TransLiteral Foundation

उत्तरकांडम् - काव्य ९५१ ते १०००

उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


काव्य ९५१ ते १०००
‘ विभज्य पुत्रयो रा ज्यं दत्तं विंध्यस्य रोधसि
पुरी कुशावती नाम कुशस्य रचितोत्तमा. ॥९५१॥
श्रावस्तीति पुरी म ह्यां प्रसिद्धि प्रापिता वरा
लवस्य निर्मिता वीर ! राघवेण महात्मना. ॥९५२॥
कृत्वा त्वयोध्यां वि ज नां राघवो भरतस्तथा
पौरैः समं स्वर्गमने कृतोद्योगौ सहानुगौ. ’ ॥९५३॥
एवं निवेद्य प्र य त्ताः शत्रुघ्नाय महात्मने
विरेमुस्ते ततो दूता‘स्त्वर भूपे’ति चाब्रुवन् ॥९५४॥
श्रुत्वा वृत्तं तत्त्व रा वाञ् शत्रुघ्नः कांचनाभिधम्
पुरोहितं समानीय प्रजाश्चाकथयत्स्वयम्. ॥९५५॥
अभिषिच्याथ सु म हत्तद्राज्यं स्वं विभज्य सः
पुत्राभ्यां प्रददौ लेभे सुबाहुर्मधुरां पुरीम्. ॥९५६॥
शत्रुघाती च ते ज स्वी वैदिशं प्रप सत्पुरम्
एवं कृत्वाऽगादयोध्यां रथेनैकेन सत्वरम्. ॥९५७॥
स शत्रुघ्नो विन य वानभिवाद्याह राघवम् !
‘ तवानुगमने राजन्विद्धि मां कृतनिश्चयम्. ॥९५८॥
दत्तं राज्यं तनु ज योः कृतं कृत्यमशेषतः
न चान्यदद्य वक्तव्यमागतोऽहमुपासितुम्. ॥९५९॥
त्वच्छासनं स्वाश य ज्ञ ! प्रभो नित्यमनुष्ठितम्
निहन्यमानं नेच्छामि प्रसादं कर्तुमर्हसि. ’ ॥९६०॥
तं बाढमित्युदा रा णां गुरुराहातिवत्सलः
ततः समागता ऋक्षा वानराश्च सयूथपाः. ॥९६१॥
ते कृतांजलयो म ह्यां पतिताः प्रभुमब्रुवन्,
‘ नयास्मानपि काकुत्स्थ ! शरणागतवत्सल !’ ॥९६२॥
तांश्च बाढमिति श्री मानुवाच श्रितवत्सलः
अथ बद्धांजलिः प्राह सुग्रीवो रघुनंदनम्. ॥९६३॥
‘ अभिषिच्यांगदं रा ज्ये प्राप्तोऽहं राम ! कामद !
तवानुगमने राजन्विद्धि मां कृतनिश्चयम्. ’ ॥९६४॥
तं स्मयन्नाह स म ये प्रपतं बाढमिति प्रभुः
बिभीषणमथोवाच वाचस्पतिशतस्तुतः. ॥९६५॥
‘ शृणु राक्षसरा ज  ! त्वं कार्यं मच्छासनं त्वया
प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि. ॥९६६॥
यावच्चंद्रोऽब्जप्रि य श्च यावत्तिष्ठति मेदिनी
यावच्च मत्कथा लोके तावद्राज्यं तवास्त्विह. ’ ॥९६७॥
तथेति रक्षसां रा जा प्रतिजग्राह तद्वचः
तमेवमुक्त्वा श्रीरामो हनूमंतमथाब्रवीत्. ॥९६८॥
‘ तावत्प्रीतस्त्वं र म स्व मद्वाक्यमनुपालयन्
मत्कथाः प्रचयिष्यंति यावल्लोके हरीश्वर ! ’ ॥९६९॥
कृतांजलिर्वायु ज स्तमब्रवीद्राममीश्वरम्.
‘ यावत्तव कथा लोके तावत्स्थास्याम्यहं भुवि. ’ ॥९७०॥
जांबवंतं प्रव य सं मैंदं च द्विविदं प्रभुः
प्राह, ‘ यावत्कलियुगं तावज्जीवत सर्वदा. ’ ॥९७१॥
अथ प्रभातर ज नौ पृथुवक्षा महायशाः
रामः कमलपत्राक्षः स्वपुरोहितमब्रवीत्. ॥९७२॥
‘ अग्नेऽग्निहोत्रं प्र य तैर्विप्रैः सार्धं व्रजत्विदम्
वाजपेयातपत्रं च शोभमानं महापथे. ॥९७३॥
ततो गुरुस्तपो रा शिः सर्वं निरवशेषतः
चकार विधिवद्धर्मं महाप्रस्थानिकं विधिम् ॥९७४॥
सूक्ष्मांबरधरो म त्या स ब्रह्मावर्तयन् परम्
कुशान् गृहीत्वा पाणिभ्यां सरयूं प्रययौ स्वयम्. ॥९७५॥
मौनव्रतधरः श्री मान् पद्भ्यामेव चलन् पथि
निर्जगाम गृहात्तस्माद्दीप्यमानो यथांशुमान्. ॥९७६॥
पार्श्वेऽस्य दक्षिणे रा ज्ञः पद्मा श्रीः समुपस्थिता
सव्येऽपि च मही देवी व्यवसायस्तथाग्रतः. ॥९७७॥
स्तुतानि शस्त्राण्य म रैर्यानि तस्य जगत्पतेः
अन्वय्युस्तानि तं रामं कृत्वा पुरुषविग्रहम्. ॥९७८॥
वेदाश्च सर्वे त्रि ज गन्मूलं राजर्षिरूपिणम्
अनुजग्मुस्तदा रामं प्रभुं ब्राह्मणरूपिणः. ॥९७९॥
ओंकारश्चाथ गा य त्री वषट्कारश्च मूर्तिमान्
यज्ञाश्चानुव्रता रामं सर्वे पुरुषविग्रहाः. ॥९८०॥
हृष्टाः सपरिवा रा स्तं पौरा जानपदा जनाः
अन्वयुः पशवः सर्वे पक्षिणः स्थावरा अपि. ॥९८१॥
सर्वे रामानुग म ने हृष्टाः पुष्टाः प्लवंगमाः
तेषां बभूव भाग्येन स्वर्गद्वारमपावृतम्. ॥९८२॥
भूताः प्रेताश्चानु ज ग्मुः प्रभुं किंबहुना तदा
सुसूक्ष्ममप्ययोध्यायां प्राणिजातं न दृश्यते. ॥९८३॥
भ्रातरौ मंत्रिणा य त्ताः सर्वे सांतःपुराः पुरात्
निर्गत्य तेऽन्वयू रामं प्रभुं तद्गुणरंजिताः. ॥९८४॥
अध्यर्धयोजनं ज न्मिजन्ममृत्युभयापहः
गत्वा ददर्श सरयूं रामः पुण्योदकां नदीम्. ॥९८५॥
तस्याः स्वर्गप्रदो य स्तं देशं रामः समागतः
तस्मिन्मुहूर्ते ब्रह्मापि त्रिदशौर्मुनिभिः सह. ॥९८६॥
विमानानां भास्व रा णां शतकोटिभिरावृतम्
प्रभाभिः स्वर्गिणां व्योम ज्योतिर्मयमिवाभवत्. ॥९८७॥
सुखस्पर्शस्तत्र म रुद्ववौ शीतः सुगंधवान्
पपात पुष्पवृष्टिश्च देववाद्यानि सस्वनुः. ॥९८८॥
गंदह्र्वाश जगुः श्री मद्रामस्य चरितं मुदा
मुख्या अप्सरसस्तत्र ननृतुर्हृष्टमानसाः. ॥९८९॥
रचितांजलि रा रा त्तमागत्य विधिरब्रवीत्,
‘ आगच्छ विष्णो ! भद्रं ते तां तनुं प्रविश स्वकाम्. ॥९९०॥
भ्रातृभिः सह धा म त्वं निजं विष्णो विभूषय
लोकानां गतिरस्याद्य न त्वां जानंति केचन. ॥९९१॥
ज्ञानशक्तिं विना ज ! त्वां न जानंति जगद्गुरो ! ’
इति वाक्यं विधेः श्रुत्वा रामो रमयतां वरः. ॥९९२॥
पद्मापतिः पुण्य य शाः सशरीरोऽनुजैः सह
विवेश वैष्णवं धाम ध्यातं यत्साधुभिः सदा. ॥९९३॥
ततो विष्णुमयं रा मं पूजयंति स्म देवताः
साध्या मरुद्गणाश्चैव सेंद्राः साग्निपुरोगमाः. ॥९९४॥
देवर्षयो जात म हा गंधर्वास्त्रिदशांगनाः
सुपर्णनागयक्षाश्च दैत्यदानवराक्षराः. ॥९९५॥
‘ अत्र त्वय्यागतेऽ ज ! त्रिदिवः पूर्णमनोरथः
हृष्टो विकल्मषो जात इत्यूचुर्विष्णुमव्ययम्. ॥९९६॥
अथ विष्णुः स्वप्रि य कृत् तं पितामहमब्रवीत्,
‘ एषां लोकं जनौघानां दातुमर्हसि सुव्रत. ॥९९७॥
इमे सर्वेऽप्यात्म ज न्मन्त्स्नेहान्मानुगताः सदा
भक्ता हि भजितव्याश्च त्यक्तात्मानश्च मत्कृते. ’ ॥९९८॥
श्रुत्वा वाक्यं सत्प्रि य स्य ब्रह्मा विश्वकृदब्रवीत्,
‘ लोकान्त्संतानकान्नाम यास्यंतीमे समागताः. ॥९९९॥
तिर्यंग्गतं त्वानु रा गात् यद्विष्णोऽनुगतं ध्रुवम्
प्राणांस्त्यक्ष्यति भक्त्या तत्संतानेषु निवत्स्यति. ॥१०००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:40.6630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

घरवत

  • स्त्री. ( गो . ) घरसंसारासंबंधींची कथा , गोष्ट . ( घर शब्दांत ) घरवरौत पहा . 
RANDOM WORD

Did you know?

शंखनादाविषयी कांही माहिती पाहिजे.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.