संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय ५ वा

वामनपुराण - अध्याय ५ वा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


पुलस्त्य उवाच
जटाधरं हरिर्दृष्ट्वा क्रोधादारक्तलोचनम्।
तस्मात् स्थानादपाक्रम्य कुब्जाम्रेऽन्तर्हितः स्थितः ॥१॥

वसवोऽष्टौ हरं दृष्ट्वा सुस्रुवुर्वेगतो मुने।
सा तु जाता सरिच्छ्रेष्ठा सीता नाम सरस्वती ॥२॥

एकादश तथा रुद्रास्त्रिनेत्रा वृषकेतनाः।
कान्दिशीका लयं जग्मुः समभ्येत्यैव शंकरम् ॥३॥

विश्वेऽश्विनौ च साध्याश्च मरुतोऽनलभास्कराः।
समासाद्य पुरोडाशं भक्षयन्तो महामुने ॥४॥

चन्द्रः सममृक्षगणैर्निशां समुपदर्शयन्।
उत्पत्यारुह्य गगनं स्वमधिष्ठानमास्थितः ॥५॥

कश्यपाद्याश्च ऋषयो जपन्तः शतरुद्रियम्।
पुष्पाञ्जलिपुटा भूत्वा प्रणताः संस्थिता मुने ॥६॥

असकृद् दक्षदयिता दृष्ट्वा रुद्रं बलाधिकम्।
शक्रादीनां सुरेशानां कृपणं विललाप ह ॥७॥

ततः क्रोधाभिभूतेन शंकरेण महात्मना।
तलप्रहारैरमरा बहवो विनिपातिताः ॥८॥

पादप्रहारैरमरा त्रिशुलेनापरे मुने।
दृष्ट्यग्निना तथैवान्ये देवाद्याः प्रलयीकृताः ॥९॥

ततः पूषा हरं वीक्ष्य विनिघ्नन्तं सुरासुरान्।
क्रोधाद् बाहू प्रसार्याथ प्रदुद्राव महेश्वरम् ॥१०॥

तमापतन्तं भगवान् संनिरीक्ष्य त्रिलोचनः।
बाहुभ्यां प्रतिजग्राह करेणैकेन शंकरः ॥११॥

कराभ्यां प्रगृहीतस्य शंभुनांशुमतोऽपि हि।
कराङ्गुलिभ्यो निश्चेरुरसृग्धाराः समन्ततः ॥१२॥

ततो वेगेन महता अंशुमन्तं दिवाकरम्।
भ्रामयामास सततं सिंहो मृगशिशुं यथा ॥१३॥

भ्रामितस्यातिवेगेन नारदांशुमतोऽपि हि।
भुजौ हृस्वत्वमापन्नौ त्रुटितस्नायुबन्धनौ ॥१४॥

रुधिराप्लुतसर्वाङ्गमंशुमन्तं महेश्वरः।
संनिरीक्ष्योत्ससर्जैनमन्यतोऽभिजगाम ह ॥१५॥

ततस्तु पूषा विहसन् दशनानि विदर्शयन्।
प्रोवाचैह्येहि कापालिन् पुनः पुनरथेश्वरम् ॥१६॥

ततः क्रोधाभिभूतेन पूष्णे वेगेन शंभुना।
मुष्टिनाहत्य दशनाः पातिता धरणीतले ॥१७॥

भग्नदन्तस्तथा पूषा शोणिताभिप्लुताननः।
पपात भुवि निःसंज्ञो वज्राहत इवाचलः ॥१८॥

भगोऽभिवीभ्य पूषाणं पतितं रुधिरोक्षितम्।
नेत्राभ्यां घोररूपाभ्यां वृषध्वजमवैक्षत ॥१९॥

त्रिपुरघ्नस्ततः क्रुद्धस्तलेनाहत्य चक्षुषी।
निपातयामास भुवि क्षोभयन्सर्वदेवताः ॥२०॥

ततो दिवाकराः सर्वे पुरस्कृत्य शतक्रतुम्।
मरुद्भिश्च हुताशैश्च भयाज्जग्मुर्दिशो दश ॥२१॥

प्रतियातेषु देवेषु प्रह्लादाद्या दितीश्वराः।
नमस्कृत्य ततः सर्वे तस्थुः प्राञ्जलयो मुने ॥२२॥

ततस्तं यज्ञवाटं तु शंकरो घोरचक्षुषा।
ददर्श दग्धुं कोपेन सर्वांश्चैव सुरासुरान् ॥२३॥

ततो निलिल्यिरे वीराः प्रणेमुर्दुद्रुवुस्तथा।
भयादन्ये हरं दृष्ट्वा गता वैवस्वतक्षयम् ॥२४॥

त्रयोऽग्नयस्त्रिभिर्नेत्रैर्दुःसहं समवैक्षत।
दृष्टमात्रास्त्रिनेत्रेण भस्मीभूताभवन् क्षणात् ॥२५॥

अग्नौ प्रणष्टे यज्ञोऽपि भूत्वा दिव्यवपुर्मृगः।
दुद्राव विक्लवगतिर्दक्षिणा सहितोऽम्बरे ॥२६॥

तमेवानुससारेशश्चापमानम्य वेगवान्।
शरं पाशुपतं कृत्वा कालरूपी महेश्वरः ॥२७॥

अर्द्धेन यज्ञवाटान्ते जटाधर इति श्रुतः।
अर्द्धेन गगने शर्वः कालरूपी च कथ्यते ॥२८॥

नारद उवाच
कालरूपी त्वयाख्यातः शंभुर्गगनगोचरः।
लक्षणं च स्वरूपं च सर्वं व्याख्यातुमर्हसि ॥२९॥

पुलस्त्य उवाच
स्वरूपं त्रिपुरघ्नस्य वदिष्ये कालपूपिणः।
येनाम्बरं मुनिश्रेष्ठ व्याप्तं लोकहितेप्सुना ॥३०॥

यत्राश्विनी च भरणी कुत्तिकायास्तथांशकः।
मेषो राशिः कुजक्षेत्रं तच्छिरः कालरूपिणः ॥३१॥

आग्नेयांशास्त्रयो ब्रह्मन् प्राजापत्यं कवेर्गृहम्।
सौम्यार्द्धं वृषनामेदं वदनं परिकीर्तितम् ॥३२॥

मृगार्द्धमार्द्रादित्यांशास्त्रयः सौम्यगृहं त्विदम्।
मिथुनं भुजयोस्तस्य गगनस्थस्य शूलिनः ॥३३॥

आदित्यांशश्च पुष्यं च आश्लेषा शशिनो गृहम्।
राशिः कर्कटको नाम पार्श्वे मखविनाशिनः ॥३४॥

पित्र्यर्क्षं भगदैवत्यमुत्तरांशश्च केसरी।
सूर्यक्षेत्रं विभोर्ब्रह्मन् हृदयं परिगीयते ॥३५॥

उत्तरांशास्त्रयः पाणिश्चित्रार्धं कन्यका त्वियम्।
सोमपुत्रस्य सद्मैतद् द्वितीयं जठरं विभोः ॥३६॥

चित्रांशद्वितयं स्वातिर्विशाखायां शकत्रयम्।
द्वितीयं शुक्रसदनं तुला नाभिरुदाहृता ॥३७॥

विशाखां शमनूराधा ज्येष्ठा भौमगृहं त्विदम्।
द्वितीयं वृश्चिको राशिर्मेढ्रं कालस्वरूपिणः ॥३८॥

मूलं पूर्वोत्तरांशश्च देवाचार्यगृहं धनुः।
ऊरुयुगलमीशस्य अमरर्षे प्रगीयते ॥३९॥

उत्तरांशास्त्रयो ऋक्षं श्रवणं मकरो मुने।
धनिष्ठार्धं शतभिषा जानुनी परमेष्ठिनः ॥४०॥

धनिष्ठार्धं शतभिषा प्रौष्ठपद्यांशकत्रयम्।
सौरेः सद्मापरमिदं कुम्भो जङ्घे च विश्रुते ॥४१॥

प्रोष्ठपद्यांशमेकं तु उत्तरा रेवती तथा।
द्वितीयं जीवसदनं मीनस्तु चरणावुभौ ॥४२॥

एवं कृत्वा कालरूपं त्रिनेत्रो यज्ञं क्रोधान्मार्गणैराजघान।
विद्धश्चासौ वेदनाबुद्धिमुक्तः खे संतस्थौ तारकाभिश्चिताङ्गः ॥४३॥

नारद उवाच
राशयो गदिता ब्रह्मंस्त्वया द्वादश वै मम।
तेषां विशेषतो ब्रूहि लक्षणानि स्वरूपतः ॥४४॥

पुलस्त्य उवाच
स्वरूपं तव वक्ष्यामि राशीनां श्रृणु नारद।
यादृशा यत्र संचारा यस्मिन् स्थाने वसन्ति च ॥४५॥

मेषः समानमूर्तिश्च अजाविकधनादिषु।
संचारस्थानमेवास्य धान्यरत्नाकरादिषु ॥४६॥

नव शाद्वलसंछन्न वसुधायां च सर्वशः।
नित्यं चरति फुल्लेषु सरसां पुलिनेषु च ॥४७॥

वृषः सदृशरूपो हि चरते गोकुलादिषु।
तस्याधिवासभूमिस्तु कुषीवलधराश्रयः ॥४८॥

स्त्रीपुंसयोः समं रूपं शय्यासनपरिग्रहः।
वीणावाद्यधृङ् मिथुनं गीतनर्तकशिल्पिषु ॥४९॥

स्थितः क्रीडारतिर्नित्यं विहारावनिरस्य तु।
मिथुनं नाम विख्यातं राशिर्द्वेधात्मकः स्थितः ॥५०॥

कर्किः कुलीरेण समः सलिलस्थः प्रकीर्तितः।
केदारवापी पुलिने विविक्तावनिरेव च ॥५१॥

सिंहस्तु पर्वतारण्यदुर्गकन्दरभूमिषु।
वसते व्याधपल्लीषु गह्वरेषु गुहासु च ॥५२॥

व्रीहिप्रदीपिककरा नावारूढा च कन्यका।
चरते स्त्रीरतिस्थाने वसते नड्वलेषु च ॥५३॥

तुलापाणिश्च पुरुषो वीथ्यापणविचारकः।
नगराध्वानशालासु वसते तत्र नारद ॥५४॥

श्वभ्रवल्मीकसंचारी वृश्चिको वृश्चिकाकृतिः।
विषगोमयकीटादि पाषाणादिषु संस्थितः ॥५५॥

धनुस्तु रङ्गजघनो दीप्यमानो धनुर्धरः।
वाजिशूरास्त्रविद्वीरः स्थायी गजरथादिषु ॥५६॥

मृगास्यो मकरो ब्रह्मन् वृषस्कन्धेक्षणाङ्गजः।
मकरोऽसौ नदीचारी वसते च महोदधौ ॥५७॥

रिक्तकुम्भश्च पुरुषः स्कन्धधारी जलाप्लुतः।
द्यूतशालाचरः कुम्भः स्थायी शौण्डिकसद्मसु ॥५८॥

मीनद्वयमथासक्तं मीनस्तीर्थाब्धिसंचरः।
वसते पुण्यदेशेषु देवब्राह्मणसद्मसु ॥५९॥

लक्षणा गदितास्तुभ्यं मेषादीनां महामुने।
न कस्यचित् त्वयाख्येयं गुह्यमेतत्पुरातनम् ॥६०॥

एतन् मया ते कथितं सुरर्षे यथा त्रिनेत्रः प्रममाथ यज्ञम्।
पुण्यं पुराणं परमं पवित्रमाख्यातवान्पापहरं शिवं च ॥६१॥

इति श्रीवामनपुराणे पञ्चमोऽध्यायः ॥५॥

N/A


References : N/A
Last Updated : September 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.