संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण| अध्याय ५५ वा वामनपुराण प्रस्तावना अध्याय १ ला अध्याय २ रा अध्याय ३ रा अध्याय ४ था अध्याय ५ वा अध्याय ६ वा अध्याय ७ वा अध्याय ८ वा अध्याय ९ वा अध्याय १० वा अध्याय ११ वा अध्याय १२ वा अध्याय १३ वा अध्याय १४ वा अध्याय १५ वा अध्याय १६ वा अध्याय १७ वा अध्याय १८ वा अध्याय १९ वा अध्याय २० वा अध्याय २१ वा अध्याय २२ वा अध्याय २३ वा अध्याय २४ वा अध्याय २५ वा अध्याय २६ वा अध्याय २७ वा अध्याय २८ वा अध्याय २९ वा अध्याय ३० वा अध्याय ३१ वा अध्याय ३२ वा अध्याय ३३ वा अध्याय ३४ वा अध्याय ३५ वा अध्याय ३६ वा अध्याय ३७ वा अध्याय ३८ वा अध्याय ३९ वा अध्याय ४० वा अध्याय ४१ वा अध्याय ४२ वा अध्याय ४३ वा अध्याय ४४ वा अध्याय ४५ वा अध्याय ४६ वा अध्याय ४७ वा अध्याय ४८ वा अध्याय ४९ वा अध्याय ५० वा अध्याय ५१ वा अध्याय ५२ वा अध्याय ५३ वा अध्याय ५४ वा अध्याय ५५ वा अध्याय ५६ वा अध्याय ५७ वा अध्याय ५८ वा अध्याय ५९ वा अध्याय ६० वा अध्याय ६१ वा अध्याय ६२ वा अध्याय ६३ वा अध्याय ६४ वा अध्याय ६५ वा अध्याय ६६ वा अध्याय ६७ वा अध्याय ६८ वा अध्याय ६९ वा अध्याय ७० वा अध्याय ७१ वा अध्याय ७२ वा अध्याय ७३ वा अध्याय ७४ वा अध्याय ७५ वा अध्याय ७६ वा अध्याय ७७ वा अध्याय ७८ वा अध्याय ७९ वा अध्याय ८० वा अध्याय ८१ वा अध्याय ८२ वा अध्याय ८३ वा अध्याय ८४ वा अध्याय ८५ वा अध्याय ८६ वा अध्याय ८७ वा अध्याय ८८ वा अध्याय ८९ वा अध्याय ९० वा अध्याय ९१ वा अध्याय ९२ वा अध्याय ९३ वा अध्याय ९४ वा अध्याय ९५ वा अध्याय ९६ वा वामनपुराण - अध्याय ५५ वा भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय. Tags : puranvamana puranvishnuपुराणवामन पुराणविष्णु अध्याय ५५ वा Translation - भाषांतर पुलस्त्य उवाचकश्यपस्य दनुर्नाम भार्यासीद् द्विजसत्तमतस्याः पुत्रत्रयं चासीत् सहस्राक्षाद् बलाधिकम् ॥१॥ज्येष्ठः शुम्भ इति ख्यातो निशुम्भश्चापरोऽसुरःतृतीयो नमुचिर्नाम महाबलसमन्वितः ॥२॥योऽसौ नमुचिरित्येवं ख्यातो दनुसुतोऽसुरःतं हन्तुमिच्छति हरिः प्रगृह्य कुलिशं करे ॥३॥त्रिदिवेशं समायान्तं नमुचिस्तद्भयादथप्रविवेश रथं भानोस्ततो नाशकदच्युतः ॥४॥शक्रस्तेनाथ समयं चक्रे सह महात्मनाअवध्यत्वं वरं प्रादाच्छस्त्रैरस्त्रैश्च नारद ॥५॥ततोऽवध्यत्वमाज्ञाय शस्त्रादस्त्राच्च नारदसंत्यज्य भास्कररथं पातालमुपयादथ ॥६॥स निमज्जन्नपि जले सामुद्रं फेनमुत्तमम्ददृशे दानवपतिस्तं प्रगृह्येदमब्रवीत् ॥७॥यदुक्तं देवपतिना वासवेन वचोऽस्तु तत्अयं स्पृशतु मां फेनः पराभ्यां गृह्य दानवः ॥८॥मुखनासाक्षिकर्णादीन् संममार्ज्ज यथेच्छयातस्मिञ्छक्रोऽसृजद् वज्रमन्तर्हितमपीश्वरः ॥९॥तेनासौ भग्ननासास्यः पपात च ममार चसमये च तथा नष्टे ब्रह्महत्यास्पृशद्धरिम् १०॥स वै तीर्थं समासाद्य स्नातः पापादमुच्यतततोऽस्य भ्रातरौ वीरौ क्रुद्धौ शुम्भनिशुम्भकौ ॥११॥उद्योगं सुमहत्कृत्वा सुरान् बाधितुमागतौसुरास्तेऽपि सहस्राक्षं पुरस्कृत्य विनिर्ययुः ॥१२॥जितास्त्वाक्रम्य दैत्याभ्यां सबलाः सपदानुगाःशक्रस्याहृत्य च गजं याम्यं च महिषं बलात् ॥१३॥वरुणस्य मणिच्छत्रं गदां वै मारुतस्य चनिधयः पद्मशङ्खाद्या हृतास्त्वाक्रम्य दानवैः ॥१४॥त्रैलोक्यं वशगं चास्ते ताभ्यां नारद सर्वतःतदाजग्मुर्महीपृष्ठं ददृशुस्ते महासुरम् ॥१५॥रक्तबीजमथोचुस्ते को भवानिति सोऽब्रवीत्स चाह दैत्योऽस्मि विभो सचिवो महिषस्य तु ॥१६॥रक्तबीजेति विख्यातो महावीर्यो महाभुजःअमात्यौ रुचिरौ वीरौ चण्डमुण्डाविति श्रुतौ ॥१७॥तावारतां सलिले मग्नौ भयाद् देव्या महाभुजौयस्त्वासीत् प्रभुरस्माकं महिषो नाम दानवः ॥१८॥निहतः स महादेव्या विन्ध्यशैले सुविस्तृतेभवन्तौ कस्य तनयौ कौ वा नाम्ना परिश्रुतौकिंवीर्यौ किंप्रभावौ च एतच्छंसितुमर्हथः ॥१९॥शुम्भनिशुम्भावूचतुःअहं शुंभ इति ख्यातो दनोः पुत्रस्तथौरसःनिशुम्भोऽयं मम भ्राता कनीयान् शत्रुपूगहा ॥२०॥अनेन बहुशो देवाः सेन्द्र रुद्र दिवाकराःसमेत्य निर्जिता वीरा येऽन्ये च बलवत्तराः ॥२१॥तदुच्यतां कया दैत्यो निहतो महिषासुरःयावत्तां घातयिष्यावः स्वसैन्यपरिवारितौ ॥२२॥इत्थं तयोस्तु वदतोर्नर्मदायास्तटे मुनेजलवासाद् विनिष्क्रान्तौ चण्डमुण्डौ च दानवौ ॥२३॥ततोऽभ्येत्यासुरश्रेष्ठौ रक्तबीजं समाश्रितौऊचतुर्वचनं श्लक्ष्णं कोऽयं तव पुरस्सरः ॥२४॥स चोभौ प्राह दैत्योऽसौ शुम्भो नाम सुरार्दनःकनीयानस्य च भ्राता द्वितीयो हि निशुम्भकः ॥२५॥एतावाश्रित्य तां दुष्टां महिषघ्नीं न संशयःअहं विवाहयिष्यामि रत्नभूतां जगत्त्रये ॥२६॥चण्ड उवाचन सम्यगुक्तं भवता रत्नार्होऽसि न साम्प्रतम्यः प्रभुः स्यात्स रत्नार्हस्तस्माच्छुम्भाय योज्यताम् ॥२७॥तदाचचक्षे शुम्भाय निशुम्भाय च कौशिकीम्भूयोऽपि तद्विधां जातां कौशिकीं रूपशालिनीम् ॥२८॥ततः शुम्भो निजं दूतं सुग्रीवं नाम दानवम्दैत्यं च प्रेषयामास सकाशं विन्ध्यवासिनीम् ॥२९॥स गत्वा तद्वचः श्रुत्वा देव्यागत्य महासुरःनिशुम्भशुम्भावाहेदं मन्युनाभिपरिप्लुतः ॥३०॥सुग्रीव उवाचयुवयोर्वचनाद् देवीं प्रदेष्टुं दैत्यनायकौगतवानहमद्यैव तामहं वाक्यमब्रुवम् ॥३१॥यथा शुम्भोऽतिविख्यातः ककुद्मी दानवेष्वपिस त्वां प्राह महाभागे प्रभुरस्मि जगत्त्रये ॥३२॥यानि स्वर्गे महीपृष्ठे पाताले चापि सुन्दरिरत्नानि सन्ति तावन्ति मम वेश्मनि नित्यशः ॥३३॥त्वमुक्ता चण्डमुण्डाभ्यां रत्नभूता कृशोदरितस्माद् भजस्व मां वा त्वं निशुम्भं वा ममानुजम् ॥३४॥सा चाह मां विहसती शृणु सुग्रीव मद्वचःसत्यमुक्तं त्रिलोकेशः शुम्भो रत्नार्ह एव च ॥३५॥किं त्वस्ति दुर्विनीताया हृदये मे मनोरथःयो मां विजयते युद्धे स भर्ता स्यान्महासुर ॥३६॥मया चोक्तावलिप्तासि यो जयेत् ससुरासुरान्स त्वां कथं न जयते सा त्वमुत्तिष्ठ भामिनी ॥३७॥साथ मां प्राह किं कुर्मिं यदनालोचितः कृतःमनोरथस्तु तद् गच्छ शुम्भाय त्वं निवेदय ॥३८॥तयैवमुक्तस्त्वभ्यागां त्वत्सकाशं महासुरसा चाग्निकोटिसदृशी मत्वैवं कुरु यत्क्षमम् ॥३९॥पुलस्त्य उवाचइति सुग्रीववचनं निशम्य स महासुरःप्राह दूरस्थितं शुम्भो दानवं धूम्रलोचनम् ॥४०॥शुम्भ उवाचधूम्राक्ष गच्छ तां दुष्टां केशाकर्षणविह्वलाम्सापराधां यथा दासीं कृत्वा शीघ्रमिहानय ॥४१॥यश्चास्याः पक्षकृत् कश्चिद् भविष्यति महाबलःस हन्तव्योऽविचार्यैव यदि हि स्यात् पितामहः ॥४२॥स एवमुक्तः शुम्भेन धूम्राक्षोऽक्षौहिणीशतैःवृतः षड्भिर्महातेजा विन्ध्यं गिरिमुपाद्र वत् ॥४३॥स तत्र दृष्ट्वा तां दुर्गां भ्रान्तदृष्टिरुवाच हएह्येहि मूढे भर्तारं शुम्भमिच्छस्व कौशिकिन चेद् बलान्नयिष्यामि केशाकर्षणविह्वलाम् ॥४४॥श्रीदेव्युवाचप्रेषितोऽसीह शुम्भेन बलान्नेतुं हि मां किलतत्र किं ह्यबला कुर्याद् यथेच्छसि तथा कुरु ॥४५॥पुलस्त्य उवाचएवमुक्तो विभावर्या बलावान् धूम्रलोचनःसम्भ्यधावत् त्वरितो गदामादाय वीर्यवान् ॥४६॥तमापतन्तं सगदं हुङ्कारेणैव कौशिकीसबलं भस्मसाच्चक्रे शुष्कमग्निरिवेन्धनम् ॥४७॥ततो हाहाकृतमभूज्जगत्यस्मिंश्चराचरेसबलं भस्मसान्नीतं कौशिक्या वीक्ष्य दानवम् ॥४८॥तच्च शुम्भोऽपि शुश्राव महच्छब्दमुदीरितम्अथादिदेश बलिनौ चण्डमुण्डौ महासुरौ ॥४९॥रुरुं च बलिनां श्रेष्ठं तथा जग्मुर्मुदान्विताःतेषां च सैन्यमतुलं गजाश्वरथसंकुलम् ॥५०॥समाजगाम सहसा यत्रास्ते कोशसंभवातदायान्तं रिपुबलं दृष्ट्वा कोटिशतावरम् ॥५१॥सिंहोऽद्र वद् धुतसटः पाटयन् दानवान् रणेकांश्चित् करप्रहारेण कांश्चिदास्येन लीलया ॥५२॥नखरैः कांश्चिदाक्रम्य उरसा प्रममाथ चते वध्यमानाः सिंहेन गिरिकन्दरवासिना ॥५३॥भूतैश्च देव्यनुचरैश्चण्डमुण्डौ समाश्रयन्तावार्त्तं स्वबलं दृष्ट्वा कोपप्रस्फुरिताधरौ ॥५४॥समाद्र वेतां दुर्गां वै पतङ्गाविव पावकम्तावापतन्तौ रौद्रौ वै दृष्ट्वा क्रोधपरिप्लुता ॥५५॥त्रिशाखां भ्रुकुटीं वक्त्रे चकार परमेश्वरीभ्रुकुटीकुटुलाद् देव्या ललाटफलकाद् द्रुतम्काली करालवदना निःसृता योगिनी शुभा ॥५६॥खट्वाङ्गमादाय करेण रौद्र मसिञ्च कालाञ्जनकोशमुग्रम्संशुष्कगात्रा रुधिराप्लुताङ्गी नरेन्द्र मूर्ध्नां स्रजमुद्वहन्ती ॥५७॥कांश्चित् खड्गेन चिच्छेद खट्वाङ्गेन परान् रणेन्यषूदयद् भृशं क्रुद्धा सरथाश्वगजान् रिपून् ॥५८॥चर्माङ्कुशं मुद्गरं च सधनुष्कं सघण्टिकम्कुञ्जरं सह यन्त्रेण प्रतिक्षेप मुखेऽम्बिका ॥५९॥सचक्रकूबररथं ससारथितुरङ्गमम्समं योधेन वदने क्षिप्य चर्वयतेऽम्बिका ॥६०॥एकं जग्राह केशेषु ग्रीवायामपरं तथापादेनाक्रम्य चैवान्यं प्रेषयामास मृत्यवे ॥६१॥ततस्तु तद् बलं देव्या भक्षितं सबलाधिपम्रुरुर्दृष्ट्वा प्रदुद्रा व तं चण्डी ददृशे स्वयम् ॥६२॥आजघानाथ शिरसि खट्वाङ्गेन महासुरम्स पपात हतो भूम्यां छिन्नमूल इव द्रुमः ॥६३॥ततस्तं पतितं दृष्ट्वा पशोरिव विभावरीकोशमुत्कर्तयामास कर्णादिचरणान्तिकम् ॥६४॥सा च कोशं समादाय बबन्ध विमला जटाःएका न बन्धमगमत् तामुत्पाट्याक्षिपद् भुवि ॥६५॥सा जाता सुतरां रौद्री तैलाभ्यक्तशिरोरुहाकृष्णार्धमर्धशुक्लं च धारयन्ती स्वकं वपुः ॥६६॥साब्रवीदं वरमेकं तु मारयामि महासुरम्तस्या नाम तदा चक्रे चण्डमारीति विश्रुतम् ॥६७॥प्राह गच्छस्व सुभगे चण्डमुण्डाविहानयस्वयं हि मारयिष्यामि तावानेतुं त्वमर्हसि ॥६८॥श्रुत्वैवं वचनं देव्याः साभ्यद्र वत् तावुभौप्रदुद्रुवतुर्भयार्त्तौ दिशमाश्रित्य दक्षिणाम् ॥६९॥ततस्तावपि वेगेन प्राधावत् त्यक्तवाससौसाधिरुह्य महावेगं रासभं गरुडोपमम् ॥७०॥यतो गतौ च तौ दैत्यौ तत्रैवानुययौ शिवासा ददर्श तदा पौण्ड्रं महिषं वै यमस्य च ॥७१॥सा तस्योत्पाटयामास विषाणं भुजगाकृतिम्तं प्रगृह्य करेणैव दानवावन्वगाज्जवात् ॥७२॥तौ चापि भूमिं संत्यज्य जग्मतुर्गगनं तदावेगेनाभिसृता सा च रासभेन महेश्वरी ॥७३॥ततो ददर्श गरुडं पन्नगेन्द्रं चिषादिषुम्कर्कोटकं स दृष्ट्वैव ऊर्ध्वरोमा व्यजायत ॥७४॥भयान्मार्यश्च गरुडो मांसपिण्डोपमो बभौन्यपतंस्तस्य पत्राणि रौद्राणि हि पतत्त्रिणः ॥७५॥खगेन्द्र पत्राण्यादाय नागं कर्कोटकं तथावेगेनानुसरद् देवी चण्डमुण्डौ भयातुरौ ॥७६॥संप्राप्तौ च तदा देव्या चण्डमुण्डौ महासुरौबद्धौ कर्कोटकेनैव बद्ध्वा विन्ध्यमुपागमत् ॥७७॥निवेदयित्वा कौशिक्यै कोशमादाय भैरवम्शिरोभिर्दानवेन्द्राणां तार्क्ष्यपत्रैश्च शोभनैः ॥७८॥कृत्वा स्रजमनौपम्यां चण्डिकायै न्यवेदयत्घर्घरां च मृगेन्द्रस्य चर्मणः सा समार्पयत् ॥७९॥स्रजमन्यैः खगेन्द्रस्य पत्रैर्मूर्घ्नि निबध्य चआत्मना सा पपौ पानं रुधिरं दानवेष्वपि ॥८०॥चण्डा त्वादाय चण्डं च मुण्डं चासुरनायकम्चकार कुपिता दुर्गा विशिरस्कौ महासुरौ ॥८१॥तयोरेवाहिना देवी शेखरं शुष्करेवतीकृत्वा जगाम कौशिक्याः सकाशं मार्यया सह ॥८२॥समेत्य साब्रवीद् देवि गृह्यतां शेखरोत्तमःग्रथितो दैत्यशीर्षाभ्यां नागराजेन वेष्टितः ॥८३॥तं शेखरं शिवा गृह्य चण्डाया मूर्ध्नि विस्तृतम्बबन्ध प्राह चैवैनां कृतं कर्म सुदारुणम् ॥८४॥शेखरं चण्डमुण्डाभ्यां यस्माद् धारयसे शुभम्तस्माल्लोके तव ख्यातिश्चामुण्डेति भविष्यति ॥८५॥इत्येवमुक्त्वा वचनं त्रिनेत्रा मा चण्डमुण्डस्रजधारिणीं वैदिग्वाससं चाभ्यवदत् प्रतीता निषूदय स्वारिबलान्यमूनि ॥८६॥सा त्वेवमुक्ताथ विषाणकोट्या सुवेगयुक्तेन च रासभेननिषूदयन्ती रिपुसैन्यमुग्रं चचार चान्यानसुरांश्चखाद ॥८७॥ततोऽम्बिकायास्त्वथ चर्ममुण्डया मार्या च सिंहेन च भूतसंघैःनिपात्यमाना दनुपुङ्गवास्ते ककुद्मिनं शुम्भमुपाश्रयन्त ॥८८॥इति श्रीवामनपुराणे पञ्चपञ्चाषत्तमोऽध्यायः ॥५५॥ N/A References : N/A Last Updated : September 25, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP