संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय ८ वा

वामनपुराण - अध्याय ८ वा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


पुलस्त्य उवाच
शार्ङ्गपाणिनमायान्तं दृष्ट्वाऽग्रे दानवेश्वरः।
परिभ्राम्य गदां वेगात् मूर्ध्नि साध्यमताडयत् ॥१॥

ताडितस्याथ गदया धर्मपुत्रस्य नारद।
नेत्राभ्यामपतद् वारि वह्निवर्षनिभं भुवि ॥२॥

मूर्ध्नि नारायणस्यापि सा गदा दानवार्पिता।
जगाम शतधा ब्रह्मञ्शैलश्रृङ्गे यथाऽशनिः ॥३॥

ततो निवृत्य दैत्येन्द्रः समास्थाय रथं द्रुतम्।
आदाय कार्मुकं वीरस्तूणद् बाणं समाददे ॥४॥

आनम्य चापं वेगेन गार्द्धपत्राञ्शिलीमुखान्।
मुमोच साध्याय तदा क्रोधान्धकारिताननः ॥५॥

तानापतत एवाशु बाणांश्चन्द्रार्द्धसन्निभान्।
चिच्छेद बाणैरपरैर्निर्बिभेद च दानवम् ॥६॥

ततो नारायणं दैत्यो दैत्यं नारायणः शरैः।
आविध्येतां तदाऽन्योन्यं मर्मभिद्भिरजिह्मगैः ॥७॥

ततोऽम्बरे संनिपातो देवानामभवन्मुने।
दिदृक्षूणां तदा युद्धं लघु चित्रं च सुष्ठु च ॥८॥

ततः सुराणां दुन्दुभ्यस् त्ववाद्यन्त महास्वनाः।
पुष्पवर्षमनौपम्यं मुमुचुः साध्यदैत्ययोः ॥९॥

ततः पश्यत्सु देवेषु गगनस्थेषु तावुभौ।
अयुध्येतां महेष्वासौ प्रेक्षकप्रीतिवर्द्धनम् ॥१०॥

बबन्धतुस्तदाकाशं तावुभौ शरवृष्टिभिः।
दिशश्च विदिशश्चैव छादयेतां शरोत्करैः ॥११॥

ततो नारायणश्चापं समाकृष्य महामुने।
बिभेद मार्गणैस्तीक्ष्णैः प्रह्लादं सर्वमर्मसु ॥१२॥

तथा दैत्येश्वरः क्रुद्धश्चापमानम्य वेगवान्।
बिभेद हृदये बाह्वोर्वदने च नरोत्तमम् ॥१३॥

ततोऽस्यतो दैत्यपतेः कार्मुकं मुष्टिबन्धनात्।
चिच्छेदैकेन बाणेन चन्द्रार्धाकारवर्चसा ॥१४॥

अपास्यत धनुश्छिन्नं चापमादाय चापरम्।
अधिज्यं लाघवात् कृत्वा ववर्ष निशिताञ्शरान् ॥१५॥

तानप्यस्य शरान् साध्यश्छित्त्वा बाणैरवारयत्।
कार्मुकं च क्षुरप्रेण चिच्छेद पुरुषोत्तमः ॥१६॥

छिन्नं छिन्नं धनुर्दैत्यस्त्वन्यदन्यत्समाददे।
समादत्तं तदा साध्यो मुने चिच्छेद लाघवात् ॥१७॥

संछिन्नेष्वथ चापेषु जग्राह दितिजेश्वरः।
परिघं दारुणां दीर्घं सर्वलोहमयं दृढम् ॥१८॥

परिगृह्याथ परिघं भ्रामयामास दानवः।
भ्राम्यमाणं स चिच्छेद नाराचेन महामुनिः ॥१९॥

छिन्ने तु परिघे श्रीमान् प्रह्लादो दानवेश्वरः।
मुद्गरं भ्राम्य वेगेन प्रचिक्षेप नराग्रजे ॥२०॥

तमापतन्तं बलवान् मार्गणैर्दशभिर्मुने।
चिच्छेद दशधा साध्यः स छिन्नो न्यपतद् भुवि ॥२१॥

मुद्गरे वितथे जाते प्रासमाविध्य वेगवान्।
प्रचिक्षेप नराग्र्याय तं च चिच्छेद धर्मजः ॥२२॥

प्रासे छिन्ने ततो दैत्यः शक्तिमादाय चिक्षिपे।
तां च चिच्छेद बलवान् क्षुरप्रेण महातपाः ॥२३॥

छिन्नेषु तेषु शस्त्रेषु दानवोऽन्यन्महद्धनुः।
समादाय ततो बाणैरवतस्तार नारद ॥२४॥

ततो नारायणो देवो दैत्यनाथं जगद्गुरुः।
नाराचेन जघानाथ हृदये सुरतापसः ॥२५॥

संभिन्निहृदयो ब्रह्मन् देवेनाद्भुतकर्मणा।
निपपात रथोपस्थे तमपोवाह सारथिः ॥२६॥

स संज्ञां सुचिरेणैव प्रतिलभ्य दितीश्वरः।
सुदृढं चापमादाय भूयो योद्धमुपागतः ॥२७॥

तमागतं संनिरीक्ष्य प्रत्युवाच नराग्रजः।
गच्छ दैत्येन्द्र योत्स्यामः प्रातस्त्वाह्निकमाचर ॥२८॥

एवमुक्तो दितीशस्तु साध्येनाद्भुतकर्मणा।
जगाम नैमिषारण्यं क्रियां चक्रे तदाऽऽह्निकीम् ॥२९॥

एवं युध्यति देवे च प्रह्लादो ह्यसुरो मुने।
रात्रौ चिन्तयते युद्धे कथं जेष्यामि दाम्भिकम् ॥३०॥

एवं नारायणेनाऽसौ सहायुध्यत नारद।
दिव्यं वर्षसहस्रं तु दैत्यो देवं न चाजयत् ॥३१॥

ततो वर्षसहस्रान्ते ह्यजिते पुरुषोत्तमे।
पीतवाससमभ्येत्य दानवो वाक्यमब्रवीत् ॥३२॥

किमर्थं देवदेवेश साध्यं नारायणं हरिम्।
विजेतुं नाऽद्य शक्नोमि एतन्मे कारणं वद ॥३३॥

पीतवासा उवाच
दुर्जयोऽसौ महाबाहुस्त्वया प्रह्लाद धर्मजः।
साध्यो विप्रवरो धीमान् मृधे देवासुरैरपि ॥३४॥

प्रह्लाद उवाच
यद्यसौ दुर्जयो देव मया साध्यो रणाजिरे।
तत्कथं यत्प्रतिज्ञातं तदसत्यं भविष्यति ॥३५॥

हीनप्रतिज्ञो देवेश कथं जीवेत मादृशः।
तस्मात्तवाग्रतो विष्णो करिष्ये कायशोधनम् ॥३६॥

पुलस्त्य उवाच
इत्येवमुक्त्वा वचनं देवाग्रे दानवेश्वरः।
शिरःस्नातस्तदा तस्थौ गृणन् ब्रह्म सनातनम् ॥३७॥

ततो दैत्यपतिं विष्णुं पीतवासाऽब्रवीद्वचः।
गच्छ जेष्यसि भक्त्या तं न युद्धेन कथंचन ॥३८॥

प्रह्लाद उवाच
मया जितं देवदेव त्रैलोक्यमपि सुव्रत।
जितोऽयं त्वत्प्रसादेन शक्रः किमुत धर्मजः ॥३९॥

असौ यद्यजयो देव त्रैलोक्येनापि सुव्रतः।
न स्थातुं त्वत्प्रसादेव शक्यं किमु करोम्यज ॥४०॥

पीतवासा उवाच
सोऽहं दानवशार्दूल लोकानां हितकाम्यया।
धर्मं प्रवर्त्तापयितुं तपश्चर्यां समास्थितः ॥४१॥

तस्माद्यदिच्छसि जयं तमाराधय दानव।
तं पराजेष्यसे भक्त्या तस्माच्छुश्रूष धर्मजम् ॥४२॥

पुलस्त्य उवाच
इत्युक्तः पीतवासेन दानवेन्द्रो महात्मना।
अब्रवीद्वचनं हृष्टः समाहूयाऽन्धकं मुने ॥४३॥

दैत्याश्च दानवाश्चैव परिपाल्यास्त्वयान्धक।
मयोत्सृष्टमिदं राज्यं प्रतीच्छस्व महाभुज ॥४४॥

इत्येवमुक्तो जग्राह राज्यं हैरण्यलोचनिः।
प्रह्लादोऽपि तदाऽगच्छत् पुण्यं बदरिकाश्रमम् ॥४५॥

दृष्ट्वा नारायणं देवं नरं च दितिजेश्वरः।
कृताञ्जलिपुटो भूत्वा ववन्दे चरणौ तयोः ॥४६॥

तमुवाच महातेजा वाक्यं नारायणोऽव्ययः।
किमर्थं प्रणतोऽसीह मामजित्वा महासुर ॥४७॥

प्रह्लाद उवाच
कस्त्वां जेतुं प्रभो शक्तः कस्त्वत्तः पुरुषोऽधिकः।
त्वं हि नारायणोऽनन्तः पीतवासा जनार्दनः ॥४८॥

त्वं देवः पुण्डरीकाक्षस्त्वं विष्णुः शार्ङ्गचापधृक्।
त्वमव्ययो महेशानः शाश्वतः पुरुषोत्तमः ॥४९॥

त्वां योगिनश्चिन्तयन्ति चार्चयन्ति मनीषिणः।
जपन्ति स्नातकास्त्वां च यजन्ति त्वां च याज्ञिकाः ॥५०॥

त्वमच्युतो हृषीकेशश्चक्रपाणिर्धराधरः।
महामीनो हयशिरास्त्वमेव वरकच्छपः ॥५१॥

हिरण्याक्षरिपुः श्रीमान् भगवानथ सूकरः।
मत्पितुर्नाशनकरो भवानपि नृकेसरी ॥५२॥

ब्रह्म त्रिनेत्रोऽमरराड् हुताशः प्रेताधिपो नीरपतिः समीरः।
सूर्यो मृगाङ्कोऽचलजङ्गमाद्यो भवान् विभो नाथ खगेन्द्रकेतो ॥५३॥

त्वं पृथ्वी ज्योतिराकाशं जलं भूत्वा सहस्रशः।
त्वया व्याप्तं जगत्सर्वं कस्त्वां जेष्यति माधव ॥५४॥

भक्त्या यदि हृषीकेश तोषमेषि जगद्गुरो।
नान्यथा त्वं प्रशक्तोऽसि जेतुं सर्वगताव्यय ॥५५॥

भगवानुवाच
परितुष्टोऽस्मि ते दैत्य स्तवेनानेन सुव्रत।
भक्त्या त्वनन्यया चाहं त्वया दैत्य पराजितः ॥५६॥

पराजितश्च पुरुषो दैत्य दण्डं प्रयच्छति।
दण्डार्थं ते प्रदास्यामि वरं वृणु यमिच्छसि ॥५७॥

प्रह्लाद उवाच
नारायण वरं याचे यं त्वं मे दातुमर्हसि।
तन्मे पापं लयं यातु शारीरं मानसं तथा ॥५८॥

वाचिकं च जगन्नाथ यत्त्वया सह युध्यतः.
नरेण यद्यप्यभवद् वरमेतत्प्रयच्छ मे ॥५९॥

नारायण उवाच
एवं भवतु दैद्येन्द्र पापं ते यातु संक्षयम्।
द्वितीयं प्रार्थय वरं तं ददामि तवासुर ॥६०॥

प्रह्लाद उवाच
या या जायेत मे बुद्धिः सा सा विष्णो त्वदाश्रिता।
देवार्चने च निरता त्वच्चित्ता त्वत्परायणा ॥६१॥

नारायण उवाच
एवं भविष्यत्यसुर वरमन्यं यमिच्छसि।
तं वृणीष्व महाबाहो प्रदास्याम्यविचारयन् ॥६२॥

प्रह्लाद उवाच
सर्वमेव मया लब्धं त्वत्प्रसादादधोक्षज।
त्वत्पादपङ्कजाभ्यां हि ख्यातिरस्तु सदा मम ॥६३॥

एवमस्त्वपरं चास्तु नित्यमेवाक्षयोऽव्ययः।
अजरश्चामरश्चापि मत्प्रसादाद् भविष्यसि ॥६४॥

गच्छस्व दैत्यशार्दूल स्वमावासं क्रियारतः।
न कर्मबन्धो भवतो मच्चित्तस्य भविष्यति ॥६५॥

प्रशासयदमून् दैत्यान् राज्यं पालय शाश्वतम्।
स्वजातिसदृशं दैत्य कुरु धर्ममनुत्तमम् ॥६६॥

पुलस्त्य उवाच
इत्युक्तो लोकनाथेन प्रह्लादो देवमब्रवीत्।
कथं राज्यं समादास्ये परित्यक्तं जगद्गुरो ॥६७॥

तमुवाच जगत्स्वामी गच्छ त्वं निजमाश्रयम्।
हितोपदेष्टा दैत्यानां दानवानां तथा भव ॥६८॥

नारायणेनैवमुक्तः स तदा दैत्यनायकः।
प्रणिपत्य विभुं तुष्टो जगाम नगरं निजम् ॥६९॥

दृष्टः सभाजितश्चापि दानवैरन्धकेन च।
निमन्त्रितश्च राज्याय न प्रत्यैच्छत्स नारद ॥७०॥

राज्यं परित्यज्य महाऽसुरेन्द्रो नियोजयन् सत्पथि दानवेन्द्रान्।
ध्यायन् स्मरन् केशवमप्रमेयं तस्थौ तदा योगविशुद्धदेहः ॥७१॥

एवं पुरा नारद दानवेन्द्रो नारायणेनोत्तमपूरुषेण।
पराजितश्चापि विमुच्य राज्यं तस्थौ मनो धातरि सन्निवेश्य ॥७२॥

इति श्रीवामनपुराणे अष्टमोऽध्यायः ॥८॥

N/A


References : N/A
Last Updated : September 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.