संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय ८६ वा

वामनपुराण - अध्याय ८६ वा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


पुलस्त्य उवाच॥
कश्चिदासीद् द्विजद्रोग्धा पिशुनः क्षत्रियाधमः।
परपीडारुचिः क्षुद्रः स्वभावादपि निर्घृणः ॥१॥

पर्यासिताः सदा तेन पितृदेवद्विजातयः।
स त्वायुषि परिक्षीणे जज्ञे घोरो निशाचरः ॥२॥

तेनैव कर्मदोषेण स्वेन पापकृतां वरः।
क्रूरैश्चक्रे ततो वृत्तिं राक्षसत्वाद् विशेषतः ॥३॥

तस्य पापरतस्यैवं जग्मुर्वर्षशतानि तु।
तेनैव कर्मदोषेण नान्यां वृत्तिमरोचयत् ॥४॥

यं यं पश्यति सत्त्वं स तं तमादाय राक्षसः।
चखाद रौद्रकर्मासौ बाहुगोचरमागतम् ॥५॥

एवं तस्यातिदुष्टस्य कुर्वतः प्राणिनां वधम्।
जगाम च महान् कालः परिणामं तथा वयः ॥६॥

स कदाचित् तपस्यन्तं ददर्श सरितस्तटे।
महाभागमूर्ध्वभुजं यथावत्संयतेन्द्रियम् ॥७॥

अनया रक्षया ब्रह्मन् कृतरक्षं तपोनिधिम्।
योगाचार्यं शुचिं दक्षं वासुदेवपरायणम् ॥८॥

विष्णुः प्राच्यां स्तितश्चक्री विषणुर्दक्षिणतो गदी।
प्रतीच्यां शार्ङ्गधृग्विष्णुर्विष्णुः खड्गी ममोत्तरे ॥९॥

हृषीकेशो विकोणेषु तच्छिद्रेषु जनार्दनः।
क्रोडरूपी हरिर्भूमौ नारसिंहोऽम्बरे मम ॥१०॥

क्षुरान्तममलं चक्रं भ्रमत्येतत् सुदर्शनम्।
अस्यांशुमाला दुष्प्रेक्ष्या हन्तुं प्रेतनिशाचरान् ॥११॥

गदा चेयं सहस्रार्चिरुद्वमन् पावको यथा।
रक्षोभूतपिशाचानां डाकिनीनां च शातनी ॥१२॥

शार्ङ्ग विस्फूर्जितं चैव वासुदेवस्य मद्रिपून्।
तिर्यङ्मनुष्यकूष्माण्डप्रेतादीन् हन्त्वशेषतः ॥१३॥

खड्गधाराज्वलज्ज्योत्स्ना निर्धूता ये ममाहिताः।
ते यान्तु सौम्यतां सद्यो गरुडेनेव पन्नगाः ॥१४॥

ये कूष्माण्डास्तथा यक्षा दैत्या ये च निशाचराः।
प्रेता विनायकाः क्रूरा मनुष्या जृम्भकाः खगाः ॥१५॥

सिंहादयो ये पशवो दन्दशूकाश्च पन्नगाः।
सर्वे भवन्तु मे सौम्या विष्णुचक्ररवाहताः ॥१६॥

चित्तवृत्तिहरा ये च ये जनाः स्मृतिहारकाः।
बलौजसां च हर्तारश्छायाविध्वंसकाश्च ये ॥१७॥

ये चोपभोगहर्तारो ये च लक्षणनाशकाः।
कूष्माण्डास्ते प्रणश्यन्तु विष्णुचक्ररवाहताः ॥१८॥

बुद्धिस्वास्थ्यं मनःस्वास्थ्यं स्वास्थमैन्द्रियकं तथा।
ममास्तु देवदेवस्य वासुदेवस्य कीर्तनात् ॥१९॥

पृष्ठे पुरस्तादथ दक्षिणोत्तरे विकोणतश्चास्तु जनार्दनो हरिः।
तमीड्यमीशानमनन्तमच्युतं जनार्दनं प्रणिपतितो न सीदति ॥२०॥

यथा परं ब्रह्म हरिस्तथा परं जगत्स्वरूपश्च स एव केशवः।
ऋतेन तेनाच्युतनामकीर्तनात्प्रणाशमेतु त्रिविधं ममाशुभम् ॥२१॥

इत्यसावात्मरक्षार्थं कृत्वा वै विष्णुपञ्जरम्।
संस्थितोऽसावपि बली राक्षसः समुपाद्रवत् ॥२२॥

ततो द्विजनियुक्तायां रक्षायां रजनीचरः।
निर्धूतवेगः सहसा तस्थौ मासचतुष्टयम् ॥२३॥

यावद् द्विजस्य देवर्षे समाप्तिर्वै समाधितः।
जाते जप्यावसानेऽसौ तं ददर्श निशाचरम् ॥२४॥

दीनं हतबालोत्साहं कान्दिशीकं हतौजसम्।
तं दृष्ट्वा कृपयाविष्टः समाश्वास्य निशाचरम् ॥२५॥

पप्रच्छागमने हेतुं स चाचष्ट यथातथम्।
स्वभावमात्मनो द्रष्टुं रक्षया तेजसः क्षितिम् ॥२६॥

कथयित्वा च तद्रक्षः कारणं विविधं ततः।
प्रसीदेत्यब्रवीद् विप्रं निर्विण्णाः स्वेन कर्मणा ॥२७॥

बहूनि पापानि मया कृतानि बहवो हताः।
कृताः स्त्रियो मया बह्व्यो विधवाः पुत्रवर्जिताः ॥२८॥

अनागसां च सत्त्वानामल्पकानां क्षयः कृतः ।
तस्मात् पापादहं मोक्षमिच्छमि त्वत्प्रसादतः ॥२९॥

पापप्रशमनायालं कुरु मे धर्मदेशनम् ॥३०॥
पापस्यास्य क्षयकरमुपदेशं प्रयच्छ मे।

तस्य तद् वचनं श्रुत्वा राक्षसस्य द्विजोत्तमः ॥३०॥
वचनं प्राह धर्मात्मा हेतुमच्च सुभाषितम्।

कथं क्रूरस्वभावस्य सतस्तव निशाचर।
सहसैव समायाता जिज्ञासा धर्मवर्त्मनि ॥३१॥

राक्षस उवाच॥
त्वां वै समागतोऽस्म्यद्य क्षिप्तोऽहं रक्षया बलात्।
तव संसर्गतो ब्रह्मन् जातो निर्वेद उत्तमः ॥३२॥

का सा रक्षा न तां वेद्मि वेद्मि नास्याः परायणम्।
यस्याः संसर्गमासाद्य निर्वेदं प्रापितं परम् ॥३३॥

त्वं कृपां कुरु धर्मज्ञ मय्यनुक्रोशमावह।
यथा पापापनोदो मे भवत्यार्य तथा कुरु ॥३४॥

पुलस्त्य उवाच॥
इत्येवमुक्तः स मुनिस्तदा वै तेन रक्षसा।
प्रत्युवाच महाभागो विमृश्य सुचिरं मुनिः ॥३५॥

ऋषिरुवाच॥
यन्ममाहोपदेशार्थं निर्विण्णाः स्वेन कर्मणा।
युक्तमेतद्धि पापानां निवृत्तिरुपकारिका ॥३६॥

करिष्ये यातुधानानां नत्वहं धर्मदेशनम्।
तान् संपृच्छ द्विजान् सौम्य ये वै प्रवचने रताः ॥३७॥

एवमुक्त्वा ययौ विप्रश्चिन्तामाप स राक्षसः।
कथं पापापनोदः स्यादिति चिन्ताकुलेन्द्रियः ॥३८॥

न चखाद स सत्त्वानि क्षुधा संबाधितोऽपि सन्।
षष्ठे षष्ठे तदा काले जन्तुमेकमभक्षयत् ॥३९॥

स कदाचित्क्षुधाविष्टः पर्यटन् विपुले वने।
ददर्शाथ फलाहारमागतं ब्रह्मचारिणम्। ॥४०॥

गृहीतो रक्षसा तेन स तदा मुनिदारकः।
निराशो जीविते प्राह सामपूर्वं निशाचरम् ॥४१॥

ब्राह्मण उवाच॥
भो भद्र ब्रूहि यत् कार्यं गृहीतो येन हेतुना।
तदनुब्रूहि भद्रं ते अयमस्म्यनुशाधि माम् ॥४२॥

राक्षस उवाच॥
षष्ठे काले त्वमाहारः क्षुधितस्य समागतः।
निःश्रीकस्यातिपापस्य निर्घृणस्य द्विजद्रुहः ॥४३॥

ब्राह्मण उवाच॥
यद्यवश्यं त्वया चाहं भक्षितव्यो निशाचर।
आयास्यामि तवाद्यैव निवेद्य गुरवे फलम् ॥४४॥

गुर्वर्थमेतदागत्य यत्फलग्रहणं कृतम्।
ममात्र निष्ठा प्राप्तस्य फलानि विनिवेदितुम् ॥४५॥

स त्वं मुहूर्तमात्रं मामत्रैवं प्रतिपालय।
निवेद्य गुरवे यावदिहागच्छाम्यहं फलम् ॥४६॥

राक्षस उवाच॥
षष्ठे काले न मे ब्रह्मन् कश्चिद् ग्रहणमागतः।
प्रतिमुच्येत देवोऽपि इति मे पापाजीविका ॥४७॥

एक एवात्र मोक्षस्य तव हेतुः श्रृणुष्व तत्।
मुञ्चाम्यहमसंदिग्धं यदि तत्कुरुते भवान् ॥४८

ब्राह्मण उवाच॥
गुरोर्यन्न विरोधाय यन्न धर्मोपरोधकम्।
तत्करिष्याम्यहं रक्षो यन्न व्रतहरं मम ॥४९॥

राक्षस उवाच॥
मया निसर्गतो ब्रह्मन् जातिदोषाद् विशेषतः।
निर्विवेकेन चित्तेन पापकर्म सदा कृतम् ॥५०॥

आबाल्यान्मम पापेषु न धर्मेषु रतं मनः।
तत्पापासंक्षयान्मोक्षं प्राप्नुयां येन तद् वद ॥५१

यानि पापानि कर्माणि बालत्वाच्चरितानि च।
दुष्टां योनिमिमां प्राप्य तन्मुक्तिं कथय द्विज ॥५२॥

यद्येतद् द्विजपुत्र त्वं समाख्यास्यस्यशेषतः।
ततः क्षुधार्तान्मत्तस्त्वं नियतं मोक्षमाप्स्यसि ॥५३॥

न चेत् तत्पापशीलोऽहमत्यर्थं क्षुत्पिपासितः।
षष्ठे काले नृशंसात्मा भक्षयिष्यामि निर्घृणः ॥५४॥

पुलस्त्य उवाच॥
एवमुक्तो मुनिसुतस्तेन घोरेण रक्षसा।
चिन्तामवाप महतीमशक्तस्तदुदीरणे ॥५५॥

स विमृश्य चिरं विप्रः शरणं जातवेदसम्।
जगाम ज्ञानदानाय संशयं परमं गतः ॥५६॥

यदि शुश्रूषितो वह्निर्गुरुशुश्रूषणादनु।
व्रतानि वा सुचीर्णानि सप्तार्चिः पातु मां ततः ॥५७॥

न मातरं न पितरं गौरवेण यथा गुरुम्।
सर्वदैवावगच्छामि तथा मां पातु पावकः ॥५८॥

यथा गुरुं न मनसा कर्मणा वचसाऽपि वा।
अवजानाम्यहं तेन पातु सत्येन पावकः ॥५९॥

इत्येवं मनसा सत्यान् कुर्वतः शपथान् पुनः।
सप्तर्चिषा समादिष्टा प्रादुरासीत् सरस्वती ॥६०॥

सा प्रोवाच द्विजसुतं राक्षसग्रहणाकुलम्।
मा भैर्द्विजसुताहं त्वां मोक्षयिष्यामि संकटात् ॥६१॥

यदस्य रक्षसः श्रेयो जिह्वाग्रे संस्थिता तव।
तत् सर्वं कथयिष्यामि ततो मोक्षमवाप्स्यसि ॥६२॥

अदृश्या रक्षसा तेन प्रोक्त्वेत्थं सा सरस्वती।
अदर्शनं गता सोऽपि द्विजः प्राह निशाचरम् ॥६३॥

ब्राह्मण उवाच॥
श्रूयतां तव यच्छ्रेयस्तथाऽन्येषां च पापिनाम्।
समस्तपापशुद्ध्यर्थं पुण्योपचयदं च यत् ॥६४॥

प्रातरुत्थाय जप्तव्यं मध्याह्नेऽह्नः क्षयेऽपि वा।
असंशयं सदा जप्यो जपतां पुष्टिशान्तिदः ॥६५॥

ॐ हरिं कुष्णं हृषीकेशं वासुदेवं जनार्दनम्।
प्रणतोऽस्मि जगन्नाथं स मे पापं व्यपोहतु ॥६६॥

चराचरगुरुं नाथं गोविन्दं शेषशायिनम्।
प्रणतोऽस्मि परं देवं स मे पापं व्यपोहतु ॥६७॥

शङ्खिनं चक्रिणं शार्ङ्गधारिणं स्रग्धरं परम्।
प्रणतोऽस्मि पतिं लक्ष्म्याः स मे पापं व्यपोहतु ॥६८॥

दामोदरमुदाराक्षं पुण्डरीकाक्षमच्युतम्।
प्रणतोऽस्मि स्तुतं स्तुत्यैः स मे पापं व्यपोहतु ॥६९॥

नारायणं नरं शौरिं माधवं मधुसूदनम्।
प्रणतोऽस्मि धराधारं स मे पापं व्यपोहतु ॥७०

केशवं चन्द्रसूर्याक्षं कंसकेशिनिषूदनम्।
प्रणतोऽस्मि महाबाहुं स मे पापं व्यपोहतु ॥७१॥

श्रीवत्सवक्षसं श्रीशं श्रीधरं श्रीनिकेतनम्।
प्रणतोऽस्मि श्रियः कान्तं स मे पापं व्यपोहतु ॥७२॥

यमीशं सर्वभूतानां ध्यायन्ति यतयोऽक्षरम्।
वासुदेवमनिर्देश्यं तमस्मि शरणं गतः ॥७३॥

समस्तालम्बनेभ्यो यं व्यावृत्त्य मनसो गतिम्।
ध्यायन्ति वासुदेवाख्यं तमस्मि शरणं गतः ॥७४॥

सर्वगं सर्वभूतं च सर्वस्याधारमीश्वरम्।
वासुदेवं परं ब्रह्म तमस्मि शरणं गतः ॥७५॥

परमात्मानमव्यक्तं यं प्रयान्ति सुमेधसः।
कर्मक्षयेऽक्षयं देवं तमस्मि शरणं गतः ॥७६॥

पुण्यपापविनिर्मुक्ता यं प्रविश्य पुनर्भवम्।
न योगिनः प्राप्नुवन्ति तमस्मि शरणं गतः ॥७७॥

ब्रह्म भूत्वा जगत् सर्वं सदेवासुरमानुषम्।
यः सृजत्यच्युतो देवस्तमस्मि शरणं गतः ॥७८॥

ब्रह्मत्वे यस्य वक्त्रेभ्यश्चतुर्वेदमयं वपुः।
प्रभुः पुरातनो जज्ञे तमस्मि शरणं गतः ॥७९॥

ब्रह्मरूपधरं देवं जगद्योनिं जनार्दनम्।
स्रष्टृत्वे संस्थितं सृष्टौ प्रणतोऽस्मि सनातनम् ॥८०॥

स्रष्टा भूत्वा स्थितो योगी स्थितावसुरसूदनः।
तमादिपुरुषं विष्णुं प्रणतोऽस्मि जनार्दनम् ॥८१॥

धृता मही हता दैत्याः परित्रातास्तथा सुराः।
येन तं विष्णुमाद्येशं प्रणतोऽस्मि जनार्दनम् ॥८२॥

यज्ञैर्यजन्ति यं विप्रा यज्ञेशं यज्ञभावनम्।
तं यज्ञपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ॥८३॥

पातालवीथीभूतानि तथा लोकान् निहन्ति यः।
तमन्तपुरुषं रुद्रं प्रणतोऽस्मि सनातनम् ॥८४॥

संभक्षयित्वा सकलं यथासृष्टमिदं जगत्।
यो वै नृत्यति रुद्रात्मा प्रणतोऽस्मि जनार्दनम् ॥८५॥

सुरासुराः पितृगणाः यक्षगन्धर्वराक्षसाः।
संभूता यस्य देवस्य सर्वगं तं नमाम्यहम् ॥८६॥

समस्तदेवाः सकला मनुष्याणां च जातयः।
यस्यांशभूता देवस्य सर्वगं तं नतोऽस्म्यहम् ॥८७॥

वृक्षगुल्मादयो यस्य तथा पशुमृगादयः।
एकांशभूता देवस्य सर्वगं तं नमाम्यहम् ॥८८॥

यस्मान्नान्यत् परं किंचिद् यस्मिन् सर्वं महात्मनि।
यः सर्वमध्यगोऽनन्तः सर्वगं तं नमाम्यहम् ॥८९॥

यथा सर्वेषु भूतेषु गूढोऽग्निरिव दारुषु।
विष्णुरेवं तथा पापं ममाशेषं प्रणश्यतु ॥९०॥

यथा विष्णुमयं सर्वं ब्रह्मादि सचराचरम्।
यच्च ज्ञानपरिच्छेद्यं पापं नश्यतु मे तथा ॥९१॥

शुभाशुभानि कर्माणि रजःसत्त्वतमांसि च।
अनेकजन्मकर्मोत्थं पापं नश्यतु मे तथा ॥९२॥

यन्निशायां च यत्प्रातर्यन्मध्याह्नापराह्‌णयोः।
संध्ययोश्च कृतं पापं कर्मणा मनसा गिरा ॥९३॥

यत् तिष्ठता यद् व्रजता यच्च शय्यागतेन मे।
कृतं यदशुभं कर्म कायेन मनसा गिरा ॥९४॥

अज्ञानतो ज्ञानतो वा मदाच्चलितमानसैः।
तत् क्षिप्रं विलयं यातु वासुदेवस्य कीर्तनात् ॥९५॥

परदारपरद्रव्यवाञ्छाद्रोहोद्भवं च यत्।
परपीडोद्भवां निन्दां कुर्वता यन्महात्मनाम् ॥९६॥

यच्च भोज्ये तथा पेये भक्ष्ये चोष्ये विलेहने।
तद् यातु विलयं तोये यथा लवणभाजनम् ॥९७॥

यद् बाल्ये यच्च कौमारे यत् पापं यौवने मम।
वयः परिणतौ यच्च यच्च जन्मातरे कृतम् ॥९८॥

तन्नारायण गोविन्द हरिकृष्णेश कीर्तनात्।
प्रयातु विलयं तोये यथा लवणभाजनम् ॥९९॥

विष्णवे वासुदेवाय हरये केशवाय च।
जनार्दनाय कृष्णाय नमो भूयो नमो नमः ॥१००॥

भविष्यन्नरकघ्नाय नमः कंसविघातिने।
अरिष्टकेशिचाणूरदेवारिक्षयिणे नमः ॥१०१॥

कोऽन्यो बलेर्वञ्चयिता त्वामृते वै भविष्यति।
कोऽन्यो नाशयति बलाद् दर्पं हैहयभूपतेः ॥१०२॥

कः करिष्यत्यथाऽन्यो वै सागरे सेतुबन्धनम्।
वधिष्यति दशग्रीवं कः सामात्य पुरःसरम् ॥१०३॥

कस्त्वामृतेऽन्यो नन्दस्य गोकुले रतिमेष्यति।
प्रलम्बपूतनादीनां त्वामृते मधुसूदन।
निहन्ताऽप्यथवा शास्ता देवदेव भविष्यति ॥१०४॥

जपन्नेवं नरः पुण्यं वैष्णवं धर्ममुत्तमम्।
इष्टानिष्टप्रसंगेभ्यो ज्ञानतोऽज्ञानतोऽपि वा ॥१०५॥

कृतं तेन तु यत् पापं सप्तजन्मान्तराणि वै।
महापातकसंज्ञं वा तथा चैवोपपातकम् ॥१०६॥

यज्ञादीनि च पुण्यानि जपहोमव्रतानि च।
नाशयेद् योगिनां सर्वमामपात्रमिवाम्भसि ॥१०७॥

नरः संवत्सरं पूर्णं तिलपात्राणि षोडश।
अहन्यहनि यो दद्यात् पठत्येतच्च तत्समम् ॥१०८॥

अविलुप्तब्रह्मचर्यं संप्राप्य स्मरणं हरेः।
विष्णुलोकमवाप्नोति सत्यमेतन्मयोदितम् ॥१०९॥

यथैतत् सत्यमुक्तं मे न ह्यल्पमपि मे मृषा।
राक्षसस्त्रस्तसर्वाङ्गं तथा मामेष मुञ्चतु ॥११०॥

पुलस्त्य उवाच॥
एवमुच्चारिते तेन मुक्तो विप्रस्तु रक्षसा।
अकामेन द्विजो भूयस्तमाह रजनीचरम् ॥१११॥

ब्राह्मण उवाच॥
एतद् भद्र मया ख्यातं तव पातकनाशनम्।
विष्णोः सारस्वतं स्तोत्रं यज्जगाद सरस्वती ॥११२॥

हुताशनेन प्रहिता मम जिह्वाग्रसंस्थिता।
जगादैनं स्तवं विष्णोः सर्वेषां चोपशान्तिदम् ॥११३॥

अनेनैव जगन्नाथं त्वमाराधय केशवम्।
ततः शापापनोदं तु स्तुते लप्स्यसि केशवे ॥११४॥

अहर्निशं हृषीकेशं स्तवेनानेन राक्षस।
स्तुहि भक्तिं दृढां कृत्वा ततः पापाद् विमोक्ष्यसे ॥११५॥

स्तुतो हि सर्वपापानि नाशयिष्यत्यसंशयम्।
स्तुतो हि भक्त्या नॄणां वै सर्वपापहरो हरिः ॥११६॥

पुलस्त्य उवाच॥
ततः प्रणम्य तं विप्रं प्रसाद्य स निशाचरः।
तदैव तपसे श्रीमान् शालग्राममगाद् वशी ॥११७॥

अहर्निशं स एवैनं जपन् सारस्वतं स्तवम्।
देवक्रियारतिर्भूत्वा तपस्तेपे निशाचरः ॥११८॥

समाराध्य जगन्नाथं स तत्र पुरषोत्तमम्।
सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्तवान् ॥११९॥

एतत् ते कथितं ब्रह्मन् विष्णोः सारस्वतं स्तवम्।
विप्रवक्त्रस्थया सम्यक्सरस्वत्या समीरितम् ॥१२०॥

य एतत् परमं स्तोत्रं वासुदेवस्य मानवः।
पठिष्यति स सर्वेभ्यः पापेभ्यो मोक्षमाप्स्यति ॥१२१॥

इति श्रीवामनपुराणे षडशीतितमोऽध्यायः ॥८६॥

N/A

References : N/A
Last Updated : September 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP