संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|उत्तरकांडम्| काव्य ९५१ ते १००० उत्तरकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०२७ मंत्रगणना उत्तरकांडम् - काव्य ९५१ ते १००० उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य ९५१ ते १००० Translation - भाषांतर ‘ विभज्य पुत्रयो रा ज्यं दत्तं विंध्यस्य रोधसिपुरी कुशावती नाम कुशस्य रचितोत्तमा. ॥९५१॥श्रावस्तीति पुरी म ह्यां प्रसिद्धि प्रापिता वरा लवस्य निर्मिता वीर ! राघवेण महात्मना. ॥९५२॥ कृत्वा त्वयोध्यां वि ज नां राघवो भरतस्तथा पौरैः समं स्वर्गमने कृतोद्योगौ सहानुगौ. ’ ॥९५३॥ एवं निवेद्य प्र य त्ताः शत्रुघ्नाय महात्मने विरेमुस्ते ततो दूता‘स्त्वर भूपे’ति चाब्रुवन् ॥९५४॥श्रुत्वा वृत्तं तत्त्व रा वाञ् शत्रुघ्नः कांचनाभिधम्पुरोहितं समानीय प्रजाश्चाकथयत्स्वयम्. ॥९५५॥अभिषिच्याथ सु म हत्तद्राज्यं स्वं विभज्य सः पुत्राभ्यां प्रददौ लेभे सुबाहुर्मधुरां पुरीम्. ॥९५६॥शत्रुघाती च ते ज स्वी वैदिशं प्रप सत्पुरम्एवं कृत्वाऽगादयोध्यां रथेनैकेन सत्वरम्. ॥९५७॥स शत्रुघ्नो विन य वानभिवाद्याह राघवम् ! ‘ तवानुगमने राजन्विद्धि मां कृतनिश्चयम्. ॥९५८॥दत्तं राज्यं तनु ज योः कृतं कृत्यमशेषतः न चान्यदद्य वक्तव्यमागतोऽहमुपासितुम्. ॥९५९॥त्वच्छासनं स्वाश य ज्ञ ! प्रभो नित्यमनुष्ठितम्निहन्यमानं नेच्छामि प्रसादं कर्तुमर्हसि. ’ ॥९६०॥ तं बाढमित्युदा रा णां गुरुराहातिवत्सलःततः समागता ऋक्षा वानराश्च सयूथपाः. ॥९६१॥ते कृतांजलयो म ह्यां पतिताः प्रभुमब्रुवन्,‘ नयास्मानपि काकुत्स्थ ! शरणागतवत्सल !’ ॥९६२॥तांश्च बाढमिति श्री मानुवाच श्रितवत्सलःअथ बद्धांजलिः प्राह सुग्रीवो रघुनंदनम्. ॥९६३॥‘ अभिषिच्यांगदं रा ज्ये प्राप्तोऽहं राम ! कामद ! तवानुगमने राजन्विद्धि मां कृतनिश्चयम्. ’ ॥९६४॥तं स्मयन्नाह स म ये प्रपतं बाढमिति प्रभुःबिभीषणमथोवाच वाचस्पतिशतस्तुतः. ॥९६५॥‘ शृणु राक्षसरा ज ! त्वं कार्यं मच्छासनं त्वया प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि. ॥९६६॥यावच्चंद्रोऽब्जप्रि य श्च यावत्तिष्ठति मेदिनी यावच्च मत्कथा लोके तावद्राज्यं तवास्त्विह. ’ ॥९६७॥तथेति रक्षसां रा जा प्रतिजग्राह तद्वचःतमेवमुक्त्वा श्रीरामो हनूमंतमथाब्रवीत्. ॥९६८॥‘ तावत्प्रीतस्त्वं र म स्व मद्वाक्यमनुपालयन् मत्कथाः प्रचयिष्यंति यावल्लोके हरीश्वर ! ’ ॥९६९॥कृतांजलिर्वायु ज स्तमब्रवीद्राममीश्वरम्. ‘ यावत्तव कथा लोके तावत्स्थास्याम्यहं भुवि. ’ ॥९७०॥जांबवंतं प्रव य सं मैंदं च द्विविदं प्रभुः प्राह, ‘ यावत्कलियुगं तावज्जीवत सर्वदा. ’ ॥९७१॥अथ प्रभातर ज नौ पृथुवक्षा महायशाः रामः कमलपत्राक्षः स्वपुरोहितमब्रवीत्. ॥९७२॥‘ अग्नेऽग्निहोत्रं प्र य तैर्विप्रैः सार्धं व्रजत्विदम्वाजपेयातपत्रं च शोभमानं महापथे. ॥९७३॥ततो गुरुस्तपो रा शिः सर्वं निरवशेषतः चकार विधिवद्धर्मं महाप्रस्थानिकं विधिम् ॥९७४॥सूक्ष्मांबरधरो म त्या स ब्रह्मावर्तयन् परम् कुशान् गृहीत्वा पाणिभ्यां सरयूं प्रययौ स्वयम्. ॥९७५॥मौनव्रतधरः श्री मान् पद्भ्यामेव चलन् पथि निर्जगाम गृहात्तस्माद्दीप्यमानो यथांशुमान्. ॥९७६॥पार्श्वेऽस्य दक्षिणे रा ज्ञः पद्मा श्रीः समुपस्थिता सव्येऽपि च मही देवी व्यवसायस्तथाग्रतः. ॥९७७॥स्तुतानि शस्त्राण्य म रैर्यानि तस्य जगत्पतेःअन्वय्युस्तानि तं रामं कृत्वा पुरुषविग्रहम्. ॥९७८॥वेदाश्च सर्वे त्रि ज गन्मूलं राजर्षिरूपिणम्अनुजग्मुस्तदा रामं प्रभुं ब्राह्मणरूपिणः. ॥९७९॥ओंकारश्चाथ गा य त्री वषट्कारश्च मूर्तिमान् यज्ञाश्चानुव्रता रामं सर्वे पुरुषविग्रहाः. ॥९८०॥हृष्टाः सपरिवा रा स्तं पौरा जानपदा जनाःअन्वयुः पशवः सर्वे पक्षिणः स्थावरा अपि. ॥९८१॥सर्वे रामानुग म ने हृष्टाः पुष्टाः प्लवंगमाः तेषां बभूव भाग्येन स्वर्गद्वारमपावृतम्. ॥९८२॥भूताः प्रेताश्चानु ज ग्मुः प्रभुं किंबहुना तदा सुसूक्ष्ममप्ययोध्यायां प्राणिजातं न दृश्यते. ॥९८३॥भ्रातरौ मंत्रिणा य त्ताः सर्वे सांतःपुराः पुरात् निर्गत्य तेऽन्वयू रामं प्रभुं तद्गुणरंजिताः. ॥९८४॥अध्यर्धयोजनं ज न्मिजन्ममृत्युभयापहःगत्वा ददर्श सरयूं रामः पुण्योदकां नदीम्. ॥९८५॥तस्याः स्वर्गप्रदो य स्तं देशं रामः समागतः तस्मिन्मुहूर्ते ब्रह्मापि त्रिदशौर्मुनिभिः सह. ॥९८६॥विमानानां भास्व रा णां शतकोटिभिरावृतम्प्रभाभिः स्वर्गिणां व्योम ज्योतिर्मयमिवाभवत्. ॥९८७॥सुखस्पर्शस्तत्र म रुद्ववौ शीतः सुगंधवान्पपात पुष्पवृष्टिश्च देववाद्यानि सस्वनुः. ॥९८८॥गंदह्र्वाश जगुः श्री मद्रामस्य चरितं मुदामुख्या अप्सरसस्तत्र ननृतुर्हृष्टमानसाः. ॥९८९॥रचितांजलि रा रा त्तमागत्य विधिरब्रवीत्, ‘ आगच्छ विष्णो ! भद्रं ते तां तनुं प्रविश स्वकाम्. ॥९९०॥भ्रातृभिः सह धा म त्वं निजं विष्णो विभूषय लोकानां गतिरस्याद्य न त्वां जानंति केचन. ॥९९१॥ज्ञानशक्तिं विना ज ! त्वां न जानंति जगद्गुरो ! ’ इति वाक्यं विधेः श्रुत्वा रामो रमयतां वरः. ॥९९२॥पद्मापतिः पुण्य य शाः सशरीरोऽनुजैः सह विवेश वैष्णवं धाम ध्यातं यत्साधुभिः सदा. ॥९९३॥ततो विष्णुमयं रा मं पूजयंति स्म देवताः साध्या मरुद्गणाश्चैव सेंद्राः साग्निपुरोगमाः. ॥९९४॥देवर्षयो जात म हा गंधर्वास्त्रिदशांगनाः सुपर्णनागयक्षाश्च दैत्यदानवराक्षराः. ॥९९५॥‘ अत्र त्वय्यागतेऽ ज ! त्रिदिवः पूर्णमनोरथःहृष्टो विकल्मषो जात इत्यूचुर्विष्णुमव्ययम्. ॥९९६॥अथ विष्णुः स्वप्रि य कृत् तं पितामहमब्रवीत्, ‘ एषां लोकं जनौघानां दातुमर्हसि सुव्रत. ॥९९७॥इमे सर्वेऽप्यात्म ज न्मन्त्स्नेहान्मानुगताः सदा भक्ता हि भजितव्याश्च त्यक्तात्मानश्च मत्कृते. ’ ॥९९८॥श्रुत्वा वाक्यं सत्प्रि य स्य ब्रह्मा विश्वकृदब्रवीत्, ‘ लोकान्त्संतानकान्नाम यास्यंतीमे समागताः. ॥९९९॥तिर्यंग्गतं त्वानु रा गात् यद्विष्णोऽनुगतं ध्रुवम् प्राणांस्त्यक्ष्यति भक्त्या तत्संतानेषु निवत्स्यति. ॥१०००॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP