TransLiteral Foundation

उत्तरकांडम् - काव्य ५१ ते १००

उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


काव्य ५१ ते १००
प्राप्योपायं शंक रा त्ते देवा राक्षसपीडिताः
शरण्यं शरणं जग्मुर्विष्णुं प्रणतवत्सलम्. ॥५१॥
दत्त्वाभयं तान्सोऽ म र्त्यान् शंखचक्रगदाधरः
स्वस्थानं प्रेषयामास तज्ञ्ज्ञात्वोवाच माल्यवान्, ॥५२॥
‘ भ्रातरौ ! प्रार्थितः श्री शः सुरैः सोऽस्मान्निशाचरान्,
हंतुं प्रतिज्ञां कृतवान् किं कर्तव्यमतःपरम् ? ’ ॥५३॥
सुमालिमालिनौ रा म ! मत्तावूचतुरग्रजम्,
‘ हंतव्यास्त्रिदशा यैर्नो घातार्थं प्रार्थितोऽच्युतः. ’ ॥५४॥
इति कृत्वा मतिं म त्ता देवान् हन्तुं समुद्यताः
चतुरंगबलोपेता लंकायास्ते विनिर्गताः. ॥५५॥
तज्ञ्ज्ञात्वा द्विजरा ज स्य पृष्ठमारुह्य चक्रभृत्
तानाससाद दुर्वृत्तान् हंतुं मंतुं स्मरप्रभुः. ॥५६॥
शस्त्रैर्जघ्नुः प्रभुं य त्ता युगपत्सर्व एव ते
ततः शार्ङ्गधनुर्मुक्तैः शरैस्तानहनद्धरिः. ॥५७॥
पांचजन्यं महा रा वं प्रदध्मौ पुरुषोत्तमः
पतुस्ते राक्षसा भग्ना वाहनेभ्यो भयार्दिताः. ॥५८॥
त्रासयामास स म हान् शंखराजरवः परान्
मृगराज इवारण्ये समदानिव कुंजरान्. ॥५९॥
सुमाली प्राप्तवि ज यं विष्णुं हंतुं धनुर्धरः
ररास राक्षसो हर्षात्सतडित्तोयदो यथा. ॥६०॥
सुमालिनो निर्भ य स्य सारथेरिषुणा शिरः
चिच्छेद त्रिजगन्नाथो भ्रांतास्ते तस्य वाजिनः. ॥६१॥
अथ मालिशरा ज न्ये कार्तस्वरविभूषिताः
विविशुर्हरिमासाद्य क्रौंचं पत्ररथा इव. ॥६२॥
सोऽर्द्यमानोऽपि सु य शा बहुभिर्मालिनः शरैः
न चुक्षुभे रणे विष्णुर्जितेंद्रिय इवाधिभिः. ॥६३॥
मालिनं त्रिदशा रा तिं क्रूरं विमुखमाशुगैः
चकार पातयन् मौलिं ध्वजं चापं तुरंगमान्. ॥६४॥
जघान गदया म ध्ये ललाटं स खगेश्वरम्
गरुत्मान् विमुखश्चक्रेऽजितमाजौपराड्मुखम्. ॥६५॥
पराड्मुखोऽपि स श्री शस्तिर्यग्वलितकंधरः
मालिनोऽपातयच्छीर्षं चक्रेणातुलतेजसा. ॥६६॥
हते मालिनि तौ रा जन् ! सुमाली माल्यवानुभौ
सबलौ शोकसंतप्तौ लंकामेव प्रधावितौ. ॥६७॥
स गरुत्मान्महा म न्युः पक्षवातेन राक्षसान्
द्रावयामास देवोऽपि ममर्दारिगदेषुभिः. ॥६८॥
पेतुर्हताः सिंधु ज ले राक्षसाश्छिन्नमस्तकाः
माल्यवान् केशवं प्राह क्रोधप्रस्फुरिताधरः. ॥६९॥
‘ नारायण ! त्वं सु य शाः क्षत्रक्षर्मं पुरातनम्
न वेत्स्ययुद्धमनसो भीतान् हंसि यथेतरः. ’ ॥७०॥
उवाच तेजसां रा शिः, ‘ सुराणामभयं मया
उत्सादनेन भवतां तदेतदनुपाल्यते. ’ ॥७१॥
शक्त्या विष्णुं बाहु म ध्ये स बिभेदाशु माल्यवान्
हरेरुरसि सा रेजे मेघस्थेव शतहदा. ॥७२॥
तामेव शक्तिम ज नः प्रभुरुत्कृष्य तेजसा
चिक्षेप, सा माल्यवंतं बिभेदोरसि दारुणा. ॥७३॥
मोहं प्राप्तोऽपि का य स्य क्षतं सोऽगणयन् बली
आश्वस्तोऽभ्यहनद्देवं पुनः शूलेन वक्षसि. ॥७४॥
तथैव देवरा ज स्य माल्यवान्मुष्टिनानुजम्
ताडयित्वा धनुर्मात्रमपक्रांतो निशाचरः. ॥७५॥
विष्णुं खगेशं च य दा राक्षसोऽताडयत्पुनः
गरुडः पक्षवातेन सुदूरं तमपोहयत्. ॥७६॥
दृष्ट्वैवाग्रजमा रा त्तं द्रावितं पक्षिणा तथा
सुमाली स्वबलैः सार्धं लंकामभिमुखो ययौ. ॥७७॥
गरुत्मतः पक्ष म रुद्बलोद्धूतः स माल्यवान्
स्वबलेन समागम्य ययौ लंकां हिया वृतः. ॥७८॥
एवं भग्ना रणे श्री मन् राम ! ते बहुशोऽरयः
त्यक्त्वा लंकां गता वस्तुं पातालं स्वजनावृताः. ॥७९॥
ये त्वयाद्य हता रा जन् ! पौलस्त्या रजनीचराः
माल्यवत्प्रमुखाः सर्व एतेभ्यो बलवत्तराः. ॥८०॥
न चान्योऽद्भुतस्रा म र्थ्यो हंता लोकेषु राक्षसान्
विना नारायणं राम ! शंखचक्रगदाधरम्. ॥८१॥
राम ! नारायणोऽ ज य्यः साक्षात्त्वं प्रभुरव्ययः
राक्षसान् हंतुमुत्पन्नः शरणागतवत्सलः. ॥८२॥
कृतस्त्वया वधो य स्य राक्षसस्य रघूत्तम !
जन्म प्रभावं तस्य त्वं रावणस्य निबोध मे. ॥८३॥
स सुमाली सुरा रा तिर्यदा यातो रसातलम्
तदा धनाधिपो लंकामवसत्पुत्रपौत्रवान्. ॥८४॥
अथैकदा प्रभो ! म र्त्यलोकमादाय कन्यकाम्
सुमाली व्यचरत् पश्यन् वरं दुहितुरात्मनः. ॥८५॥
तदा विश्रवसं ज न्मप्रदं दृष्टुं धनेश्वरम्
गच्छंतं पुष्पकेनेड्यमपश्यल्लोकनायकम्. ॥८६॥
सविस्मयोऽचिंत य त्स रक्षसां श्रेय उत्तमम्,
‘ किं कृत्वेत्येवमचिराद्वर्धेमहि कथं वयम् ? ’ ॥८७॥
अथाब्रवीदात्म ज निं कैकसीं स रसातले,
‘ पुत्रि ! प्रदानकालस्ते न च विज्ञायते वरः. ॥८८॥
तत्त्वं विश्रवसं य त्रात्सेवया वरय स्वयम्
ईदृशास्ते भविष्यंति पुत्राः पुत्रि ! न संशयः. ’ ॥८९॥
सा तच्छ्रुत्वा वचो रा त्रिंचरकन्या स्वयं ययौ
उपसृत्य प्रदोषे तं चरणाधोमुखी स्थिता. ॥९०॥
विलिखंतीमथ म हीमंगुष्ठाग्रेण सुंदरीम्
विश्रवा वीक्ष्य पप्रच्छ, ‘ का त्वं कार्यं च किं तव ? ’ ॥९१॥
इवमुक्ता तु सा श्री मन् कृतांजलिरथाब्रवीत्,
‘ आत्मप्रभावेन मुने ! ज्ञातुमर्हसि मे मतम्. ॥९२॥
विद्धि मां तपसां रा शे ! शासनात् पितुरागताम्
ब्रह्मर्षे कैकसीं नाम शेषं त्वं ज्ञातुमर्हसि. ’ ॥९३॥
तां ध्यात्वोवाच स ‘ म या विज्ञातं ते मनोगतम्
सुताभिलाषो मत्तस्ते मत्तमातंगगामिनि ! ॥९४॥
उपस्थिता मां र ज नीमुखे त्वं दारुणे ततः
प्रसविष्यसि सुश्रोणि ! राक्षसान् क्रूरकर्मणः. ’ ॥९५॥
साब्रवीत्साश्रुन य ना, ‘ भगवान् ! ब्रह्मवादिनः
त्वत्तः कुपुत्रान्नीच्छामि प्रसादं कर्तुमर्हसि. ’ ॥९६॥
सोऽब्रवीत्तां पुष्क रा क्षीं पश्चिमो यः सुतस्तव
मम वंशानुरूपः स भविष्यति शुभानने ! ’ ॥९७॥
एवमुक्ता तु स म ये नीलांजनचयोपमम्
दशास्यं विंशतिभुजं जनयामास सा सुतम्. ॥९८॥
तस्य राम ! यदा ज न्म तदोत्पाताः सुदारुणाः
बभूवुर्भूमिकंपाद्याः सर्वलोकभयप्रदाः. ॥९९॥
कृतस्तथाह्वयो य त्स प्रसूतो दशकंधरः
द्विबाहुरेकवत्क्रश्च कामरूपोऽपि सोऽभवत्. ॥१००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:39.6470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ओंबी

  • स्त्री. १ गव्हाचें कणेस , लोंगर ; लोंबी ; ओला दाणा . २ ( अव .) ओंबा ; ओंवींतील काढुन भाजलेले गहूं . हुरडा केलेले आले गहू . ( सं दे . उंबी = भाजलेली गव्हाची कणसें ) 
  • ०टाकणें ( गव्हाला ) कणीस येणें . 
  • f  An ear of wheat 
  • ओंब्या. f pl  Green wheat parched. 
RANDOM WORD

Did you know?

ऐश्वर्याचे प्रकार किती व कोणते?
Category : Dictionary
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.