उत्तरकांडम् - काव्य ७०१ ते ७५०

उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


वसिष्ठं तपसां राशिं वामदेवं च नारदम्
मार्कंडेयं मुनीनन्यान्प्रांजलिः प्राह राघवः. ॥७०१॥
‘ वृद्धो मृतात्मजो म ग्नः शोके जानपदो द्विजः
रुद्ध्वा द्वारं स्थितः कार्यं भगवंतो मयाद्य किम् ? ॥७०२॥
तच्छ्रुत्वा नारदः श्री मानुवाच, ‘ रघुनंदन !
मन्ये तप्यति शूद्रोऽद्य तेन वालवधो ह्ययम्. ॥७०३॥
तस्मात्स्वदेशं त्वं रा जन् ! मृगयाघं निवारय
भविष्यत्येव धर्मेण विप्रबालस्य जीवनम्. ’ ॥७०४॥
नारदस्यामृत म यं श्रुत्वा वाक्यं रघुत्तमः
प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत्. ॥७०५॥
गच्छाभ्यर्णं त्वं द्वि ज स्य समाश्वासय सौम्य ! तम्
बालस्य च शरीरं ततैलद्रोण्यां निधापय. ’ ॥७०६॥
एवं संदिश्य तं य त्तमाज्ञासंपादनेऽनुजम्
मनसा पुष्पकं दध्यावागच्छेति महायशाः. ॥७०७॥
तद्विज्ञायेंगितं रा ज्ञः पुष्पको हेमभूषितः
आजगाम मुहूर्तेन समीपं सेवनादृतः. ॥७०८॥
सोऽब्रवीत्, ‘ प्रणतो म ह्या नाथा‘यमहमाज्ञया
वश्यस्तव महाबाहो ! किंकरः समुपस्थितः. ’ ॥७०९॥
नत्वा महर्षीन् रा जा र्षिर्विमानमाधिरुह्य सः
प्रतीचीमुत्तरां पूर्वां विचिन्वन् दक्षिणां ययौ. ॥७१०॥
शैवलस्य सरो य त्रादपश्यत्पार्श्व उत्तरे
विंध्यस्य दक्षिणे भागे स्वादर्शतलनिर्मलम्. ॥७११॥
तत्र कैअसल्यात्म ज निस्तप्यंतं सुमहत्तपः
ददर्श तापसं वृक्षे लंबमानमधोमुखम्. ॥७१२॥
तमाह, ‘ कृशका य स्त्वं धन्यस्तापस ! सुव्रत !
कोऽसि जात्या कस्तपोऽर्थो ब्रूह्येतत्सत्यवाग्भव. ’ ॥७१३॥
अब्रवीत्सोऽवाक्शिरा स्तं रामं सत्यपराक्रमम्,
‘ शूद्रः शंबूकनामाहं स्वर्गार्थं देव ! मे तपः. ’ ॥७१४॥
तच्छ्रुत्वैवासिम म लं कोशान्निष्कृष्य दारुणम्
लंबमानस्य शूद्रस्य शिरश्चिच्छेद राघवः. ॥७१५॥
सेंद्रा देवास्तदा श्री शं शशंसुः साधु साध्विति
पुष्पवृष्टिमुचः प्रोचु‘र्वरं वरय राघव ! ’ ॥७१६॥
प्रोवाच प्रांजली रा जा, ‘ द्विजपुत्रः स जीवतु ’
त ऊचुः, ‘ पतिते शूद्रे द्विजपुत्रः स उत्थितः. ॥७१७॥
अगस्त्यं प्रति या म त्वं द्रष्टुमागच्छ तं मुनिम्
तस्य दीक्षा समाप्ताद्य वर्षं हि द्वादशं गतम्. ॥७१८॥
सदा स्थितोऽभूत्स ज ले द्रष्टव्यः सुमहातपाः. ’
इत्युक्त्वा ते सुरा जग्मुर्द्रष्टुं रामोऽपि कुंभजम्. ॥७१९॥
दृष्ट्वा सुरास्तं प्र य युः स्वर्गं रामस्ततो गतः.
तं संपूज्य मुनिः प्रीत्या प्रशशंसासकृत्प्रभुम्. ॥७२०॥
‘ राम ! त्वमसि ना रा णामयनं धर्मपालकः
त्वया धर्मेण विप्रस्य जीवनं प्रापितः सुतः. ॥७२१॥
उषित्वा रजनी म त्र श्वः पुरीं गंतुमर्हसि
इदं गृहाण वलयं निर्मितं विश्वकर्मणा. ॥७२२॥
तद्गृहीत्वा कुंभ ज स्य प्रियकृद्रघुनंदनः
पप्रच्छ, ‘ भवता प्राप्तं कुतो वा केन वाहृतम्. ’ ॥७२३॥
सोऽब्रवीदद्भुत य शाः ‘ शतय्तोजनविस्तृते
वनेऽपश्यं सरो राम ! प्रसन्नं योजनायतम्. ॥७२४॥
रम्यं शवं च रा ज न् ! मे दृष्ट्वाभूद्विस्मयो महान्
अथापश्यं व्योमयानं स्वर्गिणं तत्र भास्वरम्. ॥७२५॥
तं शवं पद्मन य नो भक्षयामास सोऽखिलम्
तमपृच्छमहं कस्त्वं देवसंकाश ईदृशः. ॥७२६॥
यथा नाथो निर्ज रा णां गंधर्वाप्सरसां मतः
आहारो गर्हितोऽतीव किमर्थं वक्तुमर्हसि. ’ ॥७२७॥
स प्रांजलिः प्राह ‘ म म ब्रह्मन् ! वृत्तमिदं शृणु
वैदर्भः श्वेतनामाहं सुदेवो मत्पिता मुने ! ॥७२८॥
आश्रमोऽयं मम श्री मन्नत्र तप्तं मया तपः
त्रीणि वर्षसहस्राणि ब्रह्मलोकमहं गतः. ॥७२९॥
क्षुत्तृट्‍ च सत्तपो रा शे ! पीडयामास तत्र माम्
सत्यलोके महापुण्ये क्षुप्तिपासाविवर्जिते. ॥७३०॥
ब्रह्माणमवदं म र्त्यमिव मां भगवन् ! कुतः
क्षुत्तृट् च बाधतेऽत्रापि देवभूतं तपोबलात्. ॥७३१॥
ब्रूह्येतद्दययाऽ ज त्वं पाकोऽयं कस्य कर्मणः
आहारः कश्च मेऽत्यंतं क्षुधितस्य जगत्पते ! ’ ॥७३२॥
ब्रह्माह मां ‘ भक्ष य त्वं श्वेत् ! स्वक्रव्यमन्वहम्
देहमेव निजं पुष्टं, न दत्तं किमपि त्वया. ॥७३३॥
देहस्तेऽभ्यवहा रा र्थं भविष्यति पुनःपुनः
गर्हितात्कर्मणोऽस्मात्त्वामगस्त्यो मोचयिष्यते. ॥७३४॥
अगस्त्यं त्वामहं म न्ये नान्यस्यात्र गतिर्मुने !
इदं गृहाणाभरणं प्रसादं कर्तुमर्हसि. ॥७३५॥
इदं तावन्मुनेऽ ज स्त्रं सुवर्णं धनमंबरम्
भक्ष्यं भोज्यं च ब्रह्मर्षे ! ददात्याभरणानि च. ॥७३६॥
गृहीत्वैतत्तार य मामिति श्रुत्वैव तद्गिरम्
मया गृहीतं वलयं मुक्तः कृच्छ्रात्स तत्क्षणात्. ॥७३७॥
शक्रतुल्येन रा ज न् ! दिव्यमाभरणं स्वयम्
अस्मिन्निमित्ते श्वेतेन दत्तमद्भुतदर्शनम्. ॥७३८॥
श्रुत्वा विचित्रं भू य स्तं मुनिं पप्रच्छ राघवः
यत्प्रविष्टो वनं श्वेतः कथं तदमृगद्विजम्. ॥७३९॥
मुनिराह पुरा रा जा दंड इक्ष्वाकुनंदनः
ददर्श शुक्रस्य सुतां रूपेणाप्रतिमां भुवि. ॥७४०॥
धर्षयामास तां म त्तो विरजां गुरुनंदिनीम्
कृत्वैतद्दारुणं कर्म मधुमंतं पुरं गतः. ॥७४१॥
तच्छ्रुत्वा भार्गवः श्री मान् विरजायाः प्रधर्षणम्
क्रुद्धः शशाप तं चंडं नविजितेंद्रियम्. ॥७४२॥
पांसुवर्षं सप्त रा त्राच्छक्रात्प्रादुर्भविष्यति
विंध्यशैवलमध्यस्थविषयस्य विनाशनम्. ॥७४३॥
वधं प्राप्स्यत्यसौ म त्तः सपुत्रबलवाहनः
शपं श्रुत्वाश्रमं त्यक्त्वा विषयांते गतो जनः. ॥७४४॥
त्यक्त्वाश्रमं मुनि ज ने गतेऽथ विरजां कविः
अब्रवी‘दाश्रमेऽत्रैव वस त्वं सुसमाहिता. ॥७४५॥
त्वत्समीपे निर्भ य ता प्राणिनां वसतां सदा. ’
इत्युक्त्वा भार्गवो वासमन्यत्र समकारयत्. ॥७४६॥
दंडस्य विषयो रा ज्ञो दुर्मतेस्तस्य राघव !
सप्ताहाद्भस्मसाद्भूतो यथोक्तं ब्रह्मवादिना. ॥७४७॥
देशो भार्गवसा म र्थ्यादभवन्निर्मृगद्विजः
ततःप्रभृति काकुत्स्थ ! दंडकारण्यमुच्यते. ॥७४८॥
तपस्विवासाच्च ज नस्थानं नाम्नाभवत्प्रभो !
एवं श्रुत्वा मुनिं नत्वा श्रीरामः स्वपुरं ययौ. ॥७४९॥
विमानं पुष्पकं य क्षभर्तुरंतिकमेव सः
पुनः संप्रेषयामास संपूज्य रघुवल्लभः. ॥७५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP