TransLiteral Foundation

उत्तरकांडम् - काव्य १०१ ते १५०

उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


काव्य १०१ ते १५०
तस्य त्वनंतरं ज ज्ञे कुंभकर्णो महाबलः
ततः शूर्पणखा राम ! धर्मात्माथ बिभीषणः. ॥१०१॥
जातो बिभीषणो य र्हि पुष्पवर्ष तदापतत्
नभस्थाने दुंदुभयो देवानां प्राणदंस्तथा. ॥१०२॥
तावरण्ये महा रा ज ववृधाते महौजसौ
कुंभकर्णदशग्रीवौ लोकोद्वेगकरौ तदा. ॥१०३॥
कुंभकर्णः सुप्र म त्तो महर्षीन् धर्मवत्सलान्
भक्षयन्विचचारोग्रो न संतुष्टो जगन्त्रये. ॥१०४॥
बिभीषणः शुचिः श्री मान् ’ नित्यं धर्मे व्यवस्थितः
स्वाध्यायाहारनियतो बुद्धिमान्विजितेंद्रियः. ॥१०५॥
अथ राजन् राज रा जस्तत्र कालेन केनचित्
आगतः पितरं द्रष्टुं पुष्पकेण धनेश्वरः. ॥१०६॥
तं दृष्ट्वा कैकसी म ग्ना दुःखे पुत्रं दधाननम्
प्राह, ‘ पश्य दशग्रीव ! भ्रातरं भाग्यशालिनम्. ॥१०७॥
भ्रातृभावे समेऽ ज स्रं पश्यात्मानं त्वमीदृशम्
तथा यत्रं कुरु यथा भवेर्वैश्रवणोपमः. ’ ॥१०८॥
स प्राह मातरं, ‘ य त्राच्छ्रीदतुल्योऽधिकोऽपि वा
भविष्याम्योजसा मातः ! संतपं त्यज हृद्गतम्. ’ ॥१०९॥
स इत्युक्त्वांभोध रा भ ! तपोर्थं कृतनिश्चयः
दशग्रीवो ययौ राम ! गोकर्णं सानुजो वशी. ॥११०॥
स कुंभकर्णः सु म हत्तपश्चक्रे महातपाः
शीतवृष्टिसहो, ग्रीष्मे पंचाग्नीन् परितः स्थितः. ॥१११॥
तस्य साधुः सोऽनु जन्मा नित्यं धर्मरतः शुचिः
पंच वर्षसहस्त्राणि पादेनैकेन तस्थिवान्. ॥११२॥
तावतीश्च समा य त्तः स्वाध्याये धृतमानसः
तस्थावूर्ध्वशिरोबाहुः सहस्रांशुं विलोकयन्. ॥११३॥
दशकंठोऽपि सोऽ ज स्रं निराहारो दृढासनः
पूर्णे वर्षसहस्रे स्वं शिरो वह्नौ जुहाव ह. ॥११४॥
छेत्तुकामोऽभूत्स य दा दशास्यो दशमं शिरः
वरदस्त्रिदशैः सार्धं प्राप्तस्तत्र पितामहः. ॥११५॥
अब्रवीत्तं सुरा रा ध्यो, ‘ वरं वरय वांछितम्
महासत्त्व ! दशग्रीव ! सफलस्ते परिश्रमः. ’ ॥११६॥
हृष्टः स तस्मिन्स मये प्रबद्धांजलिरब्रवीत्,
‘ नास्ति मृत्युसमः शत्रुरमरत्वमहं वृणे. ’ ॥११७॥
ततः प्रोवाच तं श्री मान् भगवांश्चतुराननः,
‘ नास्ति सर्वामरत्वं ते, वरमन्यं वृणीष्व मे. ’ ॥११८॥
एवमुक्ते तदा रा म ! ब्रह्मणा लोककर्तृणा
दशग्रीव उवाचेदं कृतांजलिरथाग्रतः. ॥११९॥
‘ सुपर्णयक्षाह्य म रदैत्यदानवरक्षसाम्
अवध्योऽहं प्रजाध्यक्ष ! भवेयं त्वत्प्रसादतः. ॥१२०॥
अन्येषु चिंता त्व ज ! मे नास्त्येवामरपूजित !
तृणभूता हि मे सर्वे प्राणिनो मानुषादयः. ’ ॥१२१॥
इत्थमुक्तस्तत्प्रि य कृत्तमुवाच पितामहः,
‘ भविष्यत्येवमेतत्ते वचो राक्षसपुंगव ! ॥१२२॥
हुतानि यानि धी रा ग्नौ मस्तकानि त्वया पुरा
पुनस्तानि भविष्यंति तथैव तव रक्षस ! ॥१२३॥
कामरूपश्च स म ये भविष्यसि दशानन ! ’
एवमुक्तस्योत्थितानि तानि शीर्षाणि रक्षसः. ॥१२४॥
अथाब्रवीत्पद्म ज स्तं साध्वाचारं बिभीषणम्,
‘ परितुष्टोऽस्मि धर्मात्मन् ! वरं वरय सुव्रत ! ’ ॥१२५॥
कृतांजलिः स प्र य तः प्राह लोकगुरु स्वयम्,
‘ प्रीतस्त्वं कृतकृत्योऽस्मि वृतः सर्वगुणैरहम्. ॥१२६॥
दातव्यश्चेत्कंज ज  ! मे वरस्तच्छृणु वत्सल !
परमापद्रतस्यापि धर्मे भवतु मे मतिः. ॥१२७॥
अस्त्रेषु प्रवरं य त्तत्प्रसादात्तव वत्सल !
अशिक्षितं च ब्रह्मास्त्रं भगवन् ! प्रतिभानु मे. ॥१२८॥
सदा धर्मनया रा मा धर्मपालनसादरा
सर्वत्र बुद्धिमें देव ! भवतु त्वत्प्रसादतः. ’ ॥१२९॥
तमाह देवः स म हान्, ‘ सर्वमेतद्भविष्यति
राक्षसोऽप्यसि साधुस्त्वममरत्वं ददामि ते. ’ ॥१३०॥
कुंभकर्णाय च श्री मान् वरं दातुमवस्थितः
तं देवं परमत्रस्ताः प्राहुः प्रांजलयः सुराः. ॥१३१॥
‘ कुंभकर्णेनाम रा द्य ! महेंद्रानुचरा दश
नंदनेप्सरसः सप्त भक्षिता ऋषयोऽप्वज ! ॥१३२॥
भक्षिता बहवोऽ म अर्त्या एवंवीर्यो वरादृते,
एष लब्धवरः स्याच्चेद्भक्षयेद्भुवनत्रयम्. ॥१३३॥
वरव्याजेनाब्ज ज ने ! मोहोऽस्मै दीयतां प्रभो !
लोकानां स्वस्ति चैवं स्याद्भवेदस्य च संमतिः. ’ ॥१३४॥
एवमुक्तोऽचिंत य त्स ब्रह्मा देवहिते रतः
चिंतिता चिपतस्थे‍ऽस्य पार्श्वं देवी सरस्वती. ॥१३५॥
विधिस्तामाह धी रा णां भजतामिष्टकारिणीम्,
‘ वाणि ! त्वं राक्षसेंद्रस्य भव वाक् देवतेप्सिता. ’ ॥१३६॥
तथेत्युक्त्वा हृष्ट म तिः प्रविष्टा सा सरस्वती
धाता तमाह, ‘ वत्स ! त्वं वरं वरय यो मतः. ’ ॥१३७॥
स कैकस्या आत्म ज स्तं प्रभुं तन्मोहितोऽब्रवीत्,
‘ स्वप्तुं वर्षाण्यनेकानि देवदेव ! ममेप्सितम्. ’ ॥१३८॥
तथेति कृतमा य स्तं प्रोक्त्वा प्रायात्पितामहः
सरस्वती जहौ कृत्वा देवकार्यं निशाचरम्. ॥१३९॥
दशकंठस्यानु ज श्च चिंतयामास दुःखितः,
‘ ईदृशं किमिदं वाक्यं ममाद्य वदनाच्च्युतम् ? ॥१४०॥
हंताहं मोहितो य त्नाद्देवैर्मन्ये समागतैः
एवं गते किं कर्तव्यं वंचितेन मयारिभिः ? ’ ॥१४१॥
लब्ध्वा वरान् खेच रा स्ते न्यवसन् पितुराश्रमे
तदाकर्ण्य प्रहृष्टात्मा सुमाली तानुषागतः. ॥१४२॥
मातामहः स कु म तिस्तं दशग्रीवमब्रवीत्,
‘ दिष्ट्या वत्स ! त्वया प्राप्तश्चितितोऽयं मनोरथः. ॥१४३॥
त्यक्त्वा लंकां वयं श्री शत्रस्ताः प्राप्ता रसातलम्
तद्गतं नो महाबाहो ! महद्विष्णुकृतं भयम्. ॥१४४॥
लंकायां रक्षयां रा जा भव त्वमधुना बली,
त्वया राक्षसवंशोऽयं निमग्नोऽपि समुद्धृतः. ॥१४५॥
धनेश्वराल्लब्ध म हा लंकामाच्छिद्य तेजसा
अस्माभिः सचिवैर्युक्तो राज्यं त्वं भोक्तुमर्हसि. ’ ॥१४६॥
उवाच विश्रवो ज स्तं मातुस्तातं सुमालिनम्,
‘ वित्तेशो गुरुरस्माकं नार्हसे वक्त्तुमीदृशम्. ’ ॥१४७॥
ततः प्रहस्तो न य विद्दित्यदित्यात्मजन्मनाम्
भ्रातृद्रोहात्मकं वृत्तं कथयामास विस्तरात्. ॥१४८॥
चिंतयित्वा तद्दु रा त्मा प्रहस्तस्य वचस्ततः
दशास्यो बाढमित्युक्त्वा स लंकोपवनं गतः. ॥१४९॥
तं प्रहस्तं दूत म र्थमुक्त्वा वैश्रवणातिकम्
प्रेषयामास साम्ना मे लंकां देहीति भाषितुम्. ॥१५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:39.7100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

fallopian canal

  • फॅलोपी नलिका 
RANDOM WORD

Did you know?

रुक्मिणीस्वयंवर पोथीची पारायणे केली असता मुलींची लग्ने लवकर जमतात, हे खरे आहे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.