संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय ३ रा

वामनपुराण - अध्याय ३ रा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


पुलस्त्य उवाच
ततः करतले रुद्रः कपाले दारुणे स्थिते।
संतापमगमद् ब्रह्मंश्चिन्तया व्याकुलेन्द्रियः ॥१॥

ततः समागता रौद्रा नीलाञ्चनचयप्रभा।
सरक्तमूर्द्धजा भीमा ब्रह्महत्या हरान्तिकम् ॥२॥

तामागतां हरो दृष्ट्वा पप्रच्छ विकरालिनीम्।
काऽसि त्वमागता रौद्रे केनाप्यर्थेन तद्वद ॥३॥

कपालिनमथोवाच ब्रह्महत्या सुदारुणा।
ब्रह्मवध्याऽस्मि संप्राप्तां मां प्रतीच्छ त्रिलोचन ॥४॥

इत्येवमुक्त्वा वचनं ब्रह्महत्या विवेश ह।
त्रिशूलपाणिनं रुद्रं संप्रतापितविग्रहम् ॥५॥

ब्रह्महत्याभिभूतश्च शर्वो बदरिकाश्रमम्।
आगच्छन्न ददर्शाथ नरनारायणावृषी ॥६॥

अदृष्ट्वा धर्मतनयौ चिन्ता शोकसमन्वितः।
जगाम यमुनां स्नातुं साऽपि शुष्कजलाऽभवत् ॥७॥

कालिन्दीं शुष्कसलिलां निरीक्ष्य वृषकेतनः।
प्लक्षजां स्नातुमगमदन्तर्द्धानं च सा गता ॥८॥

ततो नु पुष्करारण्यं मागधारण्यमेव च।
सैन्धवारण्यमेवासौ गत्वा स्नातो यथेच्छया ॥९॥

तथैव नैमिषारण्यं धर्मारण्यं तथेश्वरः।
स्नातो नैव च सा रौद्रा ब्रह्महत्या व्यमुञ्चत ॥१०॥

सरित्सु तीर्थेषु तथाश्रमेषु पुण्येषु देवायतनेषु शर्वः।
समायुतो योगयुतोऽपि पापान्नावाप मोक्षं जलदध्वजोऽसौ ॥११॥

ततो जगाम निर्विण्णः शंकरः कुरुजाङ्गलम्।
तत्र गत्वा ददर्शाथ चक्रपाणिं खगध्वजम् ॥१२॥

तं दृष्ट्वा पुण्डरीकाक्षं शङ्खचक्रगदाधरम्।
कृताञ्जलिपुटो भूत्वा हरः स्तोत्रमुदीरयत् ॥१३॥

हर उवाच
नमस्ते देवतानाथ नमस्ते गरुडध्वज।
शङ्खचक्रगदापाणे वासुदेव नमोऽस्तु ते ॥१४॥

नमस्ते निर्गुणानन्त अप्रतर्क्याय वेधसे
ज्ञानाज्ञान निरालम्ब सर्वालम्ब नमोऽस्तु ते ॥१५॥

रजोयुक्त नमस्तेऽस्तु ब्रह्ममूर्ते सनातन।
त्वया सर्वमिदं नाथ जगत्सृष्टं चराचरम् ॥१६॥

सत्त्वाधिष्ठित लोकेश विष्णुमूर्ते अधोक्षज।
प्रजापाल महाबाहो जनार्दन नमोऽस्तु ते ॥१७॥

तमो मूर्त्ते अहं ह्येष त्वदंशक्रोधसंभवः।
गुणाभियुक्त देवेश सर्वव्यापिन् नमोऽस्तु ते ॥१८॥

भूरियं त्वं जगन्नाथ जलाम्बरहुताशनः।
वायुर्बुद्धिर्मनश्चापि शर्वरी त्वं नमोऽस्तु ते ॥१९॥

धर्मो यज्ञस्तपः सत्यमहिंसा शौचमार्जवम्।
क्षमा दानं दया लक्ष्मीर्ब्रह्मचर्यं त्वमीश्वर ॥२०॥

त्वं साङ्गाश्चतुरो वेदास्त्वं वेद्यो वेदपारगः।
उपवेदा भवानीश सर्वोऽसि त्वं नमोऽस्तु ते ॥२१॥

नमो नमस्तेऽच्युत चक्रपाणे नमोऽस्तु ते माधव मीनमूर्ते।
लोके भवान् कारुणिको मतो मे त्रायस्व मां केशव पापबन्धात् ॥२२॥

ममाशुभं नाशय विग्रहस्थं यद् ब्रह्महत्याऽभिभवं बभूव।
दग्धोऽस्मि नष्टोऽस्म्यसमीक्ष्यकारी पुनीहि तीर्थोऽसि नमो नमस्ते ॥२३॥

पुलस्त्य उवाच
इत्थं स्तुतश्चक्रधरः शंकरेण महात्मना।
प्रोवाच भगवान् वाक्यं ब्रह्महत्याक्षयाय हि ॥२४॥

गिरिरुवाच॥
महेश्वर श्रृणुष्वेमां मम वाचं कलस्वनाम्।
ब्रह्महत्याक्षयकरीं शुभदां पुण्यवर्धनीम् ॥२५॥

योऽसौ प्राङ्मण्डले पुण्ये मदंशप्रभवोऽव्ययः।
प्रयागे वसते नित्यं योगशायीति विश्रुतः ॥२६॥

चरणाद् दक्षिणात्तस्य विनिर्याता सरिद्वरा।
विश्रुता वरणेत्येव सर्वपापहरा शुभा ॥२७॥

सव्यादन्या द्वितीया च असिरित्येव विश्रुता।
ते उभे सरितच्छ्रेष्ठे लोकपूज्ये बभूवतुः ॥२८॥

ताभ्यां मध्ये तु यो देशस्तत्क्षेत्रं योगशायिनः।
त्रैलोक्यप्रवरं तीर्थं सर्वपापप्रमोचनम् ॥२९॥

न तादृशोऽस्ति गगने न भूभ्यां न रसातले।
तत्रास्ति नगरी पुण्या ख्याता वाराणसी शुभा।
यस्यां हि भोगिनोऽपीश प्रयान्ति भवतो लयम् ॥३०॥

विलासिनीनां रशनास्वनेन श्रुतिस्वनैर्ब्रह्मणपुंगवानाम्।
शुचिस्वरत्वं गुरवो निशम्य हास्यादशासन्त मुहुर्मुहुस्तान् ॥३१॥

व्रजत्सु योषित्सु चतुष्पथेषु पदान्यलक्तारुणितानि दृष्ट्वा।
ययौ शशी विस्मयमेव यस्यां किंस्वित् प्रयाता स्थलपद्मिनीयम् ॥३२॥

तुङ्गनि यस्यां सुरमन्दिराणि रुन्धन्ति चन्द्रं रजनीसुखेषु।
दिवाऽपि सूर्यं पवनाप्लुताभिर्दीर्घाभिरेवं सुपताकिकाभिः ॥३३॥

भृङ्गाश्च यस्यां शशिकान्तभित्तौ प्रलोभ्यमानाः प्रतिबिम्बितेषु।
आलेख्ययोषिद्विमलाननाब्जेष्वीयुर्भ्रमान्नैव च पुष्पकान्तम् ॥३४॥

परिश्रमश्चापि पराजितेषु नरेषु संमोहनखेलनेन।
यस्यां जलक्रीडनसंगतासु न स्त्रीषु शंभो गृहदीर्घकासु ॥३५॥

न चैव कश्चित् परमन्दिराणि रुणद्धि शंभो सहसा ऋतेऽक्षन्।
न चाबलानां तरसा पराक्रमं करोति यस्यां सुरतं हि मुक्त्वा ॥३६॥

पाशग्रन्थिर्गजेन्द्राणां दानच्छेदो मदच्युतौ।
यस्यां मानमदौ पुंसां करिणां यौवनागमे ॥३७॥

प्रियदोषाः सदा यस्यां कौशिका नेतरे जनाः।
तारागणेऽकुलीनत्वं गद्ये वृत्तच्युतिर्विभो ॥३८॥

भृतिलुब्धा विलासिन्यो भुजंगपरिवारिताः।
चन्द्रभूषितदेहाश्च यस्यां त्वमिव शंकर ॥३९॥

ईदृशायां सुरेशान वाराणस्यां महाश्रमे।
वसते भगवाँल्लोलः सर्वपापहरो रविः ॥४०॥

दशाश्वमेधं यत्प्रोक्तं मदंशो यत्र केशवः।
तत्र गत्वा सुरश्रेष्ठ पापमोक्षमवाप्स्यसि ॥४१॥

इत्येवमुक्तो गरु-डध्वजेन वृषध्वजस्तं शिरसा प्रणम्य।
जगाम वेगाद् गरुडो यथाऽसौ वाराणसीं पापविमोचनाय ॥४२॥

गत्वा सुपुण्यां नगरीं सुतीर्थां दृष्ट्वा च लोलं सदशाश्वमेधम्।
स्नात्वा च तीर्थेषु विमुक्तपापः स केशवं द्रष्टुमुपाजगाम ॥४३॥

केशवं शंकरो दृष्ट्वा प्रणिपत्येदमब्रवीत्।
त्वत्प्रसादाद् हृषीकेश ब्रह्महत्या क्षयं गता ॥४४॥

नेदं कपालं देवेश मद्धस्तं परिमुञ्चति।
कारणं वेद्मि न च तदेतन्मे वक्तुमर्हसि ॥४५॥

पुलस्त्य उवाच
महादेववचः श्रुत्वा केशवो वाक्यमब्रवीत्।
विद्यते कारणं रुद्र तत्सर्वं कथयामि ते ॥४६॥

योऽसौ ममाग्रतो दिव्यो ह्रदः पद्मोत्पलैर्युतः।
एष तीर्थवरः पुण्यो देवगन्धर्वपूजितः ॥४७॥

एतस्मिन्प्रवरे तीर्थे स्नानं शंभो समाचर।
स्नातमात्रस्य चाद्यैव कपालं परिमोक्ष्यति ॥४८॥

ततः कपाली लोके च ख्यातो रुद्र भविष्यसि।
कपालमोचनेत्येवं तीर्थं चेदं भविष्यति ॥४९॥

पुलस्त्य उवाच
एवमुक्तः सुरेशेन केशवेन महेश्वरः।
कपालमोचने सस्नौ वेदोक्तविधिना मुने ॥५०॥

स्नातस्य तीर्थे त्रिपुरान्तकस्य परिच्युतं हस्ततलात् कपालम्।
नाम्ना बभूवाथ कपालमोचनं तत्तीर्थवर्यं भगवत्प्रसादात् ॥५१॥

इति श्रीवामपुराणे तृतीयोऽध्ययः ॥३॥

N/A


References : N/A
Last Updated : September 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.