संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय ९४ वा

वामनपुराण - अध्याय ९४ वा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


पुलस्त्य उवाच॥
गत्वा रसातलं दैत्यो महार्हमणिचित्रितम्।
शुद्धस्फटिसोपानं कारयामास वै पुरम् ॥१॥

तत्र मध्ये सुविस्तीर्णः प्रासादो वज्रवेदिकः।
मुक्ताजालान्तरद्वारो निर्मितो विश्वकर्मणा ॥२॥

तत्रास्ते विविधान् भोगान् भुञ्जन् दिव्यान् स मानुषान्।
नाम्ना विन्ध्यावलीत्येवं भार्याऽस्य दयिताऽभवत् ॥३॥

युवतीनां सहस्रस्य प्रधाना शीलमण्डिता।
तया सह महातेजा रेमे वैरोचनिर्मुने ॥४॥

भोगासक्तस्य दैत्यस्य वसतः सुतले तदा।
दैत्यतेजोहरः प्राप्तः पाताले वै सुदर्शनः ॥५॥

चक्रे प्रविष्टे पातालं दानवानां पुरे महान्।
बभौ हलहलाशब्दः क्षुभितार्णवसंनिभः ॥६॥

तं च श्रुत्वा महाशब्दं बलिः खङ्गं समाददे।
आः किमेतदितीत्थञ्च पप्रच्छासुरपुंगवः ॥७॥

ततो विन्ध्यावली प्राह सान्त्वयन्ती निजं पतिम्।
कोशे खङ्गं समावेश्य धर्मपत्नी शुचिव्रता ॥८॥

एतद् भगवतश्चक्रं दैत्यचक्रक्षयंकरम्।
संपूजनीयं दैत्येन्द्र वामनस्य महात्मनः ॥९॥

इत्येवमुक्त्वा चार्वङ्गी सार्घपात्रा विनिर्ययौ।
अथाभ्यागात् सहस्रारं विष्णोश्चक्रं सुदर्शनम् ॥१०॥

ततोऽसुरपतिः प्रह्वः कृताञ्जलिपुटो मुने।
संपूज्य विधिवच्चक्रमिदं स्तोत्रमुदीरयत् ॥११॥

बलिरुवाच॥
नमस्यामि हरेश्चक्रं दैत्यचक्रविदारणम्।
सहस्रांशुं सहस्राभं सहस्रारं सुनिर्मलम् ॥११॥

नमस्यामि हरेश्चक्रं यस्य नाभ्यां पितामहः।
तुण्डे त्रिशूलधृक् शर्व आरामूले महाद्रयः ॥१२॥

आरेषु संस्थिता देवाः सेन्द्राः सार्काः सपावकाः।
जवे यस्य स्थितो वायुरापोग्निः पृथिवी नभः ॥१३॥

आरप्रान्तेषु जीमूताः सौदामिन्यृक्षतारकाः
बाह्यतो मुनयो यस्य वालखिल्यादयस्तथा ॥१४॥

तमायुधवरं वन्दे वासुदेवस्य भक्तितः।
यन्मे पापं शरीरोत्थं वाग्जं मानसमेव च ॥१५॥

तन्मे दहस्व दीप्तांशो विष्णोश्चक्र सुदर्शन।
यन्मे कुलोद्भवं पापं पैतृकं मातृकं तथा ॥१६॥

तन्मे हरस्व तरसा नमस्ते अच्युतायुध।
आधयो मम नश्यन्तु व्याधयो यान्तु संक्षयम् ॥१७॥

इत्येवमुक्त्वा मतिमान् समभ्यर्च्याथ भक्तितः
संस्मरन् पुण्डरीकाक्षं सर्वपापप्रणाशनम् ॥१८॥

पूजितं बलिना चक्रं कृत्वा निस्तेजसोऽसुरान्।
निश्चक्रामाथ पातालाद् विषुवे दक्षिणे मुने ॥१९॥

सुदर्शने निर्गते तु बलिर्विक्लवतां गतः।
परमामापदं प्राप्य सस्मार स्वपितामहम् ॥२०॥

स चापि संस्मृतः प्राप्तः सुतलं दानवेश्वरः।
दृष्ट्वा तस्थौ महातेजाः सार्घपात्रो बलिस्तदा ॥२१॥

तमर्च्य विधिना ब्रह्मन् पितुः पितरमीश्वरम्।
कृताञ्जलिपुटो भूत्वा इदं वचनमब्रवीत् ॥२२॥

संस्मृतोऽसि मया तात सुविषण्णेन चेतसा
तन्मे हितं च पथ्यं च श्रेयोग्र्यं वद तात मे ॥२३॥

किं कार्यं तात संसारे वसता पुरुषेण हि।
कृतेन येन वै नास्य बन्धः समुपजायते ॥२४॥

संसारार्णवमग्नानां नराणामल्पचेतसाम्।
तरणे यो भवेत् पोतस्तन्मे व्याख्यातुमर्हसि ॥२५॥

पुलस्त्य उवाच॥
एतद्वचनमाकर्ण्य तत्पौत्राद् दानवेश्वरः।
विचिन्त्य प्राह वचनं संसारे यद्हितं परम् ॥२६॥

प्रह्लाद उवाच॥
साधु दानवशार्दूल यत्ते जाता मतिस्त्वियम्।
प्रवक्ष्यामि हितं तेऽद्य तथाऽन्येषां हितं बले ॥२७॥

भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारार्दितानाम्।
विषमविषयतोये मज्जतामप्लवानां भवति शरणमेको विष्णुपोतो नराणाम् ॥२८॥

ये संश्रिता हरिमनन्तमनादिमध्यं नारायणं सुरगुरुं शुभदं वरेण्यम्।
शुद्धं खगेन्द्रगमनं कमलालयेशं ते धर्मराजकरणं न विशन्ति धीराः ॥२९॥

स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले।
परिहर मधुसूदनप्रपन्नान् प्रभुरहमन्यनृणां न वैष्णवानाम् ॥३०॥

तथाऽन्यदुक्तं नरसत्तमेन इक्ष्वाकुणा भक्तियुतेन नूनम्।
ये विष्णुभक्ताः पुरुषाः पृथिव्यां यमस्य ते निर्विषया भवन्ति ॥३१॥

सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पितम्।
तावेव केवलं श्लाघ्यौ यौ तत्पूजाकरौ करौ ॥३२॥

नूनं न तौ करौ प्रोक्तौ वृक्षशाखाग्रपल्लवौ।
न यौ पूजयितुं शक्तौ हरिपादाम्बुजद्वयम् ॥३३॥

नूनं तत्कण्ठशालूकमथवा प्रतिजिह्वका।
रोगोवाऽन्यो न सा जिह्वा या न वक्ति हरेर्गुणान् ॥३४॥

शोचनीयः स बन्धूनां जीवन्नपि मृतो नरः।
यः पादपङ्कजं विष्णोर्न पूजयति भक्तितः ॥३५॥

ये नरा वासुदेवस्य सततं पूजने रताः।
मृता अपि न शोच्यास्ते सत्यं सत्यं मयोदितम् ॥३६॥

शारीरं मानसं वाग्जं मूर्तामूर्तं चराचरम्।
दृश्यं स्पृश्यमदृश्यञ्च तत्सर्वं केशवात्मकम् ॥३७॥

येनार्चितो हि भगवान् चतुर्धा वै त्रिविक्रमः।
तेनार्चिता न संदेहो लोकाः सामरदानवाः ॥३८॥

यता रत्नानि जलधेरसंख्येयानि पुत्रक।
तथा गुणा हि देवस्य त्वसंख्यातास्तु चक्रिणः ॥३९॥

ये शङ्खचक्राब्जकरं सशार्ङ्गिणं खगेन्द्रकेतुं वरदं श्रियः पतिम्।
समाश्रयन्ते भवभीतिनाशनं संसारगर्ते न पतन्ति ते पुनः ॥४०॥

येषां मनसि गोविन्दो निवासी सततं बले।
न ते परिभवं यान्ति न मृत्योरुद्विजन्ति च ॥४१॥

देवं शार्ङ्गधरं विष्णुं ये प्रपन्नाः परायणम्।
न तेषां यमसालोक्यं न च ते नरकौकसः ॥४२॥

न तां गतिं प्राप्नुवन्ति श्रुतिशास्त्रविशारदाः।
विप्रा दानवशार्दूल विष्णुभक्ता व्रजन्ति याम् ॥४३॥

या गतिर्दैत्यशार्दूल हतानां तु महाहवे।
ततोऽदिकां गतिं यान्ति विष्णुभक्ता नरोत्तमाः ॥४४॥

या गतिर्धर्मशीलानां सात्त्विकानां महात्मनाम्।
सा गतिर्गदिता दैत्य भगवत्सेविनामपि ॥४५॥

सर्वावासं वासुदेवं सूक्ष्ममव्यक्तविग्रहम्।
प्रविशन्ति महात्मानं तद्भक्ता नान्यचेतसः ॥४६॥

अनन्यमनसो भक्त्या ये नमस्यन्ति केशवम्।
शुचयस्ते महात्मानस्तीर्थभूता भवन्ति ते ॥४७॥

गच्छन् तिष्ठन् स्वपन् जाग्रत् पिबन्नश्नन्नभीक्ष्णशः।
ध्यायन् नारायणं यस्तु न ततोऽन्योऽस्ति पुण्यभाक् ॥४८॥

वैकुण्ठं खड्गपरशुं भवबन्धसमुच्छिदम्।
प्रणिपत्य यथान्यायं संसारे न पुनर्भवेत् ॥४९॥

क्षेत्रेषु वसते नित्यं क्रीडन्नास्तेऽमितद्युतिः।
आसीनः सर्वदेहेषु कर्मभिर्न स बध्यते।
येषां विष्णुः प्रियो नित्यं ते विष्णोः सततं प्रियाः ॥५०॥

न ते पुनः सम्भवन्ति तद्भक्तास्तत्परायणाः।
ध्यायेद् दामोदरं यस्तु भक्तिनम्रोऽर्चयेत वा ॥५१॥

न स संसारपङ्केऽस्मिन् मज्जते दानवेश्वर।
कल्यमुत्थाय ये भक्त्या स्मरन्ति मधुसूदनम्।
स्तुवन्त्यप्यभिश्रृण्वन्ति दुर्गाण्यतितरन्ति ते ॥५२॥

हरिवाक्यामृतं पीत्वा विमलैः श्रोत्रभाजनैः।
प्रहृष्यति मनो येषां दुर्गाण्यतितरन्ति ते ॥५३॥

येषां चक्रगदापाणौ भक्तिरव्यभिचारिणी।
ते यान्ति नियतं स्थानं यत्र योगेश्वरो हरिः ॥५४॥

विष्णुकर्मप्रसक्तानां भक्तानां या परा गतिः।
सा तु जन्मसहस्रेण न तपोभिरवाप्यते ॥५५॥

किं जप्यैस्तस्य मन्त्रैर्वा किं तपोभिः किमाश्रमैः।
यस्य नास्ति परा भक्तिः सततं मधुसूदने ॥५६॥

वृथा यज्ञा वृता वेदा वृथा दानं वृथा श्रुतम्।
वृथा तपश्च कीर्तिश्च यो द्वेष्टि मधुसूदनम् ॥५७॥

किं तस्य बहुभिर्मन्त्रैर्भक्तिर्यस्य जनार्दने।
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥५८॥

विष्णुरेव गतिर्येषां कुतस्तेषां पराजयः।
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥५९॥

सर्वमङ्गलमाङल्यं वरेण्यं वरदं प्रभुम्।
नारायणं नमस्कृत्य सर्वकर्माणि कारयेत् ॥६०॥

विष्टयो व्यतिपाताश्च येऽन्ये दुर्नीतिसम्भवाः।
ते नाम स्मरणाद्विष्णोर्नाशं यान्ति महासुर ॥६१॥

तीर्थकोटिसहस्राणि तीर्थकोटिशतानि च।
नारायणप्रणामस्य कलां नार्हन्ति षोडशीम् ॥६२॥

पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च।
तानि सर्वाण्यवाप्नोति विष्णोर्नामानुकीर्तनात् ॥६३॥

प्राप्नुवन्ति न तांल्लोकान् व्रतिनो वा तपस्विनः।
प्राप्यन्ते ये तु कृष्णस्य नमस्कारपरैर्नरैः ॥६४॥

योऽप्यन्यदेवताभक्तो मिथ्यार्चयति केशवम्।
सोऽपि गच्छति साधूनां स्थानं पुण्यकृतां महत् ॥६५॥

सातत्येन हृषीकेशं पूजयित्वा तु यत्फलम्।
सुचीर्णतपसां नॄणां तत् फलं न कदाचन ॥६६॥

त्रिसन्ध्यं पद्मनाभं तु ये स्मरन्ति सुमेधसः।
ते लभन्त्युपवासस्य फलं नास्त्यत्र संशयः ॥६७॥

सततं शास्त्रदृष्टेन कर्मणा हरिमर्चय।
तत्प्रसादात् परां सिद्धिं बले प्राप्स्यसि शाश्वतीम् ॥६८॥

तन्मना भव तद्भक्तस्तद्याजी तं नमस्कुरु।
तमेवाश्रित्य देवेशं सुखं प्राप्यसि पुत्रक ॥६९॥

आद्यं ह्यनन्तमजरं हरिमव्ययं च ये वै स्मरन्त्यहरहर्नृवरा भुविस्थाः।
सर्वत्रगं शुभदं ब्रह्ममयं पुराणम् ते यान्ति वैष्णवपदं ध्रुवमक्षयञ्च। ॥७०॥

ये मानवा विगतरागपरापरज्ञा नारायणं सुरगुरुं सततं स्मरन्ति।
ते धौतपाण्डुरपुटा इव राजहंसाः संसारसागरजलस्य तरन्ति पारम् ॥७१॥

ध्यायन्ति ये सततमच्युतमीशितारं निष्कल्मषं प्रवरपद्मदलायताक्षम्।
ध्यानेन तेन हतकिल्बिषवेदनास्ते मातुः पयोधररसं न पुनः पिबन्ति ॥७२॥

ये कीर्तयन्ति वरदं वरपद्मनाभं शङ्खाब्जचक्रवरचापगदासिहस्तम्।
पद्मालयावदनपङ्कजषट्पदाख्यं नूनं प्रयान्ति सदनं मधुघातिनस्ते ॥७३॥

श्रृण्वन्ति ये भक्तिपरा मनुष्याः संकीर्त्यमानं भगवन्तमाद्यम्।
ते मुक्तपापाः सुखिनो भवन्ति यथाऽमृतप्राशनतर्पितास्तु ॥७४॥

तस्माद् ध्यानं स्मरणं कीर्तनं वा नाम्नां श्रवणं पठतां सज्जनानाम्।
कार्यं विष्णोः श्रद्दधानैर्मनुष्यैः पूजातुल्यं तत् प्रशंसन्ति देवा ॥७५॥

बाह्यैस्तथाऽन्तःकरणैरविक्लवैर्यो नार्चयेत् केशवमीशितरम्।
पुष्पैश्च पत्रैर्जलपल्लवादिभिर्नूनं स मुष्टो विधितस्करेण ॥७६॥

इति श्रीवामनपुराणे चतुर्नवतितमोऽध्यायः ॥९४॥

N/A


References : N/A
Last Updated : September 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.