॥२९॥

ततो विनिर्जितः शंभुर्मानिना पद्मयोनिना।
तस्थावधोमुखो दीनो ग्रहाक्रान्तो यथा शशी ॥३०॥
पराजिते लोकपतौ देवेन परमेष्टिना।
क्रोधान्धकारितं रुद्रं पञ्चमोऽथ मुखोऽब्रवीत् ॥३१॥

अहं ते प्रतिजानामि तमोमूर्तो त्रिलोचन।
दिग्वासा वृषभारूढो लोकक्षयकरो भवान् ॥३२॥

इत्युक्ताः शंकरः क्रुद्धो वदनं घोरचक्षुषा।
निर्दग्धुकामस्त्वनिशं ददर्श भगवानजः ॥३३॥

ततस्त्रिनेत्रस्य समुद्भवन्ति वक्त्राणि पञ्चाथ सुदर्शनानि।
श्वेतं च रक्तं कनकावदातं नीलं तथा पिङ्गजटं च शुभ्रम् ॥३४॥

वक्त्राणि दृष्ट्वाऽर्कसमानि सद्यः पैतामहं वक्त्रमुवाच वाक्यम्।
समाहतस्याथ जलस्य बुद्बुदा भवन्ति किं तेषु पराक्रमोऽस्ति ॥३५॥

तच्छ्रुत्वा क्रोधयुक्तेन शंकरेण महात्मना।
नखाग्रेण शिरश्छिन्नं ब्राह्‌मं परुषवादिनम् ॥३६॥

तच्छिन्नं शंकरस्यैव सव्ये करतलेऽपतत्।
पतते न कदाचिच्च तच्छंकरकराच्छिरः ॥३७॥

अथ क्रोधावृतेनापि ब्रह्मणाऽद्भुतकर्मणा।
सृष्टस्तु पुरुषो धीमान् कवची कुण्डली शरी ॥३८॥

धनुष्पाणिर्महाबाहुर्बाणशक्तिधरोऽव्ययः।
चतुर्भुजो महातूणी आदित्यसमदर्शनः ॥३९॥

स प्राह गच्छ दुर्बुद्धे मा त्वां शूलिन् निपातये।
भवान् पापसमायुक्तः पापिष्ठं को जिघांसति ॥४०॥

इत्युक्ताः शंकरस्तेन पुरुषेण महात्मना।
त्रपायुक्तो जगामाथ रुद्रो बदरिकाश्रमम् ॥४१॥

नरनारायणस्थानं पर्वते हि हिमाश्रये।
सरस्वती यत्र पुण्या स्यन्दते सरितां वरा ॥४२॥

तत्र गत्वा च तं दृष्ट्वा नारायणमुवाच ह।
भिक्षां प्रयच्छ भगवन् महाकापालिकोऽस्मि भोः ॥४३॥

इत्युक्तो धर्मपुत्रस्तु रुद्रं वचनमब्रवीत्।
सव्यं भुजं ताडयस्व त्रिशूलेन महेश्वर ॥४४॥

नारायणवचः श्रुत्वा त्रिशूलेन त्रिलोचनः।
सव्यं नारायणभुजं ताडयामास वेगवान् ॥४५॥

त्रिशूलाभिहतान्मार्गात् तिस्रो धारा विनिर्ययुः।
एका गगनमाक्रम्य स्थिता ताराभिमण्डिता ॥४६॥

द्वितीया न्यपतद् भूमौ तां जग्राह तपोधनः।
अत्रिस्तस्मात् समुद्भूतो दुर्वासाः शंकरांशतः ॥४७॥

तृतीया न्यपतद् धारा कपाले रौद्रदर्शने।
तस्माच्छिशुः समभवत् सन्नद्धकवचो युवा ॥४८॥

श्यामावदातः शरचापपाणिर्गर्जन्यथा प्रावृषि तोयदोऽसौ।
इत्थं ब्रुवन् कस्य विशातयामि स्कन्धाच्छिरस् तालफलं यथैव ॥४९॥

तं शंकरोऽभ्येत्य वचो बभाषे नरं हि नारायणबाहुजातम्।
निपातयैनं नर दुष्टवाक्यं ब्रह्मात्मजं सूर्यशतप्रकाशम् ॥५०॥

इत्येवमुक्तः स तु शंकरेण आद्यं धनुस्त्वाजगवं प्रसिद्धम्।
जग्राह तूणानि तथाऽक्षयाणि युद्धाय वीरः स मतिं चकार ॥५१॥

ततः प्रयुद्धौ सुभृशं महाबलौ ब्रह्मात्मजो बाहुभवश्च शार्वः।
दिव्यं सहस्रं परिवत्सराणां ततो हरोऽभ्येत्य विरञ्चिमूचे ॥५२॥

जितस्त्वदीयः पुरुषः पितामह नरेण दिव्यद्भुतकर्मणा बली।
महापृषत्कैरभिपत्य ताडितस्तदद्भुतं चेह दिशो दशैव ॥५३॥

ब्रह्मा तमीशं वचनं बभाषे नेहास्य जन्मान्यजितस्य शंभो।
पराजितश्चेष्यतेऽसौ त्वदीयो नरो मदीयः पुरुषो महात्मा ॥५४॥

इत्येवमुक्तो वचनं त्रिनेत्रश्चिक्षेप सूर्ये पुरुषं विरिञ्चेः।
नरं नरस्यैव तदा स विग्रहे चिक्षेप धर्मप्रभवस्य देवः ॥५५॥

इति श्रीवामनपुराणे द्वितीयोध्यायः ॥२॥

N/A


References : N/A
Last Updated : September 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.